पाणे प्राण्येव नायं कलयसि कलहश्रद्धया किं त्रिशूलम् ।
इत्युद्यत्कोपकेतून्प्रकृतिमवयवान्प्रापयन्त्येव देव्या
न्यस्तो वो मूर्ध्नि मुष्यान्मरुदसुहृदसून्संहरन्नङ्घ्रिरंहः ॥ १॥
श्लिष्यच्छृङ्गक्षतेऽपि क्षरदसृजि निजालक्तकभ्रान्तिभाजि ।
स्कन्धे विन्ध्याद्रिबुद्ध्या निकषति महिषस्याहितोऽसूनहार्षी-
दज्ञानादेव यस्याश्चरण इति शिवं सा शिवा वः करोतु ॥ २॥
नूनं नो नूपुरेण ग्लपितशशिरुचा ज्योत्स्नया वा नखानाम् ।
तां शोभामादधाना जयति नवमिवालक्तकं पीडयित्वा
पादेनैव क्षिपन्ती महिषमसुरसादाननिष्कार्यमार्या ॥ ३॥
किं वा कृष्णाङ्घ्रिपद्मद्युतिभिररुणिता विष्णुपद्याः पदव्यः ।
प्राप्ताः सन्ध्याः स्मरारेः स्वयमुत नुतिभिस्तिस्र इत्यूह्यमाना
देवैर्देव्यास्त्रिशूलक्षतमहिषजुषो रक्तधारा जयन्ति ॥ ४॥
श्लिष्टां शृङ्गस्य कोटिं महिषसुररिपोर्नूपुरग्रन्थिसीम्नि ।
मुष्याद्वः किल्बिषाणि व्यतिकरविरतावाददानः कुमारो
मातुः प्रभ्रष्टलीलाकुवलयकलिकाकर्णपूरादरेण ॥ ५॥
यस्याः पादोपशल्ये महिषसुररिपुर्दूरदुष्टाशयोऽपि ।
नाके प्रापत्प्रतिष्ठामसकृदभिमुखो वादयञ्शृङ्गकोट्या
हत्वा कोणेन वीणामिव रणितमणिं मण्डलीं नूपुरस्य ॥ ६॥
गर्भे दर्भाग्रसूचीलघुरिव गणितो नोपसर्पन्समीपम् ।
नाभौ वक्रं प्रविष्टाकृतिविकृति यया पादपातेन कृत्वा
दैत्याधीशो विनाशं रणभुवि गमितः सास्तु देवी श्रिये वः ॥ ७॥
स्थाणौ कण्डूं विनीय प्रतिमहिषरुषेवान्तकोपान्तवर्ती ।
कृष्णं पङ्कं यथेच्छन्वरुणमुपगतो मज्जनायेव यस्याः
स्वस्थोऽभूत्पादमाप्त्वा ह्रदमिव महिषः सास्तु देवी मुदे वः ॥ ८॥
मिन्द्राद्येषु द्रवत्सु द्रविणपतिपयःपालकालानलेषु ।
ये स्पर्शेनैव पिष्ट्वा महिषमतिरुषं त्रातवन्तो जगन्ति
पान्तु त्वां पञ्च चण्ड्याश्चरणनखनिभेनापरे लोकपालाः ॥ ९॥
पार्वत्याः पातु युष्मान्पितुरिव तुलिताद्रीन्द्रसारः स पादः ।
यो धैर्यान्मुक्तलीलासमुचितपतनापातपीतासुरासी-
न्नो देव्या एव वामश्छलमहिषतनोर्नाकलोकद्विषोऽपि ॥ १०॥
पञ्चैवास्तं नयामो युवतिचरणजाः शत्रुमेते वयं तु ।
इत्युत्पन्नाभिमानैर्नखशशिमणिभिर्ज्योत्स्नया स्वांशुमय्या
यस्याः पादे हतारौ हसित इव हरिः सास्तु काली श्रिये वः ॥ ११॥
न्हासो हस्ताग्रसंवाहनमपि तुलिताद्रीन्द्रसारद्विषोऽस्य ।
त्रासेनैवाद्यः सर्वः प्रणमति कदनेनामुनेति क्षतारिः
पादोऽव्याच्चुम्बितो वो रहसि विहसता त्र्यम्बकेणाम्बिकायाः ॥ १२॥
न क्रोधात्पादपद्मं महदमृतभुजामुद्धृतं शल्यमन्तः ।
वाचालं नूपुरं नो जगदजनि जयं शंसदंशेन पार्ष्णे-
