श्रीसुदर्शन परब्रह्मणे नमः ॥
अथ श्रीसुदर्शन सहस्रनाम स्तोत्रम् ॥
कैलासशिखरे रम्ये मुक्तामाणिक्य मण्डपे ।
रक्तसिंहासनासीनं प्रमथैः परिवारितम् ॥ 1॥
भर्तारं सर्वधर्मज्ञं पार्वती परमेश्वरम् ॥ 2॥
यत् त्वयोक्तं जगन्नाथ सुभ्रुशं क्षेममिच्छताम् ।
सौदर्शनं रुते शास्त्रं नास्तिचान्यदिति प्रभो ॥ 3॥
एवमुक्तस्त्वहिर्बुद्ध्न्यः पार्वतीं प्रत्युवाचताम् ॥ 4॥
संशयो यदि ते तत्र तं ब्रूहि त्वं वरानने ।
इत्येवमुक्ता गिरिजा गिरिशेन महात्मना ॥ 5॥
पार्वत्युवाच--
लोके सौदर्शनं मन्त्रं यन्त्रन्तत्तत् प्रयोगवत् ॥ 6॥
अतिवेलमशक्तानां तं मार्गं भृशमीछ्ताम् ॥ 7॥
एतन्मे ब्रूहि लोकेश त्वदन्यः को वदेतमुम् ॥ 8॥
अहं ते कथयिश्यामि सर्व सिद्धिकरं शुभम् ।
अनायासेन यज्जप्त्वा नरस्सिद्धिमवाप्नुयात् ॥ 9॥
नियमात् पठतां नॄणां चिन्तितार्थ प्रदायकम् ॥ 10॥
छन्दोनुष्टुप् देवता तु परमात्मा सुदर्शनः ॥ 11॥
समस्ताभीष्ट सिध्यर्थे विनियोग उदाहृतः ॥ 12॥
शङ्खं चक्रं च चापं परशुमसिमिशुं शूल पाशाङ्कुशाब्जम्
बिभ्राणं वज्रखेटौ हल मुसल गदा कुन्दमत्युग्र दंष्ट्रम् ।
ज्वाला केशं त्रिनेत्रं ज्वल दलननिभं हार केयूर भूषम्
ध्यायेत् षट्कोण संस्थं सकल रिपुजन प्राण संहारि चक्रम् ॥
श्रीचक्रः श्रीकरः श्रीशः श्रीविष्णुः श्रीविभावनः ।
श्रीमदान्त्य हरः श्रीमान् श्रीवत्सकृत लक्षणः ॥ 1॥
श्रीरतः श्रीविभुः सिन्धुकन्यापतिः अधोक्षजः ॥ 2॥
समर्चितो वेदमूर्तिः समतीत सुराग्रजः ॥ 3॥
चण्डवेगो भीमरवः शिपिविष्टार्चितो हरिः ॥ 4॥
दैत्यारिः शारदस्कन्धः सकटाक्षः शिरीषगः ॥ 5॥
वरूथीवारिजः कञ्जलोचनो वसुधादिपः ॥ 6॥
गभीरो गोलकाधीशो गदापणिस्सुलोचनः ॥ 7॥
भीषणो भीतिदो भद्रो भीमाभीष्ट फलप्रदः ॥ 8॥
प्रह्लादवरदः बाललोचनो लोकपूजितः ॥ 9॥
भक्तपालः पापहारी बलदो दहनध्वजः ॥ 10॥
अक्रूरः क्रूरजनकः क्रूरदंष्ट्रः कुलादिपः ॥ 11॥
मन्दरो मानिनीकान्तो मधुहा माधवप्रियः ॥ 12॥
धराधरो दानवारिर्दनुजेन्द्रारि पूजितः ॥ 13॥
सुराचार्यार्चितो वश्यो वासुदेवो वसुप्रदः ॥ 14॥
पावको वारणाद्रीशो वैकुण्ठो विगतकल्मषः ॥ 15॥
निरीहो निस्पृहो नित्यो नीतिज्ञो नीतिपावनः ॥ 16॥
नित्यानन्दो बृहद्भानुः बृहदीशः पुरातनः ॥ 17॥
अगाधोऽविरलो मर्त्यो ज्वालाकेशः ककार्च्चितः ॥ 18॥
चिन्त्यस्सत्वनिधिः साग्रस्चिदानन्दः शिवप्रियः ॥ 19॥
भोक्तारुणेशो बलवान् बालग्रह निवारकः ॥ 20॥
बन्धुः सुबन्धुः सुप्रीतस्सन्तुष्टस्सुरसन्नुतः ॥ 21॥
