Goddess Kali

श्रीकामकलाकालीसहस्रनामावलिः

(Shri Kamakala Kali Sahasranamavali)

From Mahakala Samhita

Also known as sri kamakala kali sahasranamavali · shree kamakala kali sahasranamavali · kamakala kali sahasranamavali

A thousand names of Kamakala Kali from the twelfth chapter of the Kamakala section of the Mahakala Samhita, set out one to a salutation. The viniyoga before them is unusually full, naming Tripuraghna as the seer and giving four separate elements where most such texts give three — klim for the seed, sphrom for the power, hum for the pin, and kshraum for the principle. The list opens on a long run in ka: Kalaratri, Kapalini, Katyayani, Kalyani, she whose very form is time, the gaping one — then fierce of form, greatly terrible, of dreadful cry, the maker of fear — and then, with no turn at all, the giver of prosperity, the ender of fear, and the loosener of the bonds of becoming.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

#of 1004

॥ विनियोगः ॥

ॐ अस्य कामकलाकालीसहस्रनामस्तोत्रस्य श्रीत्रिपुरघ्नऋषिः ।
अनुष्टुप् छन्दः । त्रिजगन्मयरूपिणी भगवती श्रीकामकलाकाली देवता ।
क्लीं बीजम् । स्फ्रों शक्तिः । हुं कीलकं । क्ष्रौं तत्त्वं ।
श्रीकामकलाकालीसहस्रनामस्तोत्रपाठे जपे विनियोगः । ॐ तत्सत् ॥

॥ नामावलिः ॥

ॐ क्लीं कामकलाकाल्यै नमः ।
ॐ कालरात्र्यै नमः ।
ॐ कपालिन्यै नमः ।
ॐ कात्यायन्यै नमः ।
ॐ कल्याण्यै नमः ।
ॐ कालाकारायै नमः ।
ॐ करालिन्यै नमः ।
ॐ उग्रमूर्त्यै नमः ।
ॐ महाभीमायै नमः ।
ॐ घोररावायै नमः ।
ॐ भयङ्करायै नमः ।
ॐ भूतिदायै नमः ।
ॐ भयहन्त्र्यै नमः ।
ॐ भवबन्धविमोचन्यै नमः ।
ॐ भव्यायै नमः ।
ॐ भवान्यै नमः ।
ॐ भोगाढ्यायै नमः ।
ॐ भुजङ्गपतिभूषणायै नमः ।
ॐ महामायायै नमः ।
ॐ जगद्धात्र्यै नमः ।
ॐ पावन्यै नमः ।
ॐ परमेश्वर्यै नमः ।
ॐ योगमात्रे नमः ।
ॐ योगगम्यायै नमः ।
ॐ योगिन्यै नमः ।
ॐ योगिपूजितायै नमः ।
ॐ गौर्यै नमः ।
ॐ दुर्गायै नमः ।
ॐ कालिकायै नमः ।
ॐ महाकल्पान्तनर्तक्यै नमः ।
ॐ अव्ययायै नमः ।
ॐ जगदाद्यै नमः ।
ॐ विधात्र्यै नमः ।
ॐ कालमर्द्दिन्यै नमः ।
ॐ नित्यायै नमः ।
ॐ वरेण्यायै नमः ।