र्मुष्णन्त्यासून्सुरारेः समरभुवि यया पार्वती पातु सा वः ॥ १३॥
द्राङ् नीते दीर्घनिद्रां द्विषति न महिषीत्युच्यसे प्रायशोऽद्य ।
अस्त्रीसम्भाव्यवीर्या त्वमसि खलु मया नैवमाकारणीया
कात्यायन्यात्तकेलाविति हसति हरे ह्रीमती हन्त्वरीन्वः ॥ १४॥
मद्येन्दोर्द्वौ कलङ्कौ त्यजति पतिरपां धैर्यमालोक्य चन्द्रम् ।
वायो कम्प्यस्त्वयान्यो नय यम महिषादात्मयुग्यं ययारौ
पिष्टे नष्टं जहास द्युजनमिति जया सास्तु देवी श्रिये वः ॥ १५॥
वर्त्मन्यारज्यमाने सपदि मखभुजां जातसन्ध्याप्रमोहः ।
नृत्यन्हासेन मत्वा विजयमहमहं मानयामीतिवादी
यामाश्लिष्य प्रनृत्तः पुनरपि पुरभित्पार्वती पातु सा वः ॥ १६॥
रुन्धन्वर्धिष्णुविन्ध्याचलचकितमनोवृत्तिभिर्वीक्षितो यः ।
पादोत्पिष्टः स यस्या महिषसुररिपुर्नूपुरान्तावलम्बी
लेभे लोलेन्द्रनीलोपलशकलतुलां स्तादुमा सा श्रिये वः ॥ १७॥
न्पार्वत्या प्रेतपालस्वपुरुषपरुषः प्रेषितोऽसौ पृषत्कः ।
यः कृत्वा लक्ष्यभेदं हृतभुवनभयो गां विभिद्य प्रविष्टः
पातालं पक्षपालीपवनकृतपतत्तार्क्ष्यशङ्काकुलाहिः ॥ १८॥
केशान्बद्ध्वाब्धिपाशैर्धृतधनदगदा प्राक्प्रलीनान्विहस्य ।
देवानुत्सारणोत्का किल महिषहतौ मीलतो ह्रेपयन्ती
ह्रीमत्या हैमवत्या विमतिविहतये तर्जिता स्ताज्जया वः ॥ १९॥
शूलेनेशो यशोभाग्भवति परिलघुः स्याद्वधार्हेऽपि दण्डः ।
हित्वा हेतीरितीवाभिहतिबहलितप्राक्तनापाटलिम्ना
पार्ष्ण्यैव प्रोषितासुं सुररिपुमवतात्कुर्वती पार्वती वः ॥ २०॥
वित्ते(अर्थे)श स्थाणुकण्ठे जहि गदमगदस्यायमेवोपयोगः ।
जातश्चक्रिन्विचक्रो दितिज इति सुरांस्त्यक्तहेतीन्ब्रुवन्त्या
व्रीडां(लज्जां)व्यापादितारिर्जयति विजयया नीयमाना भवानी ॥ २१॥
न्नीतः पातालकुक्षिं हृतभुवन(कृतपरम)भयो भद्रकाल्याः स पादः ।
यः प्रादक्षिण्यकाङ्क्षावलयितवपुषा वन्द्यमानो मुहूर्तं
शेषेणेवेन्दुकान्तोपलरचितमहानूपुराभोगलक्ष्मीः ॥ २२॥
श्चक्रेणाकारि किं मे पविरवति नहि त्वाष्ट्रशत्रो द्युराष्ट्रम् ।
पाशाः केशाब्जनालान्यनल न लभसे भातुमित्यात्तदर्पं
जल्पन्देवान्दिवौकोरिपुरवधि यया सास्तु शान्त्यै शिवा (पार्वती पातु सा)वः ॥ २३॥
गोत्रारे हन्म्यहं ते रिपुमम(सु)ररिपुस्त्वेष गोत्रस्य शत्रुः ।
दैत्या व्यापाद्यतां द्रागज इव महिषो हन्यते मन्महेऽद्ये-
त्युत्प्रास्योमा पुरस्तादनु दनुजतनुं मृद्गती त्रायतां वः ॥ २४॥
हस्तादुत्पतिता प्रसादयतु वः कृत्यानि कात्यायनी ।
यां शूलामिव देवदारुघटितां स्कन्धेन मोहान्धधी-
र्वध्योद्देशमशेषबान्धवकुलध्वंसाय कंसोऽनयत् ॥ २५॥
क्लान्तेवोपेत्य पत्युस्ततभुजयुगलस्यालमालम्बनाय ।