सुयज्ञो ज्योतिषश्शान्तो विरूपाक्षः सुरेश्वरः ॥ 22॥
सुशीलः सुभगः स्वक्षः सुमुखः सुखदः सुखी ॥ 23॥
शतमूर्ति सहस्रारो हिरण्य ज्योतिरव्ययः ॥ 24॥
प्रभञ्जनः तीक्ष्णधारः प्रशान्तः शारदप्रियः ॥ 25॥
विमलो दुर्लभस्सोम्यस्सुलभो भीमविक्रमः ॥ 26॥
तत्त्वरूपः तत्त्ववेदिः सर्वतत्व प्रतिष्ठितः ॥27॥
शस्त्रेशो निर्मतो नेता नरो नानासुरप्रियः ॥ 28॥
दमनः कालिकः कर्मी कान्तः कालार्थनः कविः ॥ 29॥
कमनीयकृतिः कालः कमलासन सेवितः ।
कृपालुः कपिलः कामी कामितार्थ प्रदायकः ॥ 30॥
ज्वालाजिम्हः शिखामौलीः सुरकार्य प्रवर्तकः ॥ 31॥
दाताऽऽनन्दमयो दिव्यो ब्रह्मरूपी प्रकाशकृत् ॥ 32 ।
सर्वयज्ञमयो यज्ञो यज्ञभुक् यज्ञभावनः ।
वह्निध्वजो वह्निसखो वञ्जुलद्रुम मूलकः ॥ 33॥
दैत्यदण्डधरो दान्तः शुभ्राङ्गः शुभदायकः ॥ 34॥
उन्नतो भानुजः साङ्गो महाचक्रः पराक्रमी ॥ 35॥
अग्निमानग्निरसनो युद्धसेवी रविप्रियः ॥ 36॥
असुरघ्नो महाबाहूर्भीमकर्मा शुभप्रदः ॥ 37॥
तर्को वितर्को विमलो बिलको बादरायणः ॥ 38॥
दृतधन्वा शोडषाक्षो दीर्घबाहूर्दरीमुखः ॥ 39॥
नरभेदि सिंहरूपी पुराधीशः पुरन्दरः ॥ 40॥
हृषिकेशो द्वित्रमूर्तिः द्विरष्टायुदभृत् वरः ॥ 41॥
धन्वन्तरिस्श्यामलारिर्भक्तशोक विनाशकः ॥ 42॥
विधाता सच्चिदानन्दस्सर्वदुष्ट निवारकः ॥ 43॥
बुद्धो बौद्धहरो बौद्ध जनमोहो बुधाश्रयः ॥ 44 ॥
पूर्णमन्त्रः पूर्णगात्रः पूर्णषाड्गुण्य विग्रहः ॥ 45॥
पूर्णसारः पूर्णशक्तिः रङ्गसेवि रणप्रियः ॥ 46॥
पद्मगर्भः पारिजातः परमित्रस्शराकृतिः ॥ 47॥
भाग्योदयो भक्तवश्यो गिरिजावल्लभप्रियः ॥ 48॥
ब्रह्मचारि बन्धुमानी सुप्रतीकस्सुविक्रमः ॥ 49॥
महाहंसस्सुखकरो नाभाग तनयार्चितः ॥ 50॥
वज्रकल्पो वज्रसखो वज्रनिर्घात निस्वनः ॥ 51॥
अनिरुद्धः परामर्षी उपेन्द्रः पूर्णविग्रहः ॥ 52॥
सर्वासुर वधोद्युक्तः सूर्य दुर्मान भेदकः ॥ 53॥
पीयुषांशु परञ्ज्योतिः सम्पूर्ण क्रतुभुक् प्रभुः ॥ 54॥
सहिष्णुर्बलभुक् वीरो लोकभृल्लोकनायकः ॥55॥
पुराधीशोऽसुरारातिः गोविन्द करभूषणः ॥ 56॥
चक्ररूपधरो विष्णुः स्थूलसूक्ष्मश्शिखिप्रभः ॥ 57॥
ज्ञानदो वाक्पतिर्मानी महावेगो महामणिः ॥ 58॥
कामात्मा कामदः कामी कालनेमि शिरोहरः ॥ 59॥
वृषकायो वृषारातिः वृषभेन्द्र सुपूजितः ॥ 60॥
विश्वकृत् विश्वभो विश्वहर्ता साहसकर्मकृत् ॥ 61॥
विमलादिपतिः पुण्यो ज्ञाता ज्ञेयः प्रकाशकः ॥ 62॥
दिगम्बरो वृशाद्रीशो विविधायुध रूपकः ॥ 63॥