ॐ विमलायै नमः ।
ॐ देवाराध्यायै नमः ।
ॐ अमितप्रभायै नमः ।
ॐ भारुण्डायै नमः ।
ॐ कोटर्यै नमः ।
ॐ शुद्धायै नमः ।
ॐ चञ्चलायै नमः ।
ॐ चारुहासिन्यै नमः ।
ॐ अग्राह्यायै नमः ।
ॐ अतीन्द्रियायै नमः ।
ॐ अगोत्रायै नमः ।
ॐ चर्चरायै नमः ।
ॐ ऊर्द्ध्वशिरोरुहायै नमः ।
ॐ कामुक्यै नमः ।
ॐ कमनीयायै नमः ।
ॐ श्रीकण्ठमहिष्यै नमः ।
ॐ शिवायै नमः ।
ॐ मनोहरायै नमः ।
ॐ माननीयायै नमः ।
ॐ मतिदायै नमः ।
ॐ मणिभूषणायै नमः ।
ॐ श्मशाननिलयायै नमः ।
ॐ रौद्रायै नमः ।
ॐ मुक्तकेश्यै नमः ।
ॐ अट्टहासिन्यै नमः ।
ॐ चामुण्डायै नमः ।
ॐ चण्डिकायै नमः ।
ॐ चण्ड्यै नमः ।
ॐ चार्वङ्ग्यै नमः ।
ॐ चरितोज्ज्वलायै नमः ।
ॐ घोराननायै नमः ।
ॐ धूम्रशिखायै नमः ।
ॐ कम्पनायै नमः ।
ॐ कम्पिताननायै नमः ।
ॐ वेपमानतनवे नमः ।
ॐ भिदायै नमः ।
ॐ निर्भयायै नमः ।
ॐ बाहुशालिन्यै नमः ।
ॐ उल्मुकाक्ष्यै नमः ।
ॐ सर्पकर्ण्यै नमः ।
ॐ विशोकायै नमः ।
ॐ गिरिनन्दिन्यै नमः ।
ॐ ज्योत्स्नामुख्यै नमः ।
ॐ हास्यपरायै नमः ।
ॐ लिङ्गायै नमः ।
ॐ लिङ्गधरायै नमः ।
ॐ सत्यै नमः ।
ॐ अविकारायै नमः ।
ॐ महाचित्रायै नमः ।
ॐ चन्द्रवक्त्रायै नमः ।
ॐ मनोजवायै नमः ।
ॐ अदर्शनायै नमः ।
ॐ पापहरायै नमः ।
ॐ श्यामलायै नमः ।
ॐ मुण्डमेखलायै नमः ।
ॐ मुण्डावतंसिन्यै नमः ।
ॐ नीलायै नमः ।
ॐ प्रपन्नानन्ददायिन्यै नमः ।
ॐ लघुस्तन्यै नमः ।
ॐ लम्बकुचायै नमः ।
ॐ घूर्णमानायै नमः ।
ॐ हराङ्गनायै नमः ।
ॐ विश्वावासायै नमः ।
ॐ शान्तिकर्यै नमः ।
ॐ दीर्घकेश्यै नमः ।
ॐ अरिखण्डिन्यै नमः ।
ॐ रुचिरायै नमः ।
ॐ सुन्दर्यै नमः ।
ॐ कम्रायै नमः ।
ॐ मदोन्मत्तायै नमः ।
ॐ मदोत्कटायै नमः ।
ॐ अयोमुख्यै नमः ।
ॐ वह्निमुख्यै नमः ।
ॐ क्रोधनायै नमः ।
ॐ अभयदायै नमः ।
ॐ ईश्वर्यै नमः ।
ॐ कुडम्बिकायै नमः ।
ॐ साहसिन्यै नमः ।
ॐ खड्गक्यै नमः ।
ॐ रक्तलेहिन्यै नमः ।
ॐ विदारिण्यै नमः ।
ॐ पानरतायै नमः ।
ॐ रुद्राण्यै नमः ।
ॐ मुण्डमालिन्यै नमः ।
ॐ अनादिनिधनायै नमः ।
ॐ देव्यै नमः ।
ॐ दुर्न्निरीक्ष्यायै नमः ।
ॐ दिगम्बरायै नमः ।
ॐ विद्युज्जिह्वायै नमः ।
ॐ महादंष्ट्रायै नमः ।
ॐ वज्रतीक्ष्णायै नमः ।
ॐ महास्वनायै नमः ।
ॐ उदयार्कसमानाक्ष्यै नमः ।
ॐ विन्ध्यशैल्यै नमः ।
ॐ समाकृत्यै नमः ।
ॐ नीलोत्पलदलश्यामायै नमः ।
ॐ नागेन्द्राष्टकभूषणायै नमः ।
ॐ अग्निज्वालकृतावासायै नमः ।