देहार्धे गेहबुद्धिं प्रतिविहितवती लज्जयालीय काली
कृच्छ्रं वोऽनिच्छयैवापतितघनतराश्लेषसौख्या विहन्तु ॥ २६॥
क्रीडा द्वाभ्यां विमुञ्चापरमलममुनैकेन मे पाशकेन ।
शूलं प्रागेव लग्नं शिरसि यदबला युध्यसेऽव्याद्विदग्धं
सोत्प्रासालापपातैरिति दनुजमुमा निर्दहन्ती दृशा वः ॥ २७॥
मन्याः षण्मातरस्ते भव भव सकलस्त्वं शरीरार्धलब्ध्या ।
जिह्मां हन्म्यद्य कालीमिति सममसुभिः कण्ठतो निर्गता गी-
र्गीर्वाणारेर्यये(दृ)च्छामृदुपदमृदितस्याद्रिजा सावताद्वः ॥ २८॥
शृङ्गाभ्यां विश्वकर्मन्घटयसि न नवं शार्ङ्गिणः शार्ङ्गमन्यत् ।
ऐभी त्वङ्गिष्ठुरेयं बिभृहि मृदुमिमामीश्वरेत्यात्तहासा
गौरी वोऽव्यात्क्षतारिः स्वचरणगरिमग्रस्तगीर्वाणगर्वा ॥ २९॥
प्रह्लादो नूपुरस्य क्षतरिपुशिरसः पादपातैर्दिशोऽगात् ।
सङ्ग्रामे सन्नताङ्गि व्यथयसि महिषं नैकमन्यानपि त्वं
ये युध्यन्तेऽत्र नैवेत्यवतु पतिपरीहासहृष्टा शिवा वः ॥ ३०॥
भर्तारो रिक्ततां यत्तदपि हितमभून्निःसपत्नोऽत्र कोऽपि ।
एतन्नो मृष्यते यन्महिष कलुषिता स्वर्धुनी मूर्ध्नि मान्या
शम्भोर्भिन्द्याद्धसन्ती पतिमिति शमितारातिरीतीरुमा वः ॥ ३१॥
पादप्रान्तविषक्त एव महिषाकारे सुरद्वेषिणि ।
दिष्ट्या देव वृषध्वजो यदि भवानेषापि नः स्वामिनी
सञ्जाता महिषध्वजेति जयया केलौ कृतेऽर्धस्मिता ॥ ३२॥
स्वाहे स्वस्था स्वभर्तर्यमृतभु(सृ)जि मुधा रोहिणी रोदितीय ।
लक्ष्मि श्रीवत्सलक्ष्मोरसि वससि पुरेत्यार्तमाश्वासयन्त्यां
स्वर्गस्त्रैणं जयायां जयति हतरिपोर्ह्रेपितं हैमवत्या ॥ ३३॥
स्तत्ते धैर्यं क्व यातं जहिहि जलपते दीनतां त्वं न दीनः ।
शक्तो नो शत्रुभङ्गे भयपिशुन सुनासीर नासीरधूलि-
र्धिग्यासि क्वेति जल्पन्रिपुरवधि यया पार्वती पातु सा वः ॥ ३४॥
किं दन्ते रोम्णि रुग्णे व्रजसि गजमुख त्वं वशीभूत एव ।
निघ्नन्निघ्नन्निदानीं द्युजनमिह महाकाल एकोऽस्मि नान्यः
कन्याद्रेर्दैत्यमित्थं प्रमथपरिभवे मृद्गती त्रायतां वः ॥ ३५॥
दण्डं तुण्डात्कृतान्तस्त्वरितगतिगदामस्थितोऽर्थाधिनाथः ।
प्रापन्यत्पादपिष्टे द्विषि महिषवपुष्यङ्गलग्नानि भूयो-
ऽप्यायूंषीवायुधानि द्युवसतय इति स्तादुमा सा श्रिये वः ॥ ३६॥
स्मेरा हासप्रगल्भे प्रियवचसि कृतश्रोत्रपेयाधिकोक्तिः ।
उद्युक्ता नर्मकर्मण्यवतु पशुपतौ पूर्ववत्पार्वती वः
कुर्वाणा सर्वमीषद्विनिहितचरणालक्तकेव क्षतारिः ॥ ३७॥
वायो वारीश विष्णो वृषगमन वृषन्किं विषादो वृथैव ।
बध्नीत ब्रध्नमिश्राः कवचमचकिताश्चित्रभानो दहारी-
नेवं देवाञ्जयोक्ते जयति हतरिपोर्ह्रेपितं हैमवत्याः ॥ ३८॥
