Goddess Chamunda

श्रीचामुण्डास्तोत्रम् (गरुड़ कृत)

(Shri Chamunda Stotram (Skanda Purana))

Also known as sri chamunda stotram (skanda purana) · shree chamunda stotram (skanda purana) · chamunda stotram (skanda purana)

A hymn to Chamunda with a frame that nothing else in the corpus shares, from the Reva Khanda of the Skanda Purana. Garuda performs a hundred divine years of austerity at Kanakhala and Shiva, pleased, asks what he wants; he asks to be Vishnu's mount and lord among the twice-born; Shiva says both are very hard to get and grants them anyway, making him Indra among birds. And then, with the boon in hand, Garuda goes and worships Chamunda — the goddess of the burning ground, surrounded by spirits, fond of fat and flesh. The verses he speaks are in a long metre with the refrain, may Charmamunda protect you, and they do not soften her: throat thin with hunger, mouth wet with fresh blood, seated on a corpse, dancing to her own damaru while the drums of the world's ending sound.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्रीचामुण्डास्तोत्रम् (स्कन्दपुराणे) ॥
॥ विनियोगः ॥
श्रीगणेशाय नमः । श्रीभैरवाय नमः । श्रीउमामहेश्वराभ्यां नमः ।
श्रीमार्कण्डेय उवाच-
ततो गच्छेन्महीपाल तीर्थं कनखलोत्तमम् ।
गरुडेन तपस्तप्तं पूजयित्वा महेश्वरम् ॥ १॥
दिव्यं वर्षशतं यावज्जातमात्रेण भारत ।
तपोजपैः कृशीभूतो दृष्टो देवेन शम्भुना ॥ २॥
ततस्तुष्टो महादेवो वैनतेयं मनोजवम् ।
उवाचपरमं वाक्यं विनतानन्दवर्धनम् ॥ ३॥
प्रसन्नस्ते महाभाग वरं वरय सुव्रत ।
दुर्लभं त्रिषु लोकेषु ददामि तव खेचर ॥ ४॥
गरुड उवाच-
इच्छामि वाहनं विष्णोर्द्विजेन्द्रत्वं सुरेश्वर ।
प्रसन्ने त्वयिमेसर्वम्भवत्विति मतिर्मम ॥ ५॥
श्रीमहेश उवाच-
दुर्लभः प्राणिनान्तातयोवरः प्रार्थितोऽनघ ।
देवदेवस्यवहनं द्विजेन्द्रत्वं सुदुर्ल्लभम् ॥ ६॥
नारायणोदरे सर्वं त्रैलोक्यं सचराचरम् ।
त्वया स कथमूह्यतेदेवदेवो जगद्गुरुः ॥ ७॥
तेनैव स्थापितश्चेन्द्रस्त्रैलोक्ये सचराचरे ।
कथमन्यस्य चेन्द्रत्वं भवतीति सुदुर्लभम् ॥ ८॥
तथापि ममवाक्येनवाहनन्त्वम्भविष्यसि ।
शङ्खचक्रगदापाणेर्वहतोऽपि जगत्त्रयम् ॥ ९॥
इन्द्रस्त्वं पक्षिणां मध्येभविष्यसिनसंशयः ।
इति दत्त्वावरन्तस्मान्तर्धानङ्गतोहरः ॥ १०॥
ततो गते महादेवेह्यरुणस्यानुजो नृप ।
आराधयामास तदा चामुण्डां मुण्डमण्डिताम् ॥ ११॥
श्मशानवासिनीं देवीं बहुभूतसमन्विताम् ।
योगिनीं योगसंसिद्धां वसामांसासवप्रियाम् ॥ १२॥
ध्यातमात्रा तु तेनैवप्रत्यक्षाह्यभवत्तदा ।
जालन्धरे च या सिद्धिः कौलीने उड्डिशे परे ॥ १३॥
समग्रा सा भृगुक्षेत्रे सिद्धक्षेत्रे तु संस्थिता ।
चामुण्डा तत्र सा देवी सिद्धक्षेत्रे व्यवस्थिता ॥ १४॥
संस्तुता ऋषिभिर्द्देवैर्योगक्षेमार्थसिद्धये ।
विनताऽऽनन्दजननस्तत्र तां योगिनीं नृप ।
भक्त्या प्रसादयामास स्तोत्रैर्वैदिकलौकिकैः ॥ १५॥
॥ गरुड उवाच(स्तोत्रम्) ॥
या सा क्षुत्क्षामकण्ठा नवरुधिरमुखा प्रेतपद्मासनस्था
भूतानां वृन्दवृन्दैः पितृवननिलया क्रीडते शूलहस्ता ।
शस्त्रध्वस्तप्रवीरव्रजरुधिरगलन्मुण्डमालोत्तरीया
देवी श्रीवीरमाता विमलशशिनिभा पातु वश्चर्ममुण्डा ॥ १६॥
