Lord Venkateswara

श्री वेङ्कटेश्वर सहस्रनाम स्तोत्रम्

(Shri Venkateshwara Sahasranama Stotram)

From Brahmanda Purana

The Shri Venkateshwara Sahasranama Stotram is a profound devotional composition extracted from the Brahmanda Purana. It serves as a sacred dialogue where Lord Brahma inquires about the thousand divine names of Lord Venkateshwara, the presiding deity of Tirumala. Reciting these one thousand names is considered a powerful spiritual practice that grants mental clarity, removes obstacles, and purifies the mind. It is believed that chanting this stotra with deep devotion fosters a direct connection with the Lord, bestowing upon the devotee grace, inner peace, and divine prosperity, ultimately leading towards liberation and eternal bliss.

श्रीवसिष्ठ उवाच ।

भगवन् केन विधिना नामभिर्वेङ्कटेश्वरम् ।
पूजयामास तं देवं ब्रह्मा तु कमलैः शुभैः ॥ 1 ॥
पृच्छामि तानि नामानि गुणयोगपराणि किम् ।
मुख्यवृत्तीनि किं ब्रूहि लक्षकाण्यथवा हरेः ॥ 2 ॥
नारद उवाच
नामान्यनन्तानि हरेः गुणयोगानि कानि चित् ।
मुख्यवृत्तीनि चान्यानि लक्षकाण्यपराणि च ॥ 3 ॥
परमार्थैः सर्वशब्दैरेको ज्ञेयः परः पुमान् ।
आदिमध्यान्तरहितस्त्वव्यक्तोऽनन्तरूपभृत् ॥ 4 ॥
चन्द्रार्कवह्निवाय्वाद्या ग्रहर्क्षाणि नभो दिशः ।
अन्वयव्यतिरेकाभ्यां सन्ति नो सन्ति यन्मतेः ॥ 5 ॥
तस्य देवस्य नाम्नां हि पारं गन्तुं हि कः क्षमः ।
तथाऽपि चाभिधानानि वेङ्कटेशस्य कानिचित् ॥ 6 ॥
ब्रह्मगीतानि पुण्यानि तानि वक्ष्यामि सुव्रत ।
यदुच्चारणमात्रेण विमुक्ताघः परं व्रजेत् ॥ 7 ॥
वेङ्कटेशस्य नाम्नां हि सहस्रस्य ऋषिर्विधिः ।
छन्दोऽनुष्टुप्तथा देवः श्रीवत्साङ्को रमापतिः ॥ 8 ॥
बीजभूतस्तथोङ्कारो ह्रीं क्लीं शक्तिश्च कीलकम् ।
ॐ नमो वेङ्कटेशायेत्यादिर्मन्त्रोऽत्र कथ्यते ॥ 9 ॥
ब्रह्माण्डगर्भः कवचमस्त्रं चक्रगदाधरः ।
विनियोगोऽभीष्टसिद्धौ हृदयं सामगायनः ॥ 10 ॥
अस्य श्री वेङ्कटेश सहस्रनाम स्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः श्रीवत्साङ्को रमापतिर्देवता ॐ बीजं ह्रीं शक्तिः क्लीं कीलकं ब्रह्माण्डगर्भ
इति कवचं चक्रगदाधर इत्यस्त्रं सामगानमिति हृदयं ॐ नमो वेङ्कटेशायेत्यादिर्मन्त्रः श्री वेङ्कटेश प्रीत्यर्थे जपे विनियोगः ॥ ध्यानम् भास्वच्चन्द्रमसौ यदीयनयने भार्या यदीया रमा यस्माद्विश्वसृडप्यभूद्यमिकुलं यद्ध्यानयुक्तं सदा नाथो यो जगतां नगेन्द्रदुहितुर्नाथोऽपि यद्भक्तिमान् तातो यो मदनस्य यो दुरितहा तं वेङ्कटेशं भजे ॥ ऊर्ध्वौ हस्तौ यदीयौ सुररिपुदलने बिभ्रतौ शङ्खचक्रे सेव्यावङ्घ्री स्वकीयावभिदधदधरो दक्षिणो यस्य पाणिः । तावन्मात्रं भवाब्धिं गमयति भजतामूरुगो वामपाणिः श्रीवत्साङ्कश्च लक्ष्मीर्यदुरसि लसतस्तं भजे वेङ्कटेशम् ॥ इति ध्यायन् वेङ्कटेशं श्रीवत्साङ्कं रमापतिम् । वेङ्कटेशो विरूपाक्ष इत्यारभ्य जपेत्क्रमात् ॥ स्तोत्रं ॐ वेङ्कटेशो विरूपाक्षो विश्वेशो विश्वभावनः । विश्वसृड्विश्वसंहर्ता विश्वप्राणो विराड्वपुः ॥ 1 ॥ शेषाद्रिनिलयोऽशेषभक्तदुःखप्रणाशनः । शेषस्तुत्यः शेषशायी विशेषज्ञो विभुः स्वभूः ॥ 2 ॥ विष्णुर्जिष्णुश्च वर्धिष्णुरुत्सहिष्णुः सहिष्णुकः । भ्राजिष्णुश्च ग्रसिष्णुश्च वर्तिष्णुश्च भरिष्णुकः ॥ 3 ॥ कालयन्ता कालगोप्ता कालः कालान्तकोऽखिलः । कालगम्यः कालकण्ठवन्द्यः कालकलेश्वरः ॥ 4 ॥ शम्भुः स्वयम्भूरम्भोजनाभिः स्तम्भितवारिधिः । अम्भोधिनन्दिनीजानिः शोणाम्भोजपदप्रभः ॥ 5 ॥ कम्बुग्रीवः शम्बरारिरूपः शम्बरजेक्षणः । बिम्बाधरो बिम्बरूपी प्रतिबिम्बक्रियातिगः ॥ 6 ॥ गुणवान् गुणगम्यश्च गुणातीतो गुणप्रियः । दुर्गुणध्वंसकृत्सर्वसुगुणो गुणभासकः ॥ 7 ॥ परेशः परमात्मा च परञ्ज्योतिः परा गतिः । परं पदं वियद्वासाः पारम्पर्यशुभप्रदः ॥ 8 ॥ ब्रह्माण्डगर्भो ब्रह्मण्यो ब्रह्मसृड्ब्रह्मबोधितः । ब्रह्मस्तुत्यो ब्रह्मवादी ब्रह्मचर्यपरायणः ॥ 9 ॥ सत्यव्रतार्थसन्तुष्टः सत्यरूपी झषाङ्गवान् । सोमकप्राणहारी चाऽऽनीताम्नायोऽब्धिसञ्चरः ॥ 10 ॥ देवासुरवरस्तुत्यः पतन्मन्दरधारकः । धन्वन्तरिः कच्छपाङ्गः पयोनिधिविमन्थकः ॥ 11 ॥ अमरामृतसन्धाता धृतसं‍मोहिनीवपुः । हरमोहकमायावी रक्षस्सन्दोहभञ्जनः ॥ 12 ॥ हिरण्याक्षविदारी च यज्ञो यज्ञविभावनः । यज्ञीयोर्वीसमुद्धर्ता लीलाक्रोडः प्रतापवान् ॥ 13 ॥ दण्डकासुरविध्वंसी वक्रदंष्ट्रः क्षमाधरः । गन्धर्वशापहरणः पुण्यगन्धो विचक्षणः ॥ 14 ॥ करालवक्त्रः सोमार्कनेत्रः षड्गुणवैभवः । श्वेतघोणी घूर्णितभ्रूर्घुर्घुरध्वनिविभ्रमः ॥ 15 ॥ द्राघीयान् नीलकेशी च जाग्रदम्बुजलोचनः । घृणावान् घृणिसम्मोहो महाकालाग्निदीधितिः ॥ 16 ॥ ज्वालाकरालवदनो महोल्काकुलवीक्षणः । सटानिर्भिन्नमेघौघो दंष्ट्रारुग्व्याप्तदिक्तटः ॥ 17 ॥ उच्छ्वासाकृष्टभूतेशो निश्श्वासत्यक्तविश्वसृट् । अन्तर्भ्रमज्जगद्गर्भोऽनन्तो ब्रह्मकपालहृत् ॥ 18 ॥ उग्रो वीरो महाविष्णुर्ज्वलनः सर्वतोमुखः । नृसिंहो भीषणो भद्रो मृत्युमृत्युः सनातनः ॥ 19 ॥ सभास्तम्भोद्भवो भीमः शीरोमाली महेश्वरः । द्वादशादित्यचूडालः कल्पधूमसटाच्छविः ॥ 20 ॥ हिरण्यकोरःस्थलभिन्नखः सिंहमुखोऽनघः । प्रह्लादवरदो धीमान् भक्तसङ्घप्रतिष्ठितः ॥ 21 ॥ ब्रह्मरुद्रादिसंसेव्यः सिद्धसाध्यप्रपूजितः । लक्ष्मीनृसिंहो देवेशो ज्वालाजिह्वान्त्रमालिकः ॥ 22 ॥ खड्गी खेटी महेष्वासी कपाली मुसली हली । पाशी शूली महाबाहुर्ज्वरघ्नो रोगलुण्ठकः ॥ 23 ॥ मौञ्जीयुक् छात्रको दण्डी कृष्णाजिनधरो वटुः । अधीतवेदो वेदान्तोद्धारको ब्रह्मनैष्ठिकः ॥ 24 ॥ अहीनशयनप्रीतः आदितेयोऽनघो हरिः । संवित्प्रियः सामवेद्यो बलिवेश्मप्रतिष्ठितः ॥ 25 ॥ बलिक्षालितपादाब्जो विन्ध्यावलिविमानितः । त्रिपादभूमिस्वीकर्ता विश्वरूपप्रदर्शकः ॥ 26 ॥ धृतत्रिविक्रमः स्वाङ्घ्रिनखभिन्नाण्डखर्परः । पज्जातवाहिनीधारापवित्रितजगत्त्रयः ॥ 27 ॥ विधिसम्मानितः पुण्यो दैत्ययोद्धा जयोर्जितः । सुरराज्यप्रदः शुक्रमदहृत्सुगतीश्वरः ॥ 28 ॥ जामदग्न्यः कुठारी च कार्तवीर्यविदारणः । रेणुकायाः शिरोहारी दुष्टक्षत्रियमर्दनः ॥ 29 ॥ वर्चस्वी दानशीलश्च धनुष्मान् ब्रह्मवित्तमः । अत्युदग्रः समग्रश्च न्यग्रोधो दुष्टनिग्रहः ॥ 30 ॥ रविवंशसमुद्भूतो राघवो भरताग्रजः । कौसल्यातनयो रामो विश्वामित्रप्रियङ्करः ॥ 31 ॥ ताटकारिः सुबाहुघ्नो बलातिबलमन्त्रवान् । अहल्याशापविच्छेदी प्रविष्टजनकालयः ॥ 32 ॥ स्वयंवरसभासंस्थ ईशचापप्रभञ्जनः । जानकीपरिणेता च जनकाधीशसंस्तुतः ॥ 33 ॥ जमदग्नितनूजातयोद्धाऽयोध्याधिपाग्रणीः । पितृवाक्यप्रतीपालस्त्यक्तराज्यः सलक्ष्मणः ॥ 34 ॥ ससीतश्चित्रकूटस्थो भरताहितराज्यकः । काकदर्पप्रहर्ता च दण्डकारण्यवासकः ॥ 35 ॥ पञ्चवट्यां विहारी च स्वधर्मपरिपोषकः । विराधहाऽगस्त्यमुख्यमुनिसम्मानितः पुमान् ॥ 36 ॥ इन्द्रचापधरः खड्गधरश्चाक्षयसायकः । खरान्तको दूषणारिस्त्रिशिरस्करिपुर्वृषः ॥ 37 ॥ ततः शूर्पणखानासाच्छेत्ता वल्कलधारकः । जटावान् पर्णशालास्थो मारीचबलमर्दकः ॥ 38 ॥ पक्षिराट्कृतसंवादो रवितेजा महाबलः । शबर्यानीतफलभुक् हनूमत्परितोषितः ॥ 39 ॥ सुग्रीवाऽभयदो दैत्यकायक्षेपणभासुरः । सप्ततालसमुच्छेत्ता वालिहृत्कपिसंवृतः ॥ 40 ॥ वायुसूनुकृतासेवस्त्यक्तपम्पः कुशासनः । उदन्वत्तीरगः शूरो विभीषणवरप्रदः ॥ 41 ॥ सेतुकृद्दैत्यहा प्राप्तलङ्कोऽलङ्कारवान् स्वयम् । अतिकायशिरश्छेत्ता कुम्भकर्णविभेदनः ॥ 42 ॥ दशकण्ठशिरोध्वंसी जाम्बवत्प्रमुखावृतः । जानकीशः सुराध्यक्षः साकेतेशः पुरातनः ॥ 43 ॥ पुण्यश्लोको वेदवेद्यः स्वामितीर्थनिवासकः । लक्ष्मीसरःकेलिलोलो लक्ष्मीशो लोकरक्षकः ॥ 44 ॥ देवकीगर्भसम्भूतो यशोदेक्षणलालितः । वसुदेवकृतस्तोत्रो नन्दगोपमनोहरः ॥ 45 ॥ चतुर्भुजः कोमलाङ्गो गदावान्नीलकुन्तलः । पूतनाप्राणसंहर्ता तृणावर्तविनाशनः ॥ 46 ॥ गर्गारोपितनामाङ्को वासुदेवो ह्यधोक्षजः । गोपिकास्तन्यपायी च बलभद्रानुजोऽच्युतः ॥ 47 ॥ वैयाघ्रनखभूषश्च वत्सजिद्वत्सवर्धनः । क्षीरसाराशनरतो दधिभाण्डप्रमर्दनः ॥ 48 ॥ नवनीतापहर्ता च नीलनीरदभासुरः । आभीरदृष्टदौर्जन्यो नीलपद्मनिभाननः ॥ 49 ॥ मातृदर्शितविश्वाऽऽस्य उलूखलनिबन्धनः । नलकूबरशापान्तो गोधूलिच्छुरिताङ्गकः ॥ 50 ॥ गोसङ्घरक्षकः श्रीशो बृन्दारण्यनिवासकः । वत्सान्तको बकद्वेषी दैत्याम्बुदमहानिलः ॥ 51 ॥ महाजगरचण्डाग्निः शकटप्राणकण्टकः । इन्द्रसेव्यः पुण्यगात्रः खरजिच्चण्डदीधितिः ॥ 52 ॥ तालपक्वफलाशी च कालीयफणिदर्पहा । नागपत्नीस्तुतिप्रीतः प्रलम्बासुरखण्डनः ॥ 53 ॥ दावाग्निबलसंहारी फलाहारी गदाग्रजः । गोपाङ्गनाचेलचोरः पाथोलीलाविशारदः ॥ 54 ॥ वंशगानप्रवीणश्च गोपीहस्ताम्बुजार्चितः । मुनिपत्न्याहृताहारो मुनिश्रेष्ठो मुनिप्रियः ॥ 55 ॥ गोवर्धनाद्रिसन्धर्ता सङ्क्रन्दनतमोऽपहः । सदुद्यानविलासी च रासक्रीडापरायणः ॥ 56 ॥ वरुणाभ्यर्चितो गोपीप्रार्थितः पुरुषोत्तमः । अक्रूरस्तुतिसम्प्रीतः कुब्जायौवनदायकः ॥ 57 ॥ मुष्टिकोरःप्रहारी च चाणूरोदरदारणः । मल्लयुद्धाग्रगण्यश्च पितृबन्धनमोचकः ॥ 58 ॥ मत्तमातङ्गपञ्चास्यः कंसग्रीवानिकृन्तनः । उग्रसेनप्रतिष्ठाता रत्नसिंहासनस्थितः ॥ 59 ॥ कालनेमिखलद्वेषी मुचुकुन्दवरप्रदः । साल्वसेवितदुर्धर्षराजस्मयनिवारणः ॥ 60 ॥ रुक्मिगर्वापहारी च रुक्मिणीनयनोत्सवः । प्रद्युम्नजनकः कामी प्रद्युम्नो द्वारकाधिपः ॥ 61 ॥ मण्याहर्ता महामायो जाम्बवत्कृतसङ्गरः । जाम्बूनदाम्बरधरो गम्यो जाम्बवतीविभुः ॥ 62 ॥ कालिन्दीप्रथितारामकेलिर्गुञ्जावतंसकः । मन्दारसुमनोभास्वान् शचीशाभीष्टदायकः ॥ 63 ॥ सत्राजिन्मानसोल्लासी सत्याजानिः शुभावहः । शतधन्वहरः सिद्धः पाण्डवप्रियकोत्सवः ॥ 64 ॥ भद्रप्रियः सुभद्राया भ्राता नाग्नाजितीविभुः । किरीटकुण्डलधरः कल्पपल्लवलालितः ॥ 65 ॥ भैष्मीप्रणयभाषावान् मित्रविन्दाधिपोऽभयः । स्वमूर्तिकेलिसम्प्रीतो लक्ष्मणोदारमानसः ॥ 66 ॥ प्राग्ज्योतिषाधिपध्वंसी तत्सैन्यान्तकरोऽमृतः । भूमिस्तुतो भूरिभोगो भूषणाम्बरसंयुतः ॥ 67 ॥ बहुरामाकृताह्लादो गन्धमाल्यानुलेपनः । नारदादृष्टचरितो देवेशो विश्वराड्गुरुः ॥ 68 ॥ बाणबाहुविदारश्च तापज्वरविनाशकः । उषोद्धर्षयिताऽव्यक्तः शिववाक्तुष्टमानसः ॥ 69 ॥ महेशज्वरसंस्तुत्यः शीतज्वरभयान्तकः । नृगराजोद्धारकश्च पौण्ड्रकादिवधोद्यतः ॥ 70 ॥ विविधारिच्छलोद्विग्नब्राह्मणेषु दयापरः । जरासन्धबलद्वेषी केशिदैत्यभयङ्करः ॥ 71 ॥ चक्री चैद्यान्तकः सभ्यो राजबन्धविमोचकः । राजसूयहविर्भोक्ता स्निग्धाङ्गः शुभलक्षणः ॥ 72 ॥ धानाभक्षणसम्प्रीतः कुचेलाभीष्टदायकः । सत्त्वादिगुणगम्भीरो द्रौपदीमानरक्षकः ॥ 73 ॥ भीष्मध्येयो भक्तवश्यो भीमपूज्यो दयानिधिः । दन्तवक्त्रशिरश्छेत्ता कृष्णः कृष्णासखः स्वराट् ॥ 74 ॥ वैजयन्तीप्रमोदी च बर्हिबर्हविभूषणः । पार्थकौरवसन्धानकारी दुश्शासनान्तकः ॥ 75 ॥ बुद्धो विशुद्धः सर्वज्ञः क्रतुहिंसाविनिन्दकः । त्रिपुरस्त्रीमानभङ्गः सर्वशास्त्रविशारदः ॥ 