मर्चिर्मोक्षेण मूर्च्छन्दवदहनरुचां लोचनानां त्रयेण ।
यस्या निर्मज्जमज्जच्चरणभरनतो गां विभिद्य प्रविष्टः
पातालं पङ्कपातोन्मुख इव महिषः स्तादुमा सा श्रिये वः ॥ ३९॥
निद्रां द्रागेव देवद्विषि मुषितरुषः(भियः)संस्मरन्त्याः स्वभावम् ।
देव्या दृग्भ्यस्तिसृभ्यस्त्रय इव गलिता राशयो रक्तताया-
स्त्रायन्तां वस्त्रिशूलक्षतकुहरभुवो लोहिताम्भः समुद्राः ॥ ४०॥
पश्चाच्छ्लिष्टे विषाणे विदितदितिसुता लोहिता मत्सरेण ।
पादोत्पिष्टे परासौ निपतति महिषे प्राक्स्वभावेन गौरी
गौरी वः पातु पत्युः प्रतिनयनमिवाविष्कृतान्योन्यरूपा ॥ ४१॥
शक्रस्याक्ष्णां सहस्रं सह सुरसदसा सादयन्तं प्रसह्य ।
उत्पातोग्रान्धकारागममिव महिषं निघ्नती शर्म दिश्या-
द्देवी वो वामपादाम्बुरुहनखमयैः पञ्चभिश्चन्द्रमोभिः ॥ ४२॥
कात्यायन्यात्मनैव त्रिदशरिपुमहादैत्यदेहोपहारम् ।
विश्रान्त्यै पातु युष्मान्क्षणमुपरि धृतं केसरिस्कन्धभित्ते-
र्बिभ्रत्तत्केसरालीमलिमुखररणन्नूपुरं पादपद्मम् ॥ ४३॥
श्लिष्यच्छृङ्गाग्रकोणक्वणितमणितुलाकोटिहुङ्कारगर्भः ।
प्रत्यासन्नात्ममृत्युप्रतिभयमसुरैरीक्षितो हन्त्वरीन्वः
पादो देव्याः कृतान्तोऽपर इव महिषस्योपरिष्टान्निविष्टः ॥ ४४॥
कंसेनैनांसि सा वो हरतु हरियशोरक्षणाय क्षमापि ।
प्राक्प्राणानस्य नास्यद्गगनमुदपतद्गोचरं या शिलायाः
सम्प्राप्यागामिविन्ध्याचलशिखरशिलावासयोगोद्यतेव ॥ ४५॥
त्सेन्द्रस्यैरावणस्याप्युपरि कलुषितः केवलं दानवृष्ट्या ।
दान्तो दण्डेन मृत्योर्न च विफलयथोक्ताभ्युपायो हतोऽरि-
र्येनोपायः स पादः सुखयतु भवतः पञ्चमश्चण्डिकायाः ॥ ४६॥
क्व स्त्री क्वायोधनेच्छा न तु सदृशमिदं प्रस्तुतं किं मयेति ।
मत्वा सव्याजसव्येतरचरणचलानखाङ्गुष्ठकोणाभिमृष्टं
सद्यो या लज्जितेवासुरपतिमवधीत्पार्वती पातु सा वः ॥ ४७॥
क्षिप्तः पादेन देवं प्रति झटिति यया केलिकान्तं विहस्य ।
दन्तज्योत्स्नावितानैरतनुर्न्यक्कृतार्धेन्दुभाभि-
र्गौरो गौरेव जातः क्षणमिव महिषः सावतादम्बिका वः ॥ ४८॥
सेर्ष्या वोऽवतु चण्डिका चरणयोः स्वं पातयन्ती पतिम् ।
कुर्वत्याभ्यधिकं कृते प्रतिकृतं मुक्तेन मौलौ मुहु-
र्बाष्पेणाहितकज्जलेन लिखितं स्वं नाम चन्द्रे यया ॥ ४९॥
कुञ्जौत्सुक्याद्विशत्सु श्रुतिकुहरपुटं द्राक्ककुप्कुञ्जरेषु ।
स्मित्वा वः संहृतासोर्दशनरुचिकृताकाण्डकैलासभासः
पायात्पृष्ठाधिरूढे स्मरमुषि महिषस्योच्चहासेव देवी ॥ ५०॥
दाहान्नेत्रत्रयाग्नेर्विलयनविगलच्छृङ्गशून्योत्तमाङ्गः ।
क्रिडाक्रोडाभिशङ्कां विदधदपिहितव्योमसीमा महिम्ना
