शृङ्गेर्याख्यपुरस्थिते सुविमले सन्मौनिसंसेविते ।
पीठे तां रविकोटिदीप्तिसहितां राराज्यमानां शिवां
राजीवाक्षमुखामरार्चितपदां वन्दे सदा शारदाम् ॥ १ ॥
वेदान्तप्रतिपाद्यमानविभवां वादादिशक्तिप्रदाम् ।
विद्याकल्पलतां चतुर्मुखमुखाम्भोजातसूर्यायितां
विद्यातीर्थगुरूत्तमैरहरहः संसेव्यमानां भजे ॥ २ ॥
दैत्यव्रातविनाशिनीं कचजितप्रावृट्पयोदां शिवम् ।
संसारार्णवमग्नदीनजनतासन्तापसन्नाशिनीं
वन्दे तां शुभदामनन्यशरणः स्वान्ते सदा शारदाम् ॥ ३ ॥
कामारेः सहजां कराब्जविलसत्कीरां कुबेरार्चिताम् ।
कामक्रोधमुखारिवर्गशमनीं कैवल्यसम्पत्प्रदां
कञ्जोद्भूतमनःप्रियां हृदि भजे भक्त्या सदा शारदाम् ॥ ४ ॥
यत्याकारशशाङ्कमौलिविनुतां सत्यापितस्वाश्रवाम् ।
नत्या केवलमेव तुष्टहृदयां त्यक्त्वाऽन्यदेवानहं
भक्त्या मे हृदयाम्बुजेऽनवरतं वन्दे सदा शारदाम् ॥ ५ ॥
