Lord Surya

त्रिदेव कृत रवि स्तुति

(Trideva Kruta Ravi Stuti)

Also known as trideva krita ravi stutih · brahma vishnu shiva surya stuti · ravi stuti bhavishya purana

Three praises in sequence from the Brāhma Parva of the Bhaviṣya Mahāpurāṇa, spoken by Brahmā, then Śiva, then Viṣṇu, after all three have seen the Sun's form and stood astonished with their eyes wide. Each praises in his own manner. Brahmā salutes in the plain dative — to Bhāskara, to the wheel of time, to the one whose chariot has a single wheel, to wealth and desire and dharma and release in turn — and then falls silent with a glad heart. Rudra's is a litany of jaya, hailing him as swan and as Śambhu, as lord of the planets and lord of time, and asking at the end for a hand held out to one sunk in the ocean of existence. Viṣṇu's is the most striking for what it concedes: Brahmā and I and Rudra were born from you at the beginning of the age, for the world's continuance. He gives him six faces, twenty-four feet and twelve hands.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्री रवि स्तुतिः (त्रिदेव कृतम् - भविष्य पुराण) ॥
दृष्ट्वैवं देवदेवस्य रूपं भानोर्महात्मनः ।
विस्मयोत्फुल्लनयनास्तुष्टवुस्ते दिवाकरम् ॥ १ ॥
॥ ब्रह्मोवाच (ब्रह्मा जी बोले) ॥
कृताञ्जलिपुटो भूत्वा ब्रह्मा स्तोतुं प्रचक्रमे ।
प्रणम्य शिरसा भानुमिदं वचनमब्रवीत् ॥ २ ॥
नमस्ते देवदेवेश सहस्रकिरणोज्ज्वल ।
लोकदीप नमस्तेऽस्तु नमस्ते कोणवल्लभ ॥ ३ ॥
भास्कराय नमो नित्यं खषोल्काय नमो नमः ।
विष्णवे कालचक्राय सोमायामिततेजसे ॥ ४ ॥
नमस्ते पञ्चकालाय इन्द्राय वसुरेतसे ।
खगाय लोकनाथाय एकचक्ररथाय च ॥ ५ ॥
जगद्धिताय देवाय शिवायामिततेजसे ।
तमोघ्नाय सुरूपाय तेजसां निधये नमः ॥ ६ ॥
अर्थाय कामरूपाय धर्मायामिततेजसे ।
मोक्षाय मोक्षरूपाय सूर्याय च नमो नमः ॥ ७ ॥
क्रोधलोभविहीनाय लोकानां स्थितिहेतवे ।
शुभाय शुभरूपाय शुभदाय शुभात्मने ॥ ८ ॥
शान्ताय शान्तरूपाय शान्तयेऽस्मासु वै नमः ।
नमस्ते ब्रह्मरूपाय ब्राह्मणाय नमो नमः ॥ ९ ॥
ब्रह्मदेवाय ब्रह्मरूपाय ब्रह्मणे परमात्मने ।
ब्रह्मणे च प्रसादं वै कुरु देव जगत्पते ॥ १० ॥
एवं स्तुत्वा रविं ब्रह्मा श्रद्धया परया विभो ।
तूष्णीमासीन्महाभाग प्रहृष्टेनान्तरात्मना ॥ ११ ॥