वीक्ष्य क्षुण्णो ययारिस्तृणमिव महिषः सावतादम्बिका वः ॥ ५१॥
प्रासे सोत्प्रासमव्याकुलमिव कुलिशे जातशङ्कं न शङ्कौ ।
चक्रेऽवक्रं कृपाणे न कृपणमसुरारातिभिः पात्यमाने
दैत्यं पादेन देवी महिषितवपुषं पिंषती वः पुनातु ॥ ५२॥
र्यद्वक्त्रं कैतवाविष्कृतमहिषतनौ विद्विषत्याजिभाजि ।
प्रोतात्प्रासेन मूर्ध्नः सघृणमभिमुखायातया कालरात्र्या
कल्याणान्याननाब्जं सृजतु तदसृजो धारया वक्रितं वः ॥ ५३॥
वैलक्ष्येणेव पाण्डुद्युतिमदितिसुतारातिमापादयन्त्याः ।
दर्पानल्पाट्टहासाद्विगुणतरसिताः सप्तलोकीजनन्या-
स्तर्जन्या जन्यदूतो नखरुचिततयस्तर्जयन्त्या जयन्ति ॥ ५४॥
यस्याः पादसरोजसीम्नि महिषक्षोभात्क्षणं विद्रुताः ।
निष्पिष्टे पतितास्त्रिविष्टपरिपौ गीत्युत्सवोल्लासिनो
लोकाः सप्त सपक्षपातमरुतो भान्ति स्म भृङ्गा इव ॥ ५५॥
श्चक्रव्युक्रमकृत्परोक्षपरशुः शूलेन शून्यो यया ।
मृत्युर्दैत्यपतेः कृतः सुसदृशः पादाङ्गुलीपर्वतः
पार्वत्या प्रतिपाल्यतां त्रिभुवनं निःशल्यकल्यं तया ॥ ५६॥
शार्ङ्गिन्सङ्ग्रामयुक्त्या लघुरसि गमितः साधु तार्क्ष्येण तैक्ष्ण्यम् ।
उत्खाता नेत्रपक्तिर्न तव समरतः पश्य नश्यद्बलं स्वं
स्वर्नाथेत्यात्तदर्पं व्यसुमसुरमुमा कुर्वती त्रायतां वः ॥ ५७॥
दाश्लिष्यञ्छैलकल्पं महिषमवनिभृद्बान्धवो विन्ध्यबुद्ध्या ।
यस्याः श्वेतीकृतेऽस्मिन्स्मितदशनरुचा तुल्यरूपो हिमाद्रि-
र्द्राग्द्राघीयानिवासीदवतमसनिरासाय सा स्तादुमा वः ॥ ५८॥
प्रीयस्वानेन किं ते बिसतनुतनुभिर्भक्षितस्तार्क्ष्य नागैः ।
अष्टाभिर्दिग्गजेन्द्रः सह न हरिकरी कर्षतीमं हते वो
ह्रीमत्या हैमवत्यास्त्रिदशरिपुपतौ पान्त्विति व्याहृतानि ॥ ५९॥
हन्ता त्वाष्ट्रं द्युराष्ट्राधिप इति विविधान्युत्सवेच्छाहृतानाम् ।
विद्राणानां विमर्दे दितितनयमये नाकलोकेश्वराणा-
मश्रद्धेयानि कर्माण्यवतु विदधती पार्वती वो हतारिः ॥ ६०॥
काली कीलालकुल्यात्रयमधिकरयं वीक्ष्य विश्वासितद्यौः ।
त्रिस्रोतास्त्र्यम्बकेयं वहति तव भृशं पश्य रक्ता विशेषा-
न्नो मूर्ध्ना धार्यते किं हसितपतिरिति प्रीतये कल्पतां वः ॥ ६९॥
व्यालासङ्गेऽपि नित्यं न भवति भवतो भीर्नयज्ञोऽस्मि येन ।
त्वं मुञ्चोच्चैः पिनाकिन्पुनरपि विशिखं दानवानां पुरोऽहं
पायात्सोत्प्रासमेवं हसितहरमुमा मृद्गती दानवं वः ॥ ६२॥
नप्तुर्हस्तेन हस्तं तदनुगतगतेः षण्मुखस्यावलम्ब्य ।
जामातुर्मातृमध्योपगमपरिहृते दर्शने शर्म दिश्यात्-
नेदीयच्चुम्ब्यमाना महिषवधमहे मेनया मूर्ध्न्युमा वः ॥ ६३॥