रुद्रप्रीतिकरो रुद्र वरदो रुग्विभेदकः ॥ 64॥
धर्मप्रियः षडाधारो वेदात्मा गुणसागरः ॥ 65॥
तमोवैरी महातेजाः महाराजो महातपाः ॥ 66॥
स्थविरस्स्वर्ण वर्णाङ्गः शत्रुसैन्य विनाशकृत् ॥ 67॥
व्यक्ताव्यक्त स्वरूपांसः कालचक्रः कलानिधिः ॥ 68॥
महास्फुलिङ्ग धारार्चिः महायुद्ध कृतच्युतः ॥ 69॥
चतुर्मुखनुतः श्रीमान् भ्राजिष्णुर्भक्तवत्सलः ॥ 70॥
विचित्रमाल्याभरणः तीक्ष्णधारः सुरार्चितः ॥ 71॥
सुतीक्ष्णारगणो गम्यो बलिध्वंसी त्रिलोकपः ॥ 72॥
त्रिकालज्ञस्त्रिलोकज्ञः त्रिनाभिः त्रिजगत्प्रियः ॥ 73॥
सर्वगस्सर्ववित् सौम्यस्सर्वलोकहितङ्करः ॥74॥
ध्यानगम्यः कल्मषघ्नः कलिगर्व प्रभेदकः ॥ 75॥
सुकुण्ठीकृत चण्डेशः सुसन्त्रस्थ षडाननः ॥ 76॥
मथित प्रमथव्यूहः प्रणत प्रमदाधिपः ॥ 77॥
मेधावी शाश्वथोऽक्रूरः क्रूरकर्माऽपराजितः ॥ 78॥
योग योगीश्वराधीशो भक्ताभीष्ट प्रपूरकः ॥ 79॥
निर्विकारोऽन्तरूपो नरनारायणप्रियः ॥ 80॥
भूतवेताल विध्वंसी चण्ड कूष्माण्ड खण्डनः ॥ 81॥
सकलीकृत मारीचः भैरव ग्रह भेदकः ॥ 82॥
सुदुर्ग्रहो जम्भभेदी सूचीमुख निषूदनः ॥ 83॥
अप्रमेय बलः स्वामी भक्तप्रीति विवर्धनः ॥ 84॥
धर्माध्यक्षो विधर्मघ्नः सुधर्मस्थापकश्शिवः ॥ 85॥
जगन्मोहन पाटीरस्सर्वोपद्रव शोधकः ॥ 86॥
ग्रहप्रध्वंसकः स्वात्मरक्षको धारणात्मकः ॥ 87॥
सन्तान पञ्जरो बाणताटङ्को वज्रमालिकः ॥ 88॥
सर्वरोग प्रशमनो गान्धर्व विशिखाकृतिः ॥ 89॥
कलावृतो महाशङ्खु धारणस्शल्य चन्द्रिकः ॥ 90॥
बन्धनावरणस्शल्य कृन्तनो वज्रकीलकः ॥ 91॥
इन्द्राक्षीमालिकः कृत्या दण्डस्चित्तप्रभेदकः ॥ 92॥
लघुसन्तान सङ्कल्पो बद्धग्रह विमोचनः ॥ 93॥
दिग्बन्धन करस्सूची मुखाग्निस्चित्तपातकः ॥ 94॥
तान्त्रीकस्शत्रुवंशघ्नो नानानिगल मोचनः ॥ 95॥
सुमहा मेरुकोदण्डः सर्व वश्यकरेश्वरः ॥ 96॥
संस्थम्बन करः सर्व भूतोच्चाटन तत्परः ॥ 97॥
एकायन गदामित्र विद्वेषण परायणः ॥ 98॥
विरूपाक्षो महावक्षाः वरिष्टो माधवप्रियः ॥ 99॥
रमणीयो रणोत्साहो रक्ताक्षो रणपण्डितः ॥ 100॥
वीरहा विविधाकारः वरुणाराधितो वशीः ।
सर्व शत्रु वधाकाङ्क्षी शक्तिमान् भक्तमानदः ॥ 101॥
पुराणः पुण्डरीकाक्षः परमर्म प्रभेदकः ॥ 102॥
जगत्रक्षो जगन्मूर्तिः जगदानन्द वर्धनः ॥ 103॥
विरक्तो रक्तवर्णाढ्यो रामसायक रूपदृत् ॥ 104॥
समदृङ्मोक्षदो वन्ध्यो विहारी वीतकल्मषः ॥ 105॥
श्रीधरः श्रीरतस्श्रान्तः शत्रुघ्नस्शऋतिगोचरः ॥ 106॥
महाधीरो महावीर्यो महाबल पराक्रमः ॥ 107॥