ॐ फेत्कारिण्यै नमः ।
ॐ अहिकुण्डलायै नमः ।
ॐ पापघ्न्यै नमः ।
ॐ पालिन्यै नमः ।
ॐ पद्मायै नमः ।
ॐ पूण्यायै नमः ।
ॐ पुण्यप्रदायै नमः ।
ॐ परायै नमः ।
ॐ कल्पान्ताम्भोदनिर्घोषायै नमः ।
ॐ सहस्रार्कसमप्रभायै नमः ।
ॐ सहस्रप्रेतराक्रोधायै नमः ।
ॐ सहस्रेशपराक्रमायै नमः ।
ॐ सहस्रधनदैश्वर्यायै नमः ।
ॐ सहस्राङ्घ्रिकराम्बिकायै नमः ।
ॐ सहस्रकालदुष्प्रेक्ष्यायै नमः ।
ॐ सहस्रेन्द्रियसञ्चयायै नमः ।
ॐ सहस्रभूमिसदनायै नमः ।
ॐ सहस्राकाशविग्रहायै नमः ।
ॐ सहस्रचन्द्रप्रतिमायै नमः ।
ॐ सहस्रग्रहचारिण्यै नमः ।
ॐ सहस्ररुद्रतेजस्कायै नमः ।
ॐ सहस्रब्रह्मसृष्टिकृते नमः ।
ॐ सहस्रवायुवेगायै नमः ।
ॐ सहस्रफणकुण्डलायै नमः ।
ॐ सहस्रयन्त्रमथिन्यै नमः ।
ॐ सहस्रोदधिसुस्थिरायै नमः ।
ॐ सहस्रबुद्धकरुणायै नमः ।
ॐ महाभागायै नमः ।
ॐ तपस्विन्यै नमः ।
ॐ त्रैलोक्यमोहिन्यै नमः ।
ॐ सर्वभूतदेववशङ्कर्यै नमः ।
ॐ सुस्निग्धहृदयायै नमः ।
ॐ घण्टाकर्णायै नमः ।
ॐ व्योमचारिण्यै नमः ।
ॐ शङ्खिन्यै नमः ।
ॐ चित्रिण्यै नमः ।
ॐ ईशान्यै नमः ।
ॐ कालसङ्कर्षिण्यै नमः ।
ॐ जयायै नमः ।
ॐ अपराजितायै नमः ।
ॐ विजयायै नमः ।
ॐ कमलायै नमः ।
ॐ कमलाप्रदायै नमः ।
ॐ जनयित्र्यै नमः ।
ॐ जगद्योनिहेतुरूपायै नमः ।
ॐ चिदात्मिकायै नमः ।
ॐ अप्रमेयायै नमः ।
ॐ दुराधर्षायै नमः ।
ॐ ध्येयायै नमः ।
ॐ स्वच्छन्दचारिण्यै नमः ।
ॐ शातोदर्यै नमः ।
ॐ शाम्भविन्यै नमः ।
ॐ पूज्यायै नमः ।
ॐ मानोन्नतायै नमः ।
ॐ अमलायै नमः ।
ॐ ओङ्काररूपिण्यै नमः ।
ॐ ताम्रायै नमः ।
ॐ बालार्कसमतारकायै नमः ।
ॐ चलज्जिह्वायै नमः ।
ॐ भीमाक्ष्यै नमः ।
ॐ महाभैरवनादिन्यै नमः ।
ॐ सात्त्विक्यै नमः ।
ॐ राजस्यै नमः ।
ॐ तामस्यै नमः ।
ॐ घर्घरायै नमः ।
ॐ अचलायै नमः ।
ॐ माहेश्वर्यै नमः ।
ॐ ब्राह्म्यै नमः ।
ॐ कौमार्यै नमः ।
ॐ ईश्वरायै नमः ।
ॐ सौपर्ण्यै नमः ।
ॐ वायव्यै नमः ।
ॐ इन्द्र्यै नमः ।
ॐ सावित्र्यै नमः ।
ॐ नैरृत्यै नमः ।
ॐ कलायै नमः ।
ॐ वारुण्यै नमः ।
ॐ शिवदूत्यै नमः ।
ॐ सौर्यै नमः ।
ॐ सौम्यायै नमः ।
ॐ प्रभावत्यै नमः ।
ॐ वाराह्यै नमः ।
ॐ नारसिंह्यै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ ललितायै नमः ।
ॐ स्वरायै नमः ।
ॐ मैत्र्यार्यम्न्यै नमः ।
ॐ पौष्ण्यै नमः ।
ॐ त्वाष्ट्र्यै नमः ।
ॐ वासव्यै नमः ।
ॐ उमारत्यै नमः ।