76 ॥ निर्विकारो निर्ममश्च निराभासो निरामयः । जगन्मोहकधर्मी च दिग्वस्त्रो दिक्पतीश्वरः ॥ 77 ॥ कल्की म्लेच्छप्रहर्ता च दुष्टनिग्रहकारकः । धर्मप्रतिष्टाकारी च चातुर्वर्ण्यविभागकृत् ॥ 78 ॥ युगान्तको युगाक्रान्तो युगकृद्युगभासकः । कामारिः कामकारी च निष्कामः कामितार्थदः ॥ 79 ॥ भर्गो वरेण्यः सवितुः शार्ङ्गी वैकुण्ठमन्दिरः । हयग्रीवः कैटभारिः ग्राहघ्नो गजरक्षकः ॥ 80 ॥ सर्वसंशयविच्छेत्ता सर्वभक्तसमुत्सुकः । कपर्दी कामहारी च कला काष्ठा स्मृतिर्धृतिः ॥ 81 ॥ अनादिरप्रमेयौजाः प्रधानः सन्निरूपकः । निर्लेपो निःस्पृहोऽसङ्गो निर्भयो नीतिपारगः ॥ 82 ॥ निष्प्रेष्यो निष्क्रियः शान्तो निष्प्रपञ्चो निधिर्नयः कर्म्यकर्मी विकर्मी च कर्मेप्सुः कर्मभावनः ॥ 83 ॥ कर्माङ्गः कर्मविन्यासो महाकर्मी महाव्रती । कर्मभुक्कर्मफलदः कर्मेशः कर्मनिग्रहः ॥ 84 ॥ नरो नारायणो दान्तः कपिलः कामदः शुचिः । तप्ता जप्ताऽक्षमालावान् गन्ता नेता लयो गतिः ॥ 85 ॥ शिष्टो द्रष्टा रिपुद्वेष्टा रोष्टा वेष्टा महानटः । रोद्धा बोद्धा महायोद्धा श्रद्धावान् सत्यधीः शुभः ॥ 86 ॥ मन्त्री मन्त्रो मन्त्रगम्यो मन्त्रकृत्परमन्त्रहृत् । मन्त्रभृन्मन्त्रफलदो मन्त्रेशो मन्त्रविग्रहः ॥ 87 ॥ मन्त्राङ्गो मन्त्रविन्यासो महामन्त्रो महाक्रमः । स्थिरधीः स्थिरविज्ञानः स्थिरप्रज्ञः स्थिरासनः ॥ 88 ॥ स्थिरयोगः स्थिराधारः स्थिरमार्गः स्थिरागमः । निश्श्रेयसो निरीहोऽग्निर्निरवद्यो निरञ्जनः ॥ 89 ॥ निर्वैरो निरहङ्कारो निर्दम्भो निरसूयकः । अनन्तोऽनन्तबाहूरुरनन्ताङ्घ्रिरनन्तदृक् ॥ 90 ॥ अनन्तवक्त्रोऽनन्ताङ्गोऽनन्तरूपो ह्यनन्तकृत् । ऊर्ध्वरेता ऊर्ध्वलिङ्गो ह्यूर्ध्वमूर्धोर्ध्वशाखकः ॥ 91 ॥ ऊर्ध्व ऊर्ध्वाध्वरक्षी च ह्यूर्ध्वज्वालो निराकुलः । बीजं बीजप्रदो नित्यो निदानं निष्कृतिः कृती ॥ 92 ॥ महानणीयन् गरिमा सुषमा चित्रमालिकः । नभः स्पृङ्नभसो ज्योतिर्नभस्वान्निर्नभा नभः ॥ 93 ॥ अभुर्विभुः प्रभुः शम्भुर्महीयान् भूर्भुवाकृतिः । महानन्दो महाशूरो महोराशिर्महोत्सवः ॥ 94 ॥ महाक्रोधो महाज्वालो महाशान्तो महागुणः । सत्यव्रतः सत्यपरः सत्यसन्धः सतां गतिः ॥ 95 ॥ सत्येशः सत्यसङ्कल्पः सत्यचारित्रलक्षणः । अन्तश्चरो ह्यन्तरात्मा परमात्मा चिदात्मकः ॥ 96 ॥ रोचनो रोचमानश्च साक्षी शौरिर्जनार्दनः । मुकुन्दो नन्दनिष्पन्दः स्वर्णबिन्दुः पुरन्दरः ॥ 97 ॥ अरिन्दमः सुमन्दश्च कुन्दमन्दारहासवान् । स्यन्दनारूढचण्डाङ्गो ह्यानन्दी नन्दनन्दनः ॥ 98 ॥ अनसूयानन्दनोऽत्रिनेत्रानन्दः सुनन्दवान् । शङ्खवान्पङ्कजकरः कुङ्कुमाङ्को जयाङ्कुशः ॥ 99 ॥ अम्भोजमकरन्दाढ्यो निष्पङ्कोऽगरुपङ्किलः । इन्द्रश्चन्द्ररथश्चन्द्रोऽतिचन्द्रश्चन्द्रभासकः ॥ 100 ॥ उपेन्द्र इन्द्रराजश्च वागिन्द्रश्चन्द्रलोचनः । प्रत्यक् पराक् परन्धाम परमार्थः परात्परः ॥ 101 ॥ अपारवाक् पारगामी पारावारः परावरः । सहस्वानर्थदाता च सहनः साहसी जयी ॥ 102 ॥ तेजस्वी वायुविशिखी तपस्वी तापसोत्तमः । ऐश्वर्योद्भूतिकृद्भूतिरैश्वर्याङ्गकलापवान् ॥ 103 ॥ अम्भोधिशायी भगवान् सर्वज्ञः सामपारगः । महायोगी महाधीरो महाभोगी महाप्रभुः ॥ 104 ॥ महावीरो महातुष्टिर्महापुष्टिर्महागुणः । महादेवो महाबाहुर्महाधर्मो महेश्वरः ॥ 105 ॥ समीपगो दूरगामी स्वर्गमार्गनिरर्गलः । नगो नगधरो नागो नागेशो नागपालकः ॥ 106 ॥ हिरण्मयः स्वर्णरेता हिरण्यार्चिर्हिरण्यदः । गुणगण्यः शरण्यश्च पुण्यकीर्तिः पुराणगः ॥ 107 ॥ जन्यभृज्जन्यसन्नद्धो दिव्यपञ्चायुधो वशी । दौर्जन्यभङ्गः पर्जन्यः सौजन्यनिलयोऽलयः ॥ 108 ॥ जलन्धरान्तको भस्मदैत्यनाशी महामनाः । श्रेष्ठः श्रविष्ठो द्राघिष्ठो गरिष्ठो गरुडध्वजः ॥ 109 ॥ ज्येष्ठो द्रढिष्ठो वर्षिष्ठो द्राघीयान् प्रणवः फणी । सम्प्रदायकरः स्वामी सुरेशो माधवो मधुः ॥ 110 ॥ निर्निमेषो विधिर्वेधा बलवान् जीवनं बली । स्मर्ता श्रोता विकर्ता च ध्याता नेता समोऽसमः ॥ 111 ॥ होता पोता महावक्ता रन्ता मन्ता खलान्तकः । दाता ग्राहयिता माता नियन्ताऽनन्तवैभवः ॥ 112 ॥ गोप्ता गोपयिता हन्ता धर्मजागरिता धवः । कर्ता क्षेत्रकरः क्षेत्रप्रदः क्षेत्रज्ञ आत्मवित् ॥ 113 ॥ क्षेत्री क्षेत्रहरः क्षेत्रप्रियः क्षेमकरो मरुत् । भक्तिप्रदो मुक्तिदायी शक्तिदो युक्तिदायकः ॥ 114 ॥ शक्तियुङ्मौक्तिकस्रग्वी सूक्तिराम्नायसूक्तिगः । धनञ्जयो धनाध्यक्षो धनिको धनदाधिपः ॥ 115 ॥ महाधनो महामानी दुर्योधनविमानितः । रत्नाकरो रत्नरोची रत्नगर्भाश्रयः शुचिः ॥ 116 ॥ रत्नसानुनिधिर्मौलिरत्नभा रत्नकङ्कणः । अन्तर्लक्ष्योऽन्तरभ्यासी चान्तर्ध्येयो जितासनः ॥ 117 ॥ अन्तरङ्गो दयावांश्च ह्यन्तर्मायो महार्णवः । सरसः सिद्धरसिकः सिद्धिः साध्यः सदागतिः ॥ 118 ॥ आयुःप्रदो महायुष्मानर्चिष्मानोषधीपतिः । अष्टश्रीरष्टभागोऽष्टककुब्व्याप्तयशो व्रती ॥ 119 ॥ अष्टापदः सुवर्णाभो ह्यष्टमूर्तिस्त्रिमूर्तिमान् । अस्वप्नः स्वप्नगः स्वप्नः सुस्वप्नफलदायकः ॥ 120 ॥ दुःस्वप्नध्वंसको ध्वस्तदुर्निमित्तः शिवङ्करः । सुवर्णवर्णः सम्भाव्यो वर्णितो वर्णसम्मुखः ॥ 121 ॥ सुवर्णमुखरीतीरशिवध्यातपदाम्बुजः । दाक्षायणीवचस्तुष्टो दूर्वासोदृष्टिगोचरः ॥ 122 ॥ अम्बरीषव्रतप्रीतो महाकृत्तिविभञ्जनः । महाभिचारकध्वंसी कालसर्पभयान्तकः ॥ 123 ॥ सुदर्शनः कालमेघश्यामः श्रीमन्त्रभावितः । हेमाम्बुजसरःस्नायी श्रीमनोभाविताकृतिः ॥ 124 ॥ श्रीप्रदत्ताम्बुजस्रग्वी श्रीकेलिः श्रीनिधिर्भवः । श्रीप्रदो वामनो लक्ष्मीनायकश्च चतुर्भुजः ॥ 125 ॥ सन्तृप्तस्तर्पितस्तीर्थस्नातृसौख्यप्रदर्शकः । अगस्त्यस्तुतिसंहृष्टो दर्शिताव्यक्तभावनः ॥ 126 ॥ कपिलार्चिः कपिलवान् सुस्नाताघविपाटनः । वृषाकपिः कपिस्वामिमनोऽन्तःस्थितविग्रहः ॥ 127 ॥ वह्निप्रियोऽर्थसम्भाव्यो जनलोकविधायकः । वह्निप्रभो वह्नितेजाः शुभाभीष्टप्रदो यमी ॥ 128 ॥ वारुणक्षेत्रनिलयो वरुणो वारणार्चितः । वायुस्थानकृतावासो वायुगो वायुसम्भृतः ॥ 129 ॥ यमान्तकोऽभिजननो यमलोकनिवारणः । यमिनामग्रगण्यश्च संयमी यमभावितः ॥ 130 ॥ इन्द्रोद्यानसमीपस्थः इन्द्रदृग्विषयः प्रभुः । यक्षराट् सरसीवासो ह्यक्षय्यनिधिकोशकृत् ॥ 131 ॥ स्वामितीर्थकृतावासः स्वामिध्येयो ह्यधोक्षजः । वराहाद्यष्टतीर्थाभिसेविताङ्घ्रिसरोरुहः ॥ 132 ॥ पाण्डुतीर्थाभिषिक्ताङ्गो युधिष्ठिरवरप्रदः । भीमान्तःकरणारूढः श्वेतवाहनसख्यवान् ॥ 133 ॥ नकुलाभयदो माद्रीसहदेवाभिवन्दितः । कृष्णाशपथसन्धाता कुन्तीस्तुतिरतो दमी ॥ 134 ॥ नारदादिमुनिस्तुत्यो नित्यकर्मपरायणः । दर्शिताव्यक्तरूपश्च वीणानादप्रमोदितः ॥ 135 ॥ षट्कोटितीर्थचर्यावान् देवतीर्थकृताश्रमः । बिल्वामलजलस्नायी सरस्वत्यम्बुसेवितः ॥ 136 ॥ तुम्बुरूदकसंस्पर्शजनचित्ततमोऽपहः । मत्स्यवामनकूर्मादितीर्थराजः पुराणभृत् ॥ 137 ॥ चक्रध्येयपदाम्भोजः शङ्खपूजितपादुकः । रामतीर्थविहारी च बलभद्रप्रतिष्ठितः ॥ 138 ॥ जामदग्न्यसरस्तीर्थजलसेचनतर्पितः । पापापहारिकीलालसुस्नाताघविनाशनः ॥ 139 ॥ नभोगङ्गाभिषिक्तश्च नागतीर्थाभिषेकवान् । कुमारधारातीर्थस्थो वटुवेषः सुमेखलः ॥ 140 ॥ वृद्धस्य सुकुमारत्वप्रदः सौन्दर्यवान् सुखी । प्रियंवदो महाकुक्षिरिक्ष्वाकुकुलनन्दनः ॥ 141 ॥ नीलगोक्षीरधाराभूर्वराहाचलनायकः । भरद्वाजप्रतिष्ठावान् बृहस्पतिविभावितः ॥ 142 ॥ अञ्जनाकृतपूजावान् आञ्जनेयकरार्चितः । अञ्जनाद्रिनिवासश्च मुञ्जकेशः पुरन्दरः ॥ 143 ॥ किन्नरद्वयसम्बन्धिबन्धमोक्षप्रदायकः । वैखानसमखारम्भो वृषज्ञेयो वृषाचलः ॥ 144 ॥ वृषकायप्रभेत्ता च क्रीडनाचारसम्भ्रमः । सौवर्चलेयविन्यस्तराज्यो नारायणः प्रियः ॥ 145 ॥ दुर्मेधोभञ्जकः प्राज्ञो ब्रह्मोत्सवमहोत्सुकः । भद्रासुरशिरश्छेत्ता भद्रक्षेत्री सुभद्रवान् ॥ 146 ॥ मृगयाऽक्षीणसन्नाहः शङ्खराजन्यतुष्टिदः । स्थाणुस्थो वैनतेयाङ्गभावितो ह्यशरीरवान् ॥ 147 ॥ भोगीन्द्रभोगसंस्थानो ब्रह्मादिगणसेवितः । सहस्रार्कच्छटाभास्वद्विमानान्तःस्थितो गुणी ॥ 148 ॥ विष्वक्सेनकृतस्तोत्रः सनन्दनवरीवृतः । जाह्नव्यादिनदीसेव्यः सुरेशाद्यभिवन्दितः ॥ 149 ॥ सुराङ्गनानृत्यपरो गन्धर्वोद्गायनप्रियः । राकेन्दुसङ्काशनखः कोमलाङ्घ्रिसरोरुहः ॥ 150 ॥ कच्छपप्रपदः कुन्दगुल्फकः स्वच्छकूर्परः । मेदुरस्वर्णवस्त्राढ्यकटिदेशस्थमेखलः ॥ 151 ॥ प्रोल्लसच्छुरिकाभास्वत्कटिदेशः शुभङ्करः । अनन्तपद्मजस्थाननाभिर्मौक्तिकमालिकः ॥ 152 ॥ मन्दारचाम्पेयमाली रत्नाभरणसम्भृतः । लम्बयज्ञोपवीती च चन्द्रश्रीखण्डलेपवान् ॥ 153 ॥ वरदोऽभयदश्चक्री शङ्खी कौस्तुभदीप्तिमान् । श्रीवत्साङ्कितवक्षस्को लक्ष्मीसंश्रितहृत्तटः ॥ 154 ॥ नीलोत्पलनिभाकारः शोणाम्भोजसमाननः । कोटिमन्मथलावण्यश्चन्द्रिकास्मितपूरितः ॥ 155 ॥ सुधास्वच्छोर्ध्वपुण्ड्रश्च कस्तूरीतिलकाञ्चितः । पुण्डरीकेक्षणः स्वच्छो मौलिशोभाविराजितः ॥ 156 ॥ पद्मस्थः पद्मनाभश्च सोममण्डलगो बुधः । वह्निमण्डलगः सूर्यः सूर्यमण्डलसंस्थितः ॥ 157 ॥ श्रीपतिर्भूमिजानिश्च विमलाद्यभिसंवृतः । जगत्कुटुम्बजनिता रक्षकः कामितप्रदः ॥ 158 ॥ अवस्थात्रययन्ता च विश्वतेजस्स्वरूपवान् । ज्ञप्तिर्ज्ञेयो ज्ञानगम्यो ज्ञानातीतः सुरातिगः ॥ 159 ॥ ब्रह्माण्डान्तर्बहिर्व्याप्तो वेङ्कटाद्रिगदाधरः । वेङ्कटाद्रिगदाधर ॐ नमः इति ॥ एवं श्रीवेङ्कटेशस्य कीर्तितं परमाद्भुतम् ॥ 160 ॥ नाम्नां सहस्रं संश्राव्यं पवित्रं पुण्यवर्धनम् । श्रवणात्सर्वदोषघ्नं रोगघ्नं मृत्युनाशनम् ॥ 1 ॥ दारिद्र्यभेदनं धर्म्यं सर्वैश्वर्यफलप्रदम् । कालाहिविषविच्छेदि ज्वरापस्मारभञ्जनम् ॥ 2 ॥ [शत्रुक्षयकरं राजग्रहपीडानिवारणम् । ब्रह्मराक्षसकूष्माण्डभेतालभयभञ्जनम् ॥] विद्याभिलाषी विद्यावान् धनार्थी धनवान् भवेत् । अनन्तकल्पजीवी स्यादायुष्कामो महायशाः ॥ 3 ॥ पुत्रार्थी सुगुणान्पुत्रान् लभेताऽऽयुष्मतस्ततः । सङ्ग्रामे शत्रुविजयी सभायां प्रतिवादिजित् ॥ 4 ॥ दिव्यैर्नामभिरेभिस्तु तुलसीपूजनात्सकृत् । वैकुण्ठवासी भगवत्सदृशो विष्णुसन्निधौ ॥ 5 ॥ कल्हारपूजनान्मासात् द्वितीय इव यक्षराट् । नीलोत्पलार्चनात्सर्वराजपूज्यः सदा भवेत् ॥ 6 ॥ हृत्संस्थितैर्नामभिस्तु भूयाद्दृग्विषयो हरिः । वाञ्छितार्थं तदा दत्वा वैकुण्ठं च प्रयच्छति ॥ 7 ॥ त्रिसन्ध्यं यो जपेन्नित्यं सम्पूज्य विधिना विभुम् । त्रिवारं पञ्चवारं वा प्रत्यहं क्रमशो यमी ॥ 8 ॥ मासादलक्ष्मीनाशः स्यात् द्विमासात् स्यान्नरेन्द्रता । त्रिमासान्महदैश्वर्यं ततः सम्भाषणं भवेत् ॥ 9 ॥ मासं पठन्न्यूनकर्मपूर्तिं च समवाप्नुयात् । मार्गभ्रष्टश्च सन्मार्गं गतस्वः स्वं स्वकीयकम् ॥ 10 ॥ चाञ्चल्यचित्तोऽचाञ्चल्यं मनस्स्वास्थ्यं च गच्छति । आयुरारोग्यमैश्वर्यं ज्ञानं मोक्षं च विन्दति ॥ 11 ॥ सर्वान्कामानवाप्नोति शाश्वतं च पदं तथा । सत्यं सत्यं पुनस्सत्यं सत्यं सत्यं न संशयः ॥ 12 ॥ इति श्री ब्रह्माण्डपुराणे वसिष्ठनारदसंवादे श्रीवेङ्कटाचलमाहात्म्ये श्री वेङ्कटेश सहस्रनाम स्तोत्रं समाप्तम् ।

Explore More