सहस्रबाहु-र्दीप्ताङ्गः अरुणाक्षः प्रतापवान् ॥ 1॥
सौदामिनी-सहस्राभः मणिकुण्डल-शोभितः ॥ 2॥
हरान्तः करणोद्भूत-रोषभीषण-विग्रहः ॥ 3॥
श्राकाररूपस्सर्वज्ञः सर्वलोकार्चितप्रभुः ॥ 4॥
भक्तचान्द्रमसज्योतिः भवरोग-विनाशकः ॥ 5॥
सर्वदैत्यग्रीवनाल-विभेदन-महागजः ॥ 6॥
नीलवर्त्मा नित्यसुखो निर्मलश्री-र्निरञ्जनः ॥ 7॥
रजोगुणाकृतिश्शूरो रक्षःकुल-यमोपमः ॥ 8॥
नारायणाज्ञानुवर्ती नैगमान्तःप्रकाशकः ॥ 9॥
मित्रभावी सर्वमयो तमोविध्वंसकस्तथा ॥ 10॥
हरिमायागुणोपेतो-ऽव्ययो-ऽक्षस्वरूपभाक् ॥ 11॥
ज्ञानशक्ति-बलैश्वर्य-वीर्य-तेजः-प्रभामयः ॥ 12॥
जीवो गुरुर्हंसरूपः पञ्चाशत्पीठरूपकः ॥ 13॥
बुद्धिरूपश्चित्तसाक्षी सारो हंसाक्षरद्वयः ॥ 14॥
स्रष्टा क्रियास्पद-श्शुद्धः आधारश्चक्र-रूपकः ॥ 15॥
ओम्काररूपी पूर्णात्मा आङ्कारस्साध्य-बन्धनः ॥ 16॥
क्लीङ्कारमोहनाकारो हुम्फट्क्षोभणाकृतिः ॥ 17॥
वीराराध्यो विश्वरूपः वैष्णवो विष्णुरूपकः ॥ 18॥
नारायणकृपाव्यूह-तेजश्चक्र-स्सुदर्शनः ॥ 19॥
॥ श्री सुदर्शनाष्टोत्तरशतनाम स्तोत्रं