शर्वाणी शर्मणे वः प्रशमितसकलोपप्लवा सा सदास्तु ।
या पार्ष्णिक्षुण्णशत्रुर्विगलितकुलिशप्रासपाशत्रिशूलं
नाकौकोलोकमेव स्वमपि भुजवनं संयुगेऽवस्त्वमंस्त ॥ ६४॥
दापच्चापं बलारेर्न परमगुणतां पूस्त्रयप्लोषिणोऽपि ।
शक्त्यालं मां विजेतुं न जगदपि शिशौ षण्मुखे का कथेति
न्यक्कुर्वन्नाकिलोकं रिपुरवधि यया सावतात्पार्वती वः ॥ ६५॥
जाताशङ्के शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे ।
वैकुण्ठे कुण्ठितास्त्रे महिषमतिरुषं पौरुषोपघ्ननिघ्नं
निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी ॥ ६६॥
भग्ने दैत्येन दर्पान्महिषितवपुषा किं विषाणे विषण्णः ।
इत्युक्त्वा पातु मातुर्महिषवधमहे कुञ्जरेन्द्राननस्य
न्यस्यन्नास्ये गुहो वः स्मितसितरुचिनी द्वेषिणो द्वे विषाणे ॥ ६७॥
न्सुप्ताः सप्तापि लोकाः स्थितिमुषि महिषे यामिनीधाम्नि यत्र ।
धाराणां रौधिरीणामरुणिमनि नभःसान्द्रसन्ध्यां दधान-
स्तस्य ध्वंसात्सुताद्रेरपरदिनपतिः पातु वः पादपातैः ॥ ६८॥
विद्रातीत्यत्र चित्रं तव किमिति भवन्नाभिजातो यतः सः ।
नाभीतोऽभूत्स्वयम्भूरिव समरभुवि त्वं तु यद्विस्मितास्मी-
त्युक्त्वा तद्विस्मितं वः स्मररिपुमहिषीविक्रमेऽव्याज्जयायाः ॥ ६९॥
व्रीडामस्योपरि त्वं कुरु दृढहृदयं मुञ्च शस्त्राण्यमूनि ।
इत्थं दैत्यैः सदैन्यं समदमपि सुरैस्तुल्यमेवोच्यमाना
रुद्राणी दारुणं वो द्रवयतु दुरितं दानवं दारयन्ती ॥ ७०॥
मन्द्रध्वानानुयातं झटिति वलयिनो मुक्तबाणस्य पाणेः ।
चण्ड्याः सव्यापसव्यं सुररिपुषु शरान्प्रेरयन्त्या जयन्ति
त्रुट्यन्तः पीनभागे स्तनवलनभरात्सन्धयः कञ्चुकस्य ॥ ७१॥
गम्भीरोदरनाभिमण्डलगलत्काञ्चीधृतार्धांशुकम् ।
पार्वत्या महिषासुरव्यतिकरे व्यायामरम्यं वपुः
पर्यस्तावधिबन्धबन्धुरलसत्केशोच्चयं पातु वः ॥ ७२॥
स्थाणोर्बाणश्च लेभे प्रतिहतिमुरुणा चर्मणा वर्मणेव ।
यस्येति क्रोधगर्भं हसितहरिहरा तस्य गीर्वाणशत्रोः
पायात्पादेन मृत्युं महिषतनुभृतः कुर्वती पार्वती वः ॥ ७३॥
क्षोभव्यालोलतारं स्फुरदरुणरुचिस्फारपर्यन्तचक्षुः ।
सन्ध्यासेवापराद्धं भवमिव पुरतो वामपादाम्बुजेन
क्षिप्रं दैत्यं क्षिपन्ती महिषितवपुषं पार्वती वः पुनातु ॥ ७४॥
वाञ्छासम्पूर्णभावादधिकतररसं तूर्णमायान्समीपम् ।
क्षिप्तः पादेन दूरं वृषग इव यया वामपादाभिलाषी
देवारिः कैतवाविष्कृतमहिषवपुः सावतादम्बिका वः ॥ ७५॥
नाहं केलौ रहस्ये प्रतियुवतिकृतख्यातिदोषः पिनाकी ।
देवी सोत्प्रासमेवं धृतमहिषतनुं दृप्तमन्तःसकोपं
देवारिं पातुयुष्मानतिपरुषपदा निघ्नती भद्रकाली ॥ ७६॥
