मतिः श्रीवल्लभे ह्यास्तां रतिः श्रीवल्लभेऽस्तु मे ॥ १ ॥
दर्शनं श्रीवल्लभस्य स्मरणं वल्लभप्रभोः ॥ २ ॥
श्रवणं तद्गुणानां हि स्मरणं तत्पदाब्जयोः ॥ ३ ॥
तत्स्वरूपान्तरो भोगो गमनं तस्य सन्निधौ ॥ ४ ॥
तद्वार्तातिरुचिर्निष्ठा भूयात्तद्वाक्यमात्रगा ॥ ५ ॥
दास्यं तदीयमेवास्तु भूयात्तच्चरणाश्रयः ॥ ६ ॥
अभितः श्रीवल्लभोऽस्तु सर्वं श्रीवल्लभो मम ॥ ७ ॥
प्रार्थना श्रीवल्लभेऽस्तु तत्पदाधीनता मम ॥ ८ ॥
भवेद्भावो विनायासं भक्तिमार्गवृतात्मनाम् ॥ ९ ॥