ॐ राक्षस्यै नमः ।
ॐ पावन्यै नमः ।
ॐ रौद्र्यै नमः ।
ॐ दास्र्यै नमः ।
ॐ रोदस्यै नमः ।
ॐ उदुम्बर्यै नमः ।
ॐ सुभगायै नमः ।
ॐ दुर्भगायै नमः ।
ॐ दीनायै नमः ।
ॐ चञ्चुरीकायै नमः ।
ॐ यशस्विन्यै नमः ।
ॐ महानन्दायै नमः ।
ॐ भगानन्दायै नमः ।
ॐ पिछिलायै नमः ।
ॐ भगमालिन्यै नमः ।
ॐ अरुणायै नमः ।
ॐ रेवत्यै नमः ।
ॐ रक्तायै नमः ।
ॐ शकुन्यै नमः ।
ॐ श्येनतुण्डिकायै नमः ।
ॐ सुरभ्यै नमः ।
ॐ नन्दिन्यै नमः ।
ॐ भद्रायै नमः ।
ॐ बलायै नमः ।
ॐ अतिबलायै नमः ।
ॐ अमलायै नमः ।
ॐ उलुप्यै नमः ।
ॐ लम्बिकायै नमः ।
ॐ खेटायै नमः ।
ॐ लिलेहानायै नमः ।
ॐ अन्त्रमालिन्यै नमः ।
ॐ वैनायिक्यै नमः ।
ॐ वेताल्यै नमः ।
ॐ त्रिजटायै नमः ।
ॐ भ्रुकुट्यै नमः ।
ॐ मत्यै नमः ।
ॐ कुमार्यै नमः ।
ॐ युवत्यै नमः ।
ॐ प्रौढायै नमः ।
ॐ विदग्धायै नमः ।
ॐ घस्मरायै नमः ।
ॐ जरत्यै नमः ।
ॐ रोचनायै नमः ।
ॐ भीमायै नमः ।
ॐ दोलमालायै नमः ।
ॐ पिचिण्डिलायै नमः ।
ॐ अलम्बाक्ष्यै नमः ।
ॐ कुम्भकर्ण्यै नमः ।
ॐ कालकर्ण्यै नमः ।
ॐ महासुर्यै नमः ।
ॐ घण्टारवायै नमः ।
ॐ गोकर्ण्यै नमः ।
ॐ काकजङ्घायै नमः ।
ॐ मूषिकायै नमः ।
ॐ महाहनवे नमः ।
ॐ महाग्रीवायै नमः ।
ॐ लोहितायै नमः ।
ॐ लोहिताशन्यै नमः ।
ॐ कीर्त्यै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ लक्ष्म्यै नमः ।
ॐ श्रद्धायै नमः ।
ॐ बुद्ध्यै नमः ।
ॐ क्रियायै नमः ।
ॐ स्थित्यै नमः ।
ॐ चेतनायै नमः ।
ॐ विष्णुमायायै नमः ।
ॐ गुणातीतायै नमः ।
ॐ निरञ्जनायै नमः ।
ॐ निद्रायै नमः ।
ॐ तन्द्रायै नमः ।
ॐ स्मितायै नमः ।
ॐ छायायै नमः ।
ॐ जृम्भायै नमः ।
ॐ क्षुदे नमः ।
ॐ अशनायितायै नमः ।
ॐ तृष्णायै नमः ।
ॐ क्षुधायै नमः ।
ॐ पिपासायै नमः ।
ॐ लालसायै नमः ।
ॐ क्षान्त्यै नमः ।
ॐ विद्यायै नमः ।
ॐ प्रजायै नमः ।
ॐ स्मृत्यै नमः ।
ॐ कान्त्यै नमः ।
ॐ इच्छायै नमः ।
ॐ मेधायै नमः ।
ॐ प्रभायै नमः ।
ॐ चित्यै नमः ।
ॐ धरित्र्यै नमः ।
ॐ धरण्यै नमः ।
ॐ धन्यायै नमः ।
ॐ धोरण्यै नमः ।
ॐ धर्मसन्तत्यै नमः ।
ॐ हालाप्रियायै नमः ।
ॐ हरारात्यै नमः ।
ॐ हारिण्यै नमः ।
ॐ हरिणेक्षणायै नमः ।
ॐ चण्डयोगेश्वर्यै नमः ।
ॐ सिद्धिकराल्यै नमः ।
ॐ परिडामर्यै नमः ।
ॐ जगदान्यायै नमः ।
ॐ जनानन्दायै नमः ।
ॐ नित्यानन्दमय्यै नमः ।
ॐ स्थिरायै नमः ।
ॐ हिरण्यगर्भायै नमः ।
ॐ कुण्डलिन्यै नमः ।
