Goddess Kamakhya

श्री कामाख्या स्तोत्रं

(Shri Kamakhya Stotram)

From Tantra Chintamani

Also known as jaya kamesi camunde jaya bhutapaharini

The Shri Kamakhya Stotram is a powerful devotional hymn dedicated to Goddess Kamakhya, the presiding deity of the famous Kamakhya Temple in Assam. Representing the divine feminine energy and the culmination of Shakti, the Goddess is invoked here as Kameshwari, the fulfiller of desires. This stotra serves as a key text for devotees seeking protection, spiritual liberation, and the removal of negative influences. Chanting this hymn with devotion is believed to balance one's life force, grant mental peace, and bestow the grace of the Mother Goddess, ultimately leading the practitioner toward enlightenment and fulfillment.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

Reading depth
Lyrics
जय कामेशि चामुण्डे जय भूतापहारिणि ।
जय सर्वगते देवि कामेश्वरि नमोऽस्तु ते ॥ 1 ॥
विश्वमूर्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने ।
भीमरूपे शिवे विद्ये कामेश्वरि नमोऽस्तु ते ॥ 2 ॥
मालाजये जये जम्भे भूताक्षि क्षुभितेऽक्षये ।
महामाये महेशानि कामेश्वरि नमोऽस्तु ते ॥ 3 ॥
भीमाक्षि भीषणे देवि सर्वभूतक्षयङ्करि ।
कालि च विकरालि च कामेश्वरि नमोऽस्तु ते ॥ 4 ॥
कालि करालविक्रान्ते कामेश्वरि हरप्रिये ।
सर्वशास्त्रसारभूते कामेश्वरि नमोऽस्तु ते ॥ 5 ॥
कामरूपप्रदीपे च नीलकूटनिवासिनि ।
निशुम्भशुम्भमथनि कामेश्वरि नमोऽस्तु ते ॥ 6 ॥
कामाख्ये कामरूपस्थे कामेश्वरि हरिप्रिये ।
कामनां देहि मे नित्यं कामेश्वरि नमोऽस्तु ते ॥ 7 ॥
वपानाढ्यमहावक्त्रे तथा त्रिभुवनेश्वरि ।
महिषासुरवधे देवि कामेश्वरि नमोऽस्तु ते ॥ 8 ॥
छागतुष्टे महाभीमे कामाख्ये सुरवन्दिते ।
जय कामप्रदे तुष्टे कामेश्वरि नमोऽस्तु ते ॥ 9 ॥
भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः ।
अष्टम्यां च चतुर्दश्यामुपवासी नरोत्तमः ॥ 10 ॥
संवत्सरेण लभते राज्यं निष्कण्टकं पुनः ।
य इदं शृणुयाद्भक्त्या तव देवि समुद्भवम् ।
सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति ॥ 11 ॥
श्रीकामरूपेश्वरि भास्करप्रभेप्रकाशिताम्भोजनिभायतानने ।
सुरारिरक्षःस्तुतिपातनोत्सुकेत्रयीमये देवनुते नमामि ॥ 12 ॥
सितासिते रक्तपिशङ्गविग्रहेरूपाणि यस्याः प्रतिभान्ति तानि ।
विकाररूपा च विकल्पितानिशुभाशुभानामपि तां नमामि ॥ 13 ॥
कामरूपसमुद्भूते कामपीठावतंसके ।
विश्वाधारे महामाये कामेश्वरि नमोऽस्तु ते ॥ 14 ॥
अव्यक्तविग्रहे शान्ते सन्तते कामरूपिणि ।
कालगम्ये परे शान्ते कामेश्वरि नमोऽस्तु ते ॥ 15 ॥
या सुषुम्नान्तरालस्था चिन्त्यते ज्योतिरूपिणी ।
प्रणतोऽस्मि परां वीरां कामेश्वरि नमोऽस्तु ते ॥ 16 ॥
दंष्ट्राकरालवदने मुण्डमालोपशोभिते ।
सर्वतः सर्वगे देवि कामेश्वरि नमोऽस्तु ते ॥ 17 ॥
चामुण्डे च महाकालि कालि कपालहारिणी ।
पाशहस्ते दण्डहस्ते कामेश्वरि नमोऽस्तु ते ॥ 18 ॥
चामुण्डे कुलमालास्ये तीक्ष्णदंष्ट्रे महाबले ।
शवयानस्थिते देवि कामेश्वरि नमोऽस्तु ते ॥ 19 ॥
इति श्री कामाख्या स्तोत्रम् ।

Explore More