N/A (Spiritual Renunciation)

यति पञ्चकम् (कौपीन पञ्चकम्)

(Yati Panchakam (Kaupina Panchakam))

Adi Shankaracharya

Attributed to the great philosopher Adi Shankaracharya, this stotra celebrates the exalted state of a Sannyasin, one who has renounced worldly attachments. Through five poignant verses, the poet highlights the contentment found in living a life of utter simplicity, relying only on nature and basic necessities. It emphasizes the profound inner joy of one who dwells in the eternal truth of Vedanta. Chanting this composition serves as a powerful reminder of the ephemeral nature of material possessions, encouraging the practitioner to cultivate detachment, inner peace, and a dedicated focus on the ultimate reality of Brahman.

वेदान्तवाक्येषु सदा रमन्तः
भिक्षान्नमात्रेण च तुष्टिमन्तः ।
विशोकमन्तःकरणे रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ 1 ॥
मूलं तरोः केवलमाश्रयन्तः
पाणिद्वयं भोक्तुममन्त्रयन्तः ।
श्रियं च कन्थामिव कुत्सयन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ 2 ॥
देहादिभावं परिमार्जयन्तः
आत्मानमात्मन्यवलोकयन्तः ।
नान्तं न मध्यं न बहिः स्मरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ 3 ॥
स्वानन्दभावे परितुष्टिमन्तः
संशान्तसर्वेन्द्रियदृष्टिमन्तः ।
अहर्निशं ब्रह्मणि ये रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ 4 ॥
ब्रह्माक्षरं पावनमुच्चरन्तः
पतिं पशूनां हृदि भावयन्तः ।
भिक्षाशना दिक्षु परिभ्रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ 5 ॥
कौपीनपञ्चरत्नस्य मननं याति यो नरः ।
विरक्तिं धर्मविज्ञानं लभते नात्र संशयः ॥
इति श्री शङ्करभगवत्पाद विरचितं यतिपञ्चकम् ॥

Explore More