Lord Sudarshana

सुदर्शन अष्टोत्तर शत नाम स्तोत्रम्

(Sudarshana Ashtottara Shatanama Stotram)

From Ahirbudhnya Samhita

This sacred hymn, found in the Ahirbudhnya Samhita, invokes the hundred and eight names of Sudarshana Chakra, the divine weapon of Lord Vishnu. It extols the weapon as an embodiment of cosmic brilliance, unmatched power, and divine protection. Chanting this stotra is believed to destroy negativity, shield the devotee from malevolent forces, and grant spiritual liberation. By meditating on the fierce yet compassionate form of Sudarshana, the practitioner aligns themselves with the supreme will of the Lord, attaining inner clarity, courage, and the eradication of obstacles on their path to righteousness and eternal peace.

सुदर्शनश्चक्रराजः तेजोव्यूहो महाद्युतिः ।
सहस्रबाहु-र्दीप्ताङ्गः अरुणाक्षः प्रतापवान् ॥ 1॥
अनेकादित्यसङ्काशः प्रोद्यज्ज्वालाभिरञ्जितः ।
सौदामिनी-सहस्राभः मणिकुण्डल-शोभितः ॥ 2॥
पञ्चभूतमनोरूपो षट्कोणान्तर-संस्थितः ।
हरान्तः करणोद्भूत-रोषभीषण-विग्रहः ॥ 3॥
हरिपाणिलसत्पद्मविहारारमनोहरः ।
श्राकाररूपस्सर्वज्ञः सर्वलोकार्चितप्रभुः ॥ 4॥
चतुर्दशसहस्रारः चतुर्वेदमयो-ऽनलः ।
भक्तचान्द्रमसज्योतिः भवरोग-विनाशकः ॥ 5॥
रेफात्मको मकारश्च रक्षोसृग्रूषिताङ्गकः ।
सर्वदैत्यग्रीवनाल-विभेदन-महागजः ॥ 6॥
भीमदंष्ट्रोज्ज्वलाकारो भीमकर्मा विलोचनः ।
नीलवर्त्मा नित्यसुखो निर्मलश्री-र्निरञ्जनः ॥ 7॥
रक्तमाल्याम्बरधरो रक्तचन्दनरूषितः ।
रजोगुणाकृतिश्शूरो रक्षःकुल-यमोपमः ॥ 8॥
नित्यक्षेमकरः प्राज्ञः पाषण्डजनखण्डनः ।
नारायणाज्ञानुवर्ती नैगमान्तःप्रकाशकः ॥ 9॥
बलिनन्दनदोर्दण्ड-खण्डनो विजयाकृतिः ।
मित्रभावी सर्वमयो तमोविध्वंसकस्तथा ॥ 10॥
रजस्सत्त्वतमोद्वर्ती त्रिगुणात्मा त्रिलोकधृत् ।
हरिमायागुणोपेतो-ऽव्ययो-ऽक्षस्वरूपभाक् ॥ 11॥
परमात्मा परञ्ज्योतिः पञ्चकृत्य-परायणः ।
ज्ञानशक्ति-बलैश्वर्य-वीर्य-तेजः-प्रभामयः ॥ 12॥
सदसत्परमः पूर्णो वाङ्मयो वरदोऽच्युतः ।
जीवो गुरुर्हंसरूपः पञ्चाशत्पीठरूपकः ॥ 13॥
मातृकामण्डलाध्यक्षो मधुध्वंसी मनोमयः ।
बुद्धिरूपश्चित्तसाक्षी सारो हंसाक्षरद्वयः ॥ 14॥
मन्त्र-यन्त्र-प्रभावज्ञो मन्त्र-यन्त्र-मयो विभुः ।
स्रष्टा क्रियास्पद-श्शुद्धः आधारश्चक्र-रूपकः ॥ 15॥
निरायुधो ह्यसंरम्भः सर्वायुध-समन्वितः ।
ओम्काररूपी पूर्णात्मा आङ्कारस्साध्य-बन्धनः ॥ 16॥
ऐङ्कारो वाक्प्रदो वग्मी श्रीङ्कारैश्वर्यवर्धनः ।
क्लीङ्कारमोहनाकारो हुम्फट्क्षोभणाकृतिः ॥ 17॥
इन्द्रार्चित-मनोवेगो धरणीभार-नाशकः ।
वीराराध्यो विश्वरूपः वैष्णवो विष्णुरूपकः ॥ 18॥
सत्यव्रतः सत्यधरः सत्यधर्मानुषङ्गकः'
नारायणकृपाव्यूह-तेजश्चक्र-स्सुदर्शनः ॥ 19॥
॥ श्री सुदर्शनाष्टोत्तरशतनाम स्तोत्रं
सम्पूर्णम्॥

Explore More