भिक्षान्नमात्रेण च तुष्टिमन्तः ।
विशोकमन्तःकरणे रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ 1 ॥
पाणिद्वयं भोक्तुममन्त्रयन्तः ।
श्रियं च कन्थामिव कुत्सयन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ 2 ॥
आत्मानमात्मन्यवलोकयन्तः ।
नान्तं न मध्यं न बहिः स्मरन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ 3 ॥
संशान्तसर्वेन्द्रियदृष्टिमन्तः ।
अहर्निशं ब्रह्मणि ये रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ 4 ॥
पतिं पशूनां हृदि भावयन्तः ।
भिक्षाशना दिक्षु परिभ्रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ 5 ॥
विरक्तिं धर्मविज्ञानं लभते नात्र संशयः ॥
