Lord Shiva

श्री गौरीशाष्टकम् (चिंतामणि कृत)

(Shri Gaurishashtakam)

Chintamani

Also known as gaurisha ashtakam · bhaja gaurisham · chintamani gaurisha ashtakam

Eight verses in the manner of the Bhaja Govindam and openly modelled on it — the refrain is an imperative repeated three times a line, worship Gauri's lord, worship Gauri's lord, worship Gauri's lord, slow-witted one. The first verse gives the reason in the same breath: crossing the hard-to-cross ocean of water-born becoming, the feet of Shiva the remover are to be meditated on in the mind; there is no other means, truly, truly, none. The second is the renunciate's list, and it spares nothing: wife and children, land, wealth, body, house — all of it impermanent; consider the whole of it without substance, a distortion of the womb, a thing thought up in a dream. The closing verse names Chintamani as its author and promises absorption in brahman to whoever reads it daily.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्री गौरीशाष्टकम् ॥
भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते ।
जलभवदुस्तरजलधिसुतरणं ध्येयं चित्ते शिवहरचरणम् ।
अन्योपायं न हि न हि सत्यं गेयं शङ्कर शङ्कर नित्यम् ।
भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते ॥ १ ॥
दारापत्यं क्षेत्रं वित्तं देहं गेहं सर्वमनित्यम् ।
इति परिभावय सर्वमसारं गर्भविकृत्या स्वप्नविचारम् ।
भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते ॥ २ ॥
मलवैचित्ये पुनरावृत्तिः पुनरपि जननीजठरोत्पत्तिः ।
पुनरप्याशाकुलितं जठरं किं नहि मुञ्चसि कथयेश्चित्तम् ।
भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते ॥ ३ ॥
मायाकल्पितमैन्द्रं जालं नहि तत्सत्यं दृष्टिविकारम् ।
ज्ञाते तत्त्वे सर्वमसारं माकुरु मा कुरु विषयविचारम् ।
भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते ॥ ४ ॥
रज्जौ सर्पभ्रमणा-रोपस्तद्वद्ब्रह्मणि जगदारोपः ।
मिथ्यामायामोहविकारं मनसि विचारय बारम्बारम् ।
भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते ॥ ५ ॥
अध्वरकोटीगङ्गागमनं कुरुते योगं चेन्द्रियदमनम् ।
ज्ञानविहीनः सर्वमतेन न भवति मुक्तो जन्मशतेन ।
भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते ॥ ६ ॥
सोऽहं हंसो ब्रह्मैवाहं शुद्धानन्दस्तत्त्वपरोऽहम् ।
अद्वैतोऽहं सङ्गविहीने चेन्द्रिय आत्मनि निखिले लीने ।
भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते ॥ ७ ॥
शङ्करकिंङ्कर मा कुरु चिन्तां चिन्तामणिना विरचितमेतत् ।
यः सद्भक्त्या पठति हि नित्यं ब्रह्मणि लीनो भवति हि सत्यम् ।
भज गौरीशं भज गौरीशं गौरीशं भज मन्दमते ॥ ८ ॥

Explore More