स्वां भोः सन्त्यज्य शम्भौ खुरपुटदलितप्रोल्लसद्धूलिपाण्डुः ।
भद्रे क्रीडाभिमर्दी तव सविधमहं कामतः प्राप्त ईशो-
ऽत्रैवं सोत्प्रासमव्यान्महिषसुररिपुं निघ्नती पार्वती वः ॥ ७७॥
चक्रं विष्णोर्दृढास्रिप्रसृतिविहतरयं दैत्यमायाविलासि ।
क्षुण्णस्तस्यस्थिसारो विबुधरिपुपतेः पादपातेन यस्या
रुद्राणी पातु सा वः प्रशमितसकलोपप्लवा निर्विघातम् ॥ ७८॥
दैत्यं सञ्जातशिक्षं जनमहिषमिव न्यक्कृताग्र्याङ्गभागम् ।
आरूढा शूलपाणिः कृतविबुधभयं हन्तुकामं सगर्वं
देयाद्वश्चन्तितानि द्रुतमहिषवधावाप्ततुष्टिर्भवानी ॥ ७९॥
वक्षः शौरेर्विशालं प्रणयकृतपदा पद्मवासाधिशेते ।
युद्धक्ष्मामेवमेते विजहतु धिगिमं यस्त्यजत्येष शक्रो
दृप्तं दैत्येन्द्रमेवं सुखयतु समदा निघ्नती पार्वती वः ॥ ८०॥
सोऽन्यस्त्रीणां रतादौ कलहसमुचितो यः प्रिये दोषलब्धे ।
वैदग्ध्यादेवमन्तः कलुषितवचनं दुष्टदेवारिनाथं
देवी वः पातु पार्ष्ण्या दृढतनुमसुभिर्मोचयन्ती भवानी ॥ ८१॥
नागास्यः शातदन्तः स्वतनुकरमदाद्विह्वलः सोऽपि शान्तः ।
धिग्यासि क्वेति दृष्टं मृदिततनुमुदं दानवं सस्फुरोक्तं
पायाद्वः शैलपुत्री महिषतनुभृतं निघ्नती वामपार्ष्ण्या ॥ ८२॥
सङ्ग्रामाद्दूरमेतद्धृतमरि हरिणा मन्मनः कर्षतीव ।
गर्वादेवं क्षिपन्तं विबुधजनविभून्दैत्यसेनाधिनाथं
शर्वाणी पातु युष्मान्पदभरदलनात्प्राणतो दूरयन्ती ॥ ८३॥
न्कृत्वैवाशुप्रसन्नान्पुनरपि जलधीन्मन्दरक्षोभभाजः ।
दर्पादायान्तमेव श्रुतिपुटपरुषं नादमभ्युद्गिरन्तं
कन्याद्रेः पातु युष्मांश्चरणभरनतं पिंषती दैत्यनाथम् ॥ ८४॥
युद्धक्ष्मायां तनुं स्वां रतिमदविलसतत्स्त्रीकटाक्षक्षमेयम् ।
भानो किं वीक्षितेन क्षितिमहिषतनौ त्वं हि संन्यस्तपादो
दर्पादेवं हसन्तं व्यसुमसुरसुमा कुर्वती त्रायतां वः ॥ ८५॥
स्यातुं शूलाग्रभूमौ गतभयमजयं मत्तमेतं गृहाण ।
दैत्ये पादेन यस्याश्छालमहिषतनौ शायिते दीर्घनिद्रां
भावोत्पत्तौ जयैवं हसति पितृपतिं साम्बिका वः पुनातु ॥ ८६॥
च्छ्लिष्टा बाहुप्रसारं श्वसितभरचलत्तारका धूतहस्ता ।
दैत्ये गीर्वाणशत्रौ भुवनसुखमुषि प्रोषिते प्रेतकाष्ठां
गौरी वोऽव्यान्मिलत्सु त्रिदिविषु तमलं लज्जया वारयन्ती ॥ ८७॥
त्रैलोक्यक्षेमदानात्भुवनभयहरः शङ्करोऽतो हरोऽपि ।
देवानां नायिकत्वद्गुणकृतवचनोऽतो महादेव एष
केलावेवं स्मरारिर्हसति रिपुवधे यां शिवा पातु सा वः ॥ ८८॥
शत्रोर्भङ्गेन वामस्तव मुदितसुरो नन्दकस्त्वेष पादः ।
भावादेवं जयायां नुतिकृति नितरां सन्निधौ देवतानां
सव्रीडा भद्रकाली हतरिपुरवताद्वीक्षिता शम्भुना वः ॥ ८९॥