॥ महादेव उवाच(भगवान शिव बोले) ॥
ब्रह्मणोऽनन्तरं रुद्रः स्तोत्रं चक्रे विभावसोः ।
त्रिपुरारिर्महातेजाः प्रणम्य शिरसा रविम् ॥ १२ ॥
जय भाव जयाजेय जय हंस दिवाकर ।
जय शम्भो महाबाहो खग गोचर भूधर ॥ १३ ॥
जय लोकप्रदीपेन जय भानो जगत्पते ।
जय काल जयाऽनन्त संवत्सर शुभानन ॥ १४ ॥
जय देवाऽदितेः पुत्र कश्यपानन्दवर्धन ।
तमोघ्न जय सप्तेश जय सप्ताश्ववाहन ॥ १५ ॥
ग्रहेश जय कान्तीश जय कालेश शङ्कर ।
अर्थकामेश धर्मेश जय मोक्षेश शर्मद ॥ १६ ॥
जय वेदाङ्गरूपाय ग्रहरूपाय वै गतः ।
सत्याय सत्यरूपाय सुरूपाय शुभाय च ॥ १७ ॥
क्रोधलोभविनाशाय कामनाशाय वै जय ।
कल्माषपक्षिरूपाय यतिरूपाय शम्भवे ॥ १८ ॥
विश्वाय विश्वरूपाय विश्वकर्माय वै जय ।
जयोङ्कार वषट्कार स्वाहाकार स्वधाय च ॥ १९ ॥
जयाश्वमेधरूपाय चाग्निरूपार्यमाय च ।
संसारार्णवपीताय मोक्षद्वारप्रदाय च ॥ २० ॥
संसारार्णवमग्नस्य मम देव जगत्पते ।
हस्तावलम्बनो देव भव त्वं गोपतेऽद्भुत ॥ २१ ॥
ईशोऽप्येवमहीनाङ्गं स्तुत्वा भानुं प्रयत्नतः ।
विरराज महाराज प्रणम्य शिरसा रविम् ॥ २२ ॥
॥ विष्णुरुवाच (भगवान विष्णु बोले) ॥
अथ विष्णुर्महातेजाः कृताञ्जलिपुटो रविम् ।
उवाचराजशार्दूल भक्त्या श्रद्धासमन्वितः ॥ २३ ॥
नमामि देवदेवेशं भूतभावनमव्ययम् ।
दिवाकरं रविं भानुं मार्तण्डं भास्करं भगम् ॥ २४ ॥
इन्द्रं विष्णुं हरिं हंसमर्कं लोकगुरुं विभुम् ।
त्रिनेत्रं त्र्यक्षरं त्र्यङ्गं त्रिमूर्तिं त्रिगतिं शुभम् ॥ २५ ॥
षण्मुखाय नमो नित्यं त्रिनेत्राय नमो नमः ।
चतुर्विंशतिपादाय नमो द्वादशपाणिने ॥ २६ ॥
नमस्ते भूतपतये लोकानां पतये नमः ।
देवानां पतये नित्यं वर्णानां पतये नमः ॥ २७ ॥
त्वं ब्रह्मा त्वं जगन्नाथो रुद्रस्त्वं च प्रजापतिः ।
त्वं सोमस्त्वं तथादित्यस्त्वमोङ्कारक एव हि ॥ २८ ॥
बृहस्पतिर्बुधस्त्वं हि त्वं शुक्रस्त्वं विभावसुः ।
यमस्त्वं वरुणस्त्वं हि नमस्ते कश्यपात्मज ॥ २९ ॥
त्वया ततमिदं सर्वं जगत् स्थावरजङ्गमम् ।
त्वत्त एव समुत्पन्नं सदेवासुरमानुषम् ॥ ३० ॥
ब्रह्मा चाहं च रुद्रश्च समुत्पन्ना जगत्पते ।
कल्पादौ तु पुरा देव स्थितये जगतोऽनघ ॥ ३१ ॥
नमस्ते वेदरूपाय अह्नरूपाय वै नमः ।
नमस्ते ज्ञानरूपाय यज्ञाय च नमो नमः ॥ ३२ ॥
प्रसीदास्मासु देवेश भूतेश किरणोज्ज्वल ।
संसारार्णवमग्नानां प्रसादं कुरु गोपते ।
वेदान्ताय नमो नित्यं नमो यज्ञकलाय च ॥ ३३ ॥
॥ इति श्रीभविष्ये महापुराणे ब्राह्मेपर्वणि त्रिदेवकृत श्री रवि स्तुतिः सम्पूर्णम् ॥

Explore More