र्न रूपं न धर्मं यशो वा समित्रम् ।
अधर्मं न कार्यं न दैन्यं दिवं वा
मतिर्मे तु भूयात् पदे शारदायाः ॥ १ ॥
त्वनीचे सुनीचे समाना विधात्री ।
जले वा भुवि त्वं प्रजानां शरण्या
नमस्ते नमस्ते पदे शारदायाः ॥ २ ॥
यथा नाम तेऽहं जपामि सचिन्त्यः ।
अपूर्वान् गुणांस्ते स्मरामि प्रहृष्ट-
स्तथा शारदा त्वं विधेहि प्रसन्ना ॥ ३ ॥
त्विदानीं प्रबोधो न जातस्त्रिनेत्रे ! ।
यदा शारदा त्वं ममासि प्रपद्या
भयं किं यमात् स्यान्नमः शारदायै ॥ ४ ॥
यतः शारदाम्बागताऽस्यां धरित्र्याम् ।
विचिन्त्य नरास्तां लीलां पवित्रा
ममर्त्या भवन्त्वप्रमत्ता भवन्तः ॥ ५ ॥
ह्यसौ राधिका वा सकृष्णा नमस्या ।
सती सा सशम्भुर्यथाराधनीया
तथा शारदा मे सरामासकृष्णा ॥ ६ ॥
प्रचेतास्त्वमग्निर्विराझत्मनास्याः ।
भयानां भयं त्वं करालापि काली
धुनीते मनो मे कथं त्वाऽभिवन्दे ॥ ७ ॥
विषाक्ते द्वितीये गतिर्यो भवाब्धौ ।
असङ्ख्यानि जन्मानि सन्त्वम्बिके मे
सदा चेत् स्मरामि त्वदीये पदाब्जे ॥ ८ ॥
शारदे शारदे मातः जयानन्दमयीति च ॥
