व्यामोहतस्तदितराणि तृणाय मेने ।
अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ॥
वन्दे वेदान्तकर्पूरचामीकर करण्डकम् ।
रामानुजार्यमार्याणां चूडामणिमहर्निशम् ॥
ओम् ॥ भगवन्नारायणाभिमतानुरूप स्वरूपरूप गुणविभवैश्वर्य शीलाद्यनवधिकातिशय असङ्ख्येय कल्याणगुणगणां पद्मवनालयां भगवतीं श्रियं देवीं नित्यानपायिनीं निरवद्यां देवदेवदिव्यमहिषीं अखिलजगन्मातरं अस्मन्मातरं अशरण्यशरण्यां अनन्यशरणः शरणमहं प्रपद्ये ॥
पारमार्थिक भगवच्चरणारविन्द युगलैकान्तिकात्यन्तिक परभक्ति परज्ञान परमभक्तिकृत परिपूर्णानवरत नित्यविशदतमानन्य प्रयोजनानवधिकातिशय प्रिय भगवदनुभवजनितानवधिकातिशय प्रीतिकारिताशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकैङ्कर्यप्राप्त्यपेक्षया पारमार्थिकी भगवच्चरणारविन्द शरणागतिः यथावस्थिता अविरताऽस्तु मे ॥
अस्तु ते । तयैव सर्वं सम्पत्स्यते ॥
अखिलहेयप्रत्यनीक कल्याणैकतान, स्वेतर समस्तवस्तुविलक्षणानन्त ज्ञानानन्दैकस्वरूप, स्वाभिमतानुरूपैकरूपाचिन्त्य दिव्याद्भुत नित्यनिरवद्य निरतिशयौज्ज्वल्य सौन्दर्य सौगन्ध्य सौकुमार्य लावण्य यौवनाद्यनन्तगुणनिधि दिव्यरूप, स्वाभाविकानवधिकातिशय ज्ञान बलैश्वर्य वीर्य शक्ति तेजस्सौशील्य वात्सल्य मार्दवार्जव सौहार्द साम्य कारुण्य माधुर्य गाम्भीर्यौदार्य चातुर्य स्थैर्य धैर्य शौर्य पराक्रम सत्यकाम सत्यसङ्कल्प कृतित्व कृतज्ञताद्यसङ्ख्येय कल्याणगुणगणौघ महार्णव,
स्वोचित विविध विचित्रानन्ताश्चर्य नित्य निरवद्य निरतिशय सुगन्ध निरतिशय सुखस्पर्श निरतिशयौज्ज्वल्य किरीट मकुट चूडावतंस मकरकुण्डल ग्रैवेयक हार केयूर कटक श्रीवत्स कौस्तुभ मुक्तादामोदरबन्धन पीताम्बर काञ्चीगुण नूपुराद्यपरिमित दिव्यभूषण, स्वानुरूपाचिन्त्यशक्ति शङ्खचक्रगदाऽसि शार्ङ्गाद्यसङ्ख्येय
नित्यनिरवद्य निरतिशय कल्याणदिव्यायुध,
स्वाभिमत नित्यनिरवद्यानुरूप स्वरूपरूपगुण विभवैश्वर्य शीलाद्यनवधिकातिशयासङ्ख्येय कल्याणगुणगणश्रीवल्लभ, एवम्भूत भूमिनीलानायक, स्वच्छन्दानुवर्ति स्वरूपस्थिति प्रवृत्तिभेदाशेष शेषतैकरतिरूप
नित्यनिरवद्यनिरतिशय ज्ञान क्रियैश्वर्याद्यनन्त कल्याणगुणगण शेष शेषाशन
गरुडप्रमुख नानाविधानन्त परिजन परिचारिका परिचरित चरणयुगल, परमयोगि वाङ्मनसाऽपरिच्छेद्य स्वरूप स्वभाव स्वाभिमत विविधविचित्रानन्तभोग्य भोगोपकरण भोगस्थान समृद्धानन्ताश्चर्यानन्त महाविभवानन्त परिमाण नित्य निरवद्य निरतिशय श्रीवैकुण्ठनाथ, स्वसङ्कल्पानुविधायि स्वरूपस्थिति प्रवृत्ति स्वशेषतैकस्वभाव प्रकृति पुरुष कालात्मक विविध विचित्रानन्त भोग्य भोक्तृवर्ग भोगोपकरण भोगस्थानरूप
निखिलजगदुदय विभव लयलील, सत्यकाम, सत्यसङ्कल्प, परब्रह्मभूत, पुरुषोत्तम,महाविभूते,
श्रीमन् नारायण, वैकुण्ठनाथ, अपार कारुण्य सौशील्य वात्सल्यौदार्यैश्वर्य सौन्दर्य महोदधे, अनालोचितविशेषाशेषलोक शरण्य, प्रणतार्तिहर, आश्रित वात्सल्यैकजलधे, अनवरतविदित निखिलभूतजातयाथात्म्य, अशेषचराचरभूत निखिलनियमन निरत, अशेषचिदचिद्वस्तु शेषिभूत, निखिलजगदाधार, अखिलजगत्स्वामिन्, अस्मत्स्वामिन्, सत्यकाम,
सत्यसङ्कल्प, सकलेतरविलक्षण, अर्थिकल्पक, आपत्सख, श्रीमन्, नारायण, अशरण्यशरण्य, अनन्यशरणस्त्वत्पादारविन्द युगलं शरणमहं प्रपद्ये ॥
अत्र द्वयम् ।
पितरं मातरं दारान् पुत्रान् बन्धून् सखीन् गुरून् ।
रत्नानि धनधान्यानि क्षेत्राणि च गृहाणि च ॥ 1
लोकविक्रान्तचरणौ शरणं तेऽव्रजं विभो ॥ 2
त्वमेव बन्धुश्च गुरुस्त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव ॥ 3
त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभाव ॥ 4
तस्मात्प्रणम्य प्रणिधाय कायं
प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम् ॥
मनोवाक्कायैरनादिकाल प्रवृत्तानन्ताकृत्यकरण कृत्याकरण भगवदपचार भागवतापचारासह्यापचाररूप नानाविधानन्तापचारान् आरब्धकार्यान् अनारब्धकार्यान् कृतान् क्रियमाणान् करिष्यमाणांश्च सर्वानशेषतः क्षमस्व ।
अनादिकालप्रवृत्तविपरीत ज्ञानमात्मविषयं कृत्स्न जगद्विषयं च विपरीतवृत्तं चाशेषविषयमद्यापि वर्तमानं वर्तिष्यमाणं च सर्वं क्षमस्व ।
मदीयानादिकर्म प्रवाहप्रवृत्तां भगवत्स्वरूप तिरोधानकरीं विपरीतज्ञानजननीं स्वविषयायाश्च भोग्यबुद्धेर्जननीं देहेन्द्रियत्वेन भोग्यत्वेन सूक्ष्मरूपेण चावस्थितां दैवीं गुणमयीं मायां दासभूतं शरणागतोऽस्मि तवास्मि दासः