यस्याः कान्त्या नखानां हसति सुररिपुं हन्तुमुद्यन्सगर्वम् ।
विष्णोस्रिः पादपद्मं वलिनियमविधावुद्धृतं कैतवेन
क्षिप्रं सा वो रिपूणां वितरतु विपदं पार्वती क्षुण्णशत्रुः ॥ ९०॥
हास्यं प्रागेव लब्धं सुरजनसमितौ दुष्कृतेन त्वयैवम् ।
जाता भूयोऽपि लज्जा रणत इयमलं हास्यता शूलभर्त-
र्दर्पादेवं हसन्तं भवमसुरमुमा निन्नती त्रायतां वः ॥ ९१॥
तोयस्थाने न चाप्तं सुखमधिकतरं गाहनेनाङ्गजातम् ।
शून्यायां युद्धभूमौ वदति हि धिगिदं माहिषं रूपमेकं
रुद्राण्यारोपितो वः सुखयतु महिषे प्राणहृत्पादपद्मः ॥ ९२॥
शम्भोर्जातो लघीयाञ्छ्रमरहितवपुर्दूरमभ्यूह्यपातः ।
वामो देवारिपृष्ठे कनकगिरिसदां क्षेमकारोऽङ्घ्रिपद्मो
यस्या दुर्वार एवं विविधगुणगतिः सावतादम्बिका वः ॥ ९३॥
नेत्रैरुद्वृत्ततारैः सचकितममरैरुन्मुखैर्वीक्ष्यमाणः ।
यस्या वामो महीयान्मुदितसुरमनाः प्राणहृत्पादपद्मः
प्राप्तस्तन्मूर्धसीमां सुखयतु भवतः सा भवानी हतारिः ॥ ९४॥
शोणाब्जाताम्रकान्तिः प्रततघनबृहन्मण्डले पादपद्मे ।
यस्या लेभे सुरारिर्मधुरसनिभृतद्वादशार्धाङ्घ्रिलीलां
शर्वाणी पातु सा वस्त्रिभुवनभयहृत्स्वगिभिः स्तूयमाना ॥ ९५॥
र्मूर्धाग्रे चापतद्भिश्चरणतलगतैरंशुभिः शोणशोभः ।
संन्यस्तालीनरत्नप्रविरचितकरैश्चर्चितः क्षिप्तकायै-
र्यस्या देवैः प्रणीतो हविरिव महिषः सावतादम्बिका वः ॥ ९६॥
पादश्चायं सरोजद्युतिरनतिमरुगुर्योषितः क्वेति देव्याः ।
ध्यायं ध्यायं स्तुतो यः सुररिपुमथने विस्मयावद्धचित्तैः
पार्वत्याः सोऽवताद्वस्त्रिभुवनगुरुभिः सादरं वन्द्यमानः ॥ ९७॥
शूलित्वं शूलभर्तुः सुरकटकविभोः शक्तिता षण्मुखस्य ।
यस्याः पादेन सर्वं कृतममररिपोर्बाधयैतत्सुराणां
रुद्राणी पातु सा वो दनुविफलयुधां स्वर्गिणां क्षेमकारी ॥ ९८॥
भानोः सामग्र्यपेतः कृत इति विधिना त्यक्तवैरः पतङ्गे ।
दर्पाद्भ्राम्यन्रणक्ष्मां प्रतिभटसमराश्लेषलुब्धः सुरारि-
र्यस्याः पादेन नीतः पितृपतिसदनं सावतादम्बिका वः ॥ ९९॥
हीयेताशागजत्वं सुभटरणकृतां कर्मणा दारुणेन ।
यद्येष स्थाणुसंज्ञो भयचकितदृशा नश्यतीत्यद्भुतं त-
द्दर्षादेवं सन्तं सुररिपुमवतान्निघ्नती पार्वती वः ॥ १००॥
स्थाणुर्दृष्ट्वा सुरारिं क्षणमिह स रुषं स्थाणुरेवोपजातः ।
तस्य ध्वंसात्सुरारेर्महितवपुषो लब्धमानावकाशः
पार्वत्या वामपादः शमयतु दुरितं दारुणं वः सदैव ॥ १०१॥
ल्लाङ्गूलेन प्रकोष्ठे वलयिनि पतिते तत्कृपाणे स्वपाणेः ।
शूले लोलाङ्घ्रिपातैर्ललितकरतलात्प्रच्युते दूरमुर्व्यां
सर्वाङ्गीणं लुलायं जयति चरणतश्चण्डिका चूर्णयन्ती ॥ १०२॥
