गले रत्नमालां स्वयं मेघवर्णम् ।
तथा दिव्यशस्त्रं प्रियं पीतवस्त्रं
धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ 1 ॥
लसन्मेखलं रत्नशोभाप्रकाशम् ।
जगत्पादपद्मं महत्पद्मनाभं
धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ 2 ॥
जगत्कारणं सर्ववेदान्तवेद्यम् ।
विभुं तापसं सच्चिदानन्दरूपं
धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ 3 ॥
सुरैर्वन्दितं ब्रह्मरुद्रस्तुतं तम् ।
शिवं शङ्करं स्वस्तिनिर्वाणरूपं
धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ 4 ॥
चिरं विश्वरूपं सुरेशं महेशम् ।
अहो शान्तरूपं सदाध्यानगम्यं
धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ 5 ॥
महाक्रोडरूपं तथा नारसिंहम् ।
भजे कुब्जरूपं विभुं जामदग्न्यं
धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ 6 ॥
प्रभुं शाश्वतं लोकरक्षामहन्तम् ।
पृथक्काललब्धात्मलीलावतारं
धरन्तं मुरारिं भजे वेङ्कटेशम् ॥ 7 ॥