मायी मायापहो मन्त्री मान्यो मानविवर्धनः ॥ 108॥
सर्वाधारः परञ्ज्योतिः प्राणः प्राणभृतच्युतः ॥ 109॥
विशुद्धात्मा महातेजाः पुण्यश्लोकः पुराणवित् ॥ 110॥
आदिदेवो ध्रुवो दृश्यः सात्त्विकः प्रीतिवर्धनः ॥ 111॥
दुराधर्षः प्रकाशात्मा सर्वदृक् सर्ववित्समः ॥ 112॥
वर्णी वाचस्पतिर्वाग्मी महाशक्तिः कलानिधिः ॥ 113॥
सत्यधर्मः प्रसन्नात्मा प्रकृष्टो व्योमवाहनः ॥ 114॥
दरिमुखाग्निजम्भघ्नो वीरहा वासवप्रियः ॥ 115॥
भूतावासो भूतहन्ता भूतेशो भूतभावनः ॥ 116॥
सर्वदेवमयः कान्तः स्मृतिमान् सर्वपावनः ॥ 117॥
रुद्राम्बरीष वरदो जितमायः पुरातनः ॥ 118॥
सत्योऽक्षरो गभीरात्मा विश्वभर्ता मरीचिमान् ॥ 119॥
सर्वजित् सम्भवो विष्णुः पूज्यो मन्त्रवितक्रियः ॥ 120॥
अरूपो रूपसम्पन्नो विश्वरूपो विरूपकृत् ॥ 121॥
चण्ड्घ्नस्चण्डकिरणः चतुरस्चारणप्रियः ॥ 122॥
यज्ञात्म यज्ञसङ्कल्पो यज्ञकेतुर्महेश्वरः ॥ 123॥
उत्त्मोऽनुत्त्मोनङ्गस्साङ्गस्सर्वाङ्ग शोभनः ॥ 124॥
रमानन्दकरो रामो रजनीशान्तरस्थितः ॥ 125॥
महाभिमानी सन्धाता सर्वाधीशो महागुरुः ॥ 126
सिद्धः सर्वजगद्योनिः सिद्धार्थस्सर्वसिद्धिदः ।
चतुर्वेदमयश्शास्था सर्वशास्त्र विशारदः ॥ 127 ॥
व्यापी विश्वम्भरो व्यग्रः स्वयञ्ज्योतिरनन्तकृत् ॥ 128॥
कविः कल्याणदः काम्यो मोक्षदो मोहनाकृतिः ॥ 129॥
सुविक्रमो निष्कलङ्को विश्वक्सेनो विहारकृत् ॥ 130॥
जुगुप्साग्नस्तीक्ष्णधारो वैकुण्ठ भुजवासकृत् ॥ 131॥
सुक्रुतज्ञो महोदारो दुष्कृतघ्नस्सुविग्रहः ॥ 132॥
चक्री कुन्दधरः खड्गी परश्वत धरोऽग्निभृत् ॥ 133॥
धन्वी दृतमहापाशो हलि मुसलभूषणः ॥ 134॥
समस्तायुध सम्पूर्णस्सुदर्शन महाप्रभुः ॥ 135॥
इति सौदर्शनं दिव्यं गुह्यं नामसहस्रकम् ।
सर्वसिद्धिकरं सर्व यन्त्र मन्त्रात्मकं परम् ॥ 136॥
शऋणोति वा श्रावयति तस्य सिद्धिः करस्तिता ॥ 137॥
विनाशार्थमिदं देवि हरो रासाधितं मया ॥ 138॥
जल शैल महारण्य दुर्गमेषु महापति ॥ 139॥
यस्सकृत् पठनं कुर्यात् तस्य नैव भवेत् भयम् ॥ 140॥
देवानां दूषकश्चापि गुरुतल्पगतोऽपि वा ॥ 141॥
तिष्ठन् गच्छन् स्वपन् भुञ्जन् जाग्रन्नपि हसन्नपि ॥ 142॥
स वै न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति ॥ 143॥
शीघ्रं नश्यन्ति ते सर्वे पठनात्तस्य वै नृणाम् ॥ 144॥
यत्र मर्त्यश्चरेत् तत्र रक्षति श्रीसुदर्शनः ॥ 145॥
मन्त्रविधाने श्री सुदर्शन सहस्रनाम स्तोत्रं नाम
षोडश प्रकाशः ॥