या सा क्षुत्क्षामकण्ठा विकृतभयकरी त्रासिनी दुष्कृतानां
मुञ्चज्ज्वालाकलापैर्द्दशनकसमसैः खादति प्रेतमांसम् ।
पिङ्गोद् र्ध्वोद् बद्धजूटारविसदृशतनुर्व्याघ्रचर्मोत्तरीया
दैत्येन्द्रैर्यक्षरक्षोऽरसुरनमिता पातु वश्चर्ममुण्डा ॥ १७॥
या सा दोर्द्दण्डचण्डैर्डमरुरणरणाटोपटङ्कारघण्टैः
कल्पान्तोत्पातवाताहतपटुपटहैर्वल्गते भूतमाता ।
क्षुत्क्षामा शुष्ककुक्षिः खरतरनखरैः क्षोदति प्रेतमांसं
मुञ्चन्ती चाट्टहासं घुरघुरितरवा पातु वश्चर्ममुण्डा ॥ १८॥
या सा निम्नोदराभा विकृतभवभयत्रासिनी शूलहस्ता
चामुण्डा मुण्डघाता रणरुणितरणझल्लरीनादरम्या ।
त्रैलोक्यं त्रासयन्ति ककहकहकहैर्घोररावैरनेकैर्नृत्यन्ती
मातृमध्ये पितृवननिलया पातु वश्चर्ममुण्डा ॥ १९॥
या धत्ते विश्वमखिलं निजांशेन महोज्ज्वला ।
कनकप्रसवे लीना पातु मां कनकेश्वरी ॥ २०॥
हिमाद्रिसम्भवा देवी दयादर्शितविग्रहा ।
शिवप्रिया शिवे सक्ता पातु मां कनकेश्वरी ॥ २१॥
अनादिजगदादिर्या रत्नगर्भा वसुप्रिया ।
रथाङ्गपाणिना पद्मा पातु मां कनकेश्वरी ॥ २२॥
सावित्री या च गायत्री मृडानी वागथेन्दिरा ।
स्मर्तृणां या सुखं दत्ते पातु मां कनकेश्वरी ॥ २३॥
सौम्यासौम्यैः सदा रूपैः सृजत्यवति या जगत् ।
परा शक्तिः परा बुद्धिः पातु मां कनकेश्वरी ॥ २४॥
ब्रह्मणः सर्गसमये सृज्यशक्तिः परा तु या ।
जगन्माया जगद्धात्री पातु मां कनकेश्वरी ॥ २५॥
विश्वस्य पालने विष्णोर्या शक्तिः परिपालिता ।
मदनोन्मादिनी मुख्या पातु मां कनकेश्वरी ॥ २६॥
विश्वसंलयने मुख्या या रुद्रेण समाश्रिता ।
रौद्री शक्तिः शिवाऽनन्ता पातु मां कनकेश्वरी ॥ २७॥
कैलाससानुसंरूढ कनकप्रसवेशया ।
भस्मकाभिहृता पूर्वं पातु मां कनकेश्वरी ॥ २८॥
पतिप्रभावमिच्छन्ती त्रस्यन्ती या विना पतिम् ।
अबला त्वेकभावा च पातु मां कनकेश्वरी ॥ २९॥
विश्वसंरक्षणे सक्ता रक्षिता कनकेन या ।
आ ब्रह्मस्तम्बजननी पातु मां कनकेश्वरी ॥ ३०॥
ब्रह्मविष्ण्वीश्वराः शक्त्या शरीरग्रहणं यया ।
प्रापिताः प्रथमा शक्तिः पातु मां कनकेश्वरी ॥ ३१॥
॥ फलश्रुतिः ॥
श्रुत्वा तु गरुडेनोक्तं देवीवृत्तचतुष्टयम् ।
प्रसन्ना सम्मुखी भूत्वा वाक्यमेतदुवाच ह ॥ ३२॥
श्रीचामुण्डोवाच -
प्रसन्ना ते महासत्त्व वरं वरय वाञ्छितम् ।
ददामि ते द्विजश्रेष्ठ यत्ते मनसि रोचते ॥ ३३॥
गरुड उवाच-
अजरश्चामरश्चैव अधृष्यश्च सुरासुरैः ।
तव प्रसादाच्चैवान्यैरजेयश्च भवाम्यहम् ॥ ३४॥
त्वयाचाऽत्र सदा देवि स्थातव्यं तीर्थसन्निधौ ।
मार्कण्डेय उवाच-
एवं भविष्यतीत्युक्त्वा देवी देवैरभिष्टुता ॥ ३५॥
जगामाकाशमाविश्य भूतसङ्घसमन्विता ।
यदा लक्ष्म्या नृपश्रेष्ठ स्थापितं पुरमुत्तमम् ॥ ३६॥
अनुमान्य तदा देवीं कृतं तस्यां समर्पितम् ।
लक्ष्मीरुवाच -
रक्षणाय मया देवि योगक्षेमार्थसिद्धये ॥ ३७॥
मातृवत्प्रतिपाल्यं ते सदा देवि पुरं मम ।
गरुडोऽपि ततः स्नात्वा सम्पूज्य कनकेश्वरीम् ॥ ३८॥
तीर्थं तत्रैव संस्थाप्य जगामाकाशमुत्तमम् ।
तत्र तीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः ॥ ३९॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।
गन्धपुष्पादिभिर्यस्तु पूजयेत्कनकेश्वरीम् ॥ ४०॥
तस्य योगैश्वर्यसिद्धिर्योगपीठेषु जायते ।
मृतो योगेश्वरं लोकं जयशब्दादिमङ्गलैः ।
स गच्छेन्नाऽत्र सन्देहो योगिनीगणसंयुतः ॥ ४१॥
॥ इति श्रीस्कान्दे रेवाखण्डे कनखलेश्वरतीर्थमाहात्म्ये चामुण्डा स्तोत्रम् सम्पूर्णम् ॥

Explore More