ॐ ज्ञानाय नमः ।
ॐ धैर्याय नमः ।
ॐ खेचर्यै नमः ।
ॐ नगात्मजायै नमः ।
ॐ नागहारायै नमः ।
ॐ जटाभारायै नमः ।
ॐ प्रतर्दिन्यै नमः ।
ॐ खड्गिन्यै नमः ।
ॐ शूलिन्यै नमः ।
ॐ चक्रवत्यै नमः ।
ॐ बाणवत्यै नमः ।
ॐ क्षित्यै नमः ।
ॐ घृणये नमः ।
ॐ धर्त्र्यै नमः ।
ॐ नालिकायै नमः ।
ॐ कर्त्र्यै नमः ।
ॐ मत्यक्षमालिन्यै नमः ।
ॐ पाशिन्यै नमः ।
ॐ पशुहस्तायै नमः ।
ॐ नागहस्तायै नमः ।
ॐ धनुर्धरायै नमः ।
ॐ महामुद्गरहस्तायै नमः ।
ॐ शिवापोतधरायै नमः ।
ॐ नारखर्परिण्यै नमः ।
ॐ लम्बत्कचमुण्डप्रधारिण्यै नमः ।
ॐ पद्मावत्यै नमः ।
ॐ अन्नपूर्णायै नमः ।
ॐ महालक्ष्म्यै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ दुर्गायै नमः ।
ॐ विजयायै नमः ।
ॐ घोरायै नमः ।
ॐ महिषमर्द्दिन्यै नमः ।
ॐ धनलक्ष्म्यै नमः ।
ॐ जयप्रदायै नमः ।
ॐ अश्वारूढायै नमः ।
ॐ जयभैरव्यै नमः ।
ॐ शूलिन्यै नमः ।
ॐ राजमातङ्ग्यै नमः ।
ॐ राजराजेश्वर्यै नमः ।
ॐ त्रिपुटायै नमः ।
ॐ उच्छिष्टचाण्डालिन्यै नमः ।
ॐ अघोरायै नमः ।
ॐ त्वरितायै नमः ।
ॐ राज्यलक्ष्म्यै नमः ।
ॐ जयायै नमः ।
ॐ महाचण्डयोगेश्वर्यै नमः ।
ॐ गुह्यायै नमः ।
ॐ महाभैरव्यै नमः ।
ॐ विश्वलक्ष्म्यै नमः ।
ॐ अरुन्धत्यै नमः ।
ॐ यन्त्रप्रमथिन्यै नमः ।
ॐ चण्डयोगेश्वर्यै नमः ।
ॐ अलम्बुषायै नमः ।
ॐ किरात्यै नमः ।
ॐ महाचण्डभैरव्यै नमः ।
ॐ कल्पवल्लर्यै नमः ।
ॐ त्रैलोक्यविजयायै नमः ।
ॐ सम्पत्प्रदायै नमः ।
ॐ मन्थानभैरव्यै नमः ।
ॐ महामन्त्रेश्वर्यै नमः ।
ॐ वज्रप्रस्तारिण्यै नमः ।
ॐ अङ्गचर्पटायै नमः ।
ॐ जयलक्ष्म्यै नमः ।
ॐ चण्डरूपायै नमः ।
ॐ जलेश्वर्यै नमः ।
ॐ कामदायिन्यै नमः ।
ॐ स्वर्णकूटेश्वर्यै नमः ।
ॐ रुण्डायै नमः ।
ॐ मर्मर्यै नमः ।
ॐ बुद्धिवर्द्धिन्यै नमः ।
ॐ वार्त्ताल्यै नमः ।
ॐ चण्डवार्त्ताल्यै नमः ।
ॐ जयवार्त्तालिकायै नमः ।
ॐ उग्रचण्डायै नमः ।
ॐ स्मशानोग्रायै नमः ।
ॐ चण्डायै नमः ।
ॐ रुद्रचण्डिकायै नमः ।
ॐ अतिचण्डायै नमः ।
ॐ चण्डवत्यै नमः ।
ॐ प्रचण्डायै नमः ।
ॐ चण्डनायिकायै नमः ।
ॐ चैतन्यभैरव्यै नमः ।
ॐ कृष्णायै नमः ।
ॐ मण्डल्यै नमः ।
ॐ तुम्बुरेश्वर्यै नमः ।
ॐ वाग्वादिन्यै नमः ।
ॐ मुण्डमधुमत्यै नमः ।
ॐ अनर्घ्यायै नमः ।
ॐ पिशाचिन्यै नमः ।
ॐ मञ्जीरायै नमः ।
ॐ रोहिण्यै नमः ।
ॐ कुल्यायै नमः ।
ॐ तुङ्गायै नमः ।
ॐ पूर्णेश्वर्यै नमः ।
