Lord Chandra

बृहद्धर्मपुराण चन्द्र अष्टोत्तरशतनाम स्तोत्र

(Brhaddharmapurana Candra Astottarasatanama Stotra)

Also known as brihaddharma purana chandra stotram · atha vaksye sasistotram tacchrnusva mudanvitah

The hundred and eight names of the moon as the Bṛhaddharma Purāṇa gives them, and the list keeps to what the moon does rather than to mythology. He is full of nectar, white, spotless in form, of the broad disc, whose rays are ambrosia; the king of the twice-born, the hare-bearer, the house on Śiva's head; son of the ocean of milk, raining nectar, lord of the night and remover of darkness, the eye of the world; the one who gladdens the eye, husband of the stars, undiminished; of sixteen digits, lord of the digits, and desire itself. One pair of names sets his whole nature out plainly — waning and waxing — and the closing verses attach him to the rite for the ancestors, saying the offering becomes endless by the favour of the lord of the digits. Its last line specifies who may recite it and who is to listen.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम् ॥
अथ वक्ष्ये शशिस्तोत्रं तच्छृणुष्व मुदान्वितः ।
चन्द्रोऽमृतमयः श्वेतो विधुर्विमलरूपवान् ॥ १ ॥
विशालमण्डलः श्रीमान् पीयूषकिरणः करी ।
द्विजराजः शशधरः शशी शिवशिरोगृहः ॥ २ ॥
क्षीराब्धितनयो दिव्यो महात्माऽमृतवर्षणः ।
रात्रिनाथो ध्वान्तहर्ता निर्मलो लोकलोचनः ॥ ३ ॥
चक्षुराह्लादजनकस्तारापतिरखण्डितः ।
षोडशात्मा कलानाथो मदनः कामवल्लभः ॥ ४ ॥
हंसःस्वामी क्षीणवृद्धो गौरः सततसुन्दरः ।
मनोहरो देवभोग्यो ब्रह्मकर्मविवर्धनः ॥ ५ ॥
वेदप्रियो वेदकर्मकर्ता हर्ता हरो हरिः ।
ऊर्द्ध्ववासी निशानाथः शृङ्गारभावकर्षणः ॥ ६ ॥
मुक्तिद्वारं शिवात्मा च तिथिकर्ता कलानिधिः ।
ओषधीपतिरब्जश्च सोमो जैवातृकः शुचिः ॥ ७ ॥
मृगाङ्को ग्लौः पुण्यनामा चित्रकर्मा सुरार्चितः ।
रोहिणीशो बुधपिता आत्रेयः पुण्यकीर्तकः ॥ ८ ॥
निरामयो मन्त्ररूपः सत्यो राजा धनप्रदः ।
सौन्दर्यदायको दाता राहुग्रासपराङ्मुखः ॥ ९ ॥
शरण्यः पार्वतीभालभूषणं भगवानपि ।
पुण्यारण्यप्रियः पूर्णः पूर्णमण्डलमण्डितः ॥ १० ॥
हास्यरूपो हास्यकर्ता शुद्धः शुद्धस्वरूपकः ।
शरत्कालपरिप्रीतः शारदः कुमुदप्रियः ॥ ११ ॥
द्युमणिर्दक्षजामाता यक्ष्मारिः पापमोचनः ।
इन्दुः कलङ्कनाशी च सूर्यसङ्गमपण्डितः ॥ १२ ॥
सूर्योद्भूतः सूर्यगतः सूर्यप्रियपरःपरः ।
स्निग्धरूपः प्रसन्नश्च मुक्ताकर्पूरसुन्दरः ॥ १३ ॥
जगदाह्लादसन्दर्शो ज्योतिः शास्त्रप्रमाणकः ।
सूर्याभावदुःखहर्ता वनस्पतिगतः कृती ॥ १४ ॥
यज्ञरूपो यज्ञभागी वैद्यो विद्याविशारदः ।
रश्मिकोटिर्दीप्तिकारी गौरभानुरिति द्विज ॥ १५ ॥
नाम्नामष्टोत्तरशतं चन्द्रस्य पापनाशनम् ।
चन्द्रोदये पठेद्यस्तु स तु सौन्दर्यवान् भवेत् ॥ १६ ॥
पौर्णमास्यां पठेदेतं स्तवं दिव्यं विशेषतः ।
स्तवस्यास्य प्रसादेन त्रिसन्ध्यापठितस्य च ॥ १७ ॥
सदाप्रसादास्तिष्ठन्ति ब्राह्मणाश्च द्विजोत्तम ।
श्राद्धे चापि पठेदेतं स्तवं पीयूषरूपिणम् ॥ १८ ॥
तत्तु श्राद्धमनन्तञ्च कलानाथप्रसादतः ।
दुःस्वप्ननाशनं पुण्यं दाहज्वरविनाशनम् ॥ १९ ॥
ब्राह्मणाद्याः पठेयुस्तु स्त्रीशूद्राः शृणुयुस्तथा । ॥ इति बृहद्धर्मपुराणान्तर्गतं श्रीचन्द्राष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Explore More