ॐ पर्णेश्वर्यै नमः ।
ॐ वरायै नमः ।
ॐ विशालायै नमः ।
ॐ रक्तचामुण्डायै नमः ।
ॐ अघोरायै नमः ।
ॐ चण्डवारुण्यै नमः ।
ॐ धनदायै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ वागीश्वर्यै नमः ।
ॐ जयमङ्गलायै नमः ।
ॐ दैगम्बर्यै नमः ।
ॐ कुञ्जिकायै नमः ।
ॐ कुडुक्कायै नमः ।
ॐ कालभैरव्यै नमः ।
ॐ कुक्कुट्यै नमः ।
ॐ सङ्कटायै नमः ।
ॐ वीरायै नमः ।
ॐ कर्पटायै नमः ।
ॐ भ्रमराम्बिकायै नमः ।
ॐ महार्णवेश्वर्यै नमः ।
ॐ भोगवत्यै नमः ।
ॐ लङ्केश्वर्यै नमः ।
ॐ पुलिन्द्यै नमः ।
ॐ शबर्यै नमः ।
ॐ म्लेच्छ्यै नमः ।
ॐ पिङ्गलायै नमः ।
ॐ शबरेश्वर्यै नमः ।
ॐ मोहिन्यै नमः ।
ॐ सिद्धिलक्ष्म्यै नमः ।
ॐ बालायै नमः ।
ॐ त्रिपुरसुन्दर्यै नमः ।
ॐ उग्रतारायै नमः ।
ॐ एकजटायै नमः ।
ॐ महानीलसरस्वत्यै नमः ।
ॐ त्रिकण्टक्यै नमः ।
ॐ छिन्नमस्तायै नमः ।
ॐ महिषघ्न्यै नमः ।
ॐ जयावहायै नमः ।
ॐ हरसिद्धायै नमः ।
ॐ अनङ्गमालायै नमः ।
ॐ फेत्कार्यै नमः ।
ॐ लवणेश्वर्यै नमः ।
ॐ चण्डेश्वर्यै नमः ।
ॐ नाकुल्यै नमः ।
ॐ हयग्रीवेश्वर्यै नमः ।
ॐ कालिन्द्यै नमः ।
ॐ वज्रवाराह्यै नमः ।
ॐ महानीलपताकिकायै नमः ।
ॐ हंसेश्वर्यै नमः ।
ॐ मोक्षलक्ष्म्यै नमः ।
ॐ भूतिन्यै नमः ।
ॐ जातरेतसायै नमः ।
ॐ शातकर्णायै नमः ।
ॐ महानीलायै नमः ।
ॐ वामायै नमः ।
ॐ गुह्येश्वर्यै नमः ।
ॐ भ्रम्यै नमः ।
ॐ एकायै नमः ।
ॐ अनंशायै नमः ।
ॐ अभयायै नमः ।
ॐ तार्क्ष्यै नमः ।
ॐ बाभ्रव्यै नमः ।
ॐ डामर्यै नमः ।
ॐ कोरङ्ग्यै नमः ।
ॐ चर्चिकायै नमः ।
ॐ विन्नायै नमः ।
ॐ संशिकायै नमः ।
ॐ ब्रह्मवादिन्यै नमः ।
ॐ त्रिकालवेदिन्यै नमः ।
ॐ नीललोहितायै नमः ।
ॐ रक्तदन्तिकायै नमः ।
ॐ क्षेमङ्कर्यै नमः ।
ॐ विश्वरूपायै नमः ।
ॐ कामाख्यायै नमः ।
ॐ कुलकुट्टन्यै नमः ।
ॐ कामाङ्कुशायै नमः ।
ॐ वेशिन्यै नमः ।
ॐ मायूर्यै नमः ।
ॐ कुलेश्वर्यै नमः ।
ॐ इभाक्ष्यै नमः ।
ॐ घोणक्यै नमः ।
ॐ शार्ङ्ग्यै नमः ।
ॐ भीमायै नमः ।
ॐ देव्यै नमः ।
ॐ वरप्रदायै नमः ।
ॐ धूमावत्यै नमः ।
ॐ महामार्यै नमः ।
ॐ मङ्गलायै नमः ।
ॐ हाटकेश्वर्यै नमः ।
ॐ किरात्यै नमः ।
ॐ शक्तिसौपर्ण्यै नमः ।
ॐ बान्धव्यै नमः ।
ॐ चण्डखेचर्यै नमः ।
ॐ निस्तन्द्रायै नमः ।
ॐ भवभूत्यै नमः ।
ॐ ज्वालाघण्टायै नमः ।
ॐ अग्निमर्द्दिन्यै नमः ।
ॐ सुरङ्गायै नमः ।
ॐ कौलिन्यै नमः ।
ॐ रम्यायै नमः ।
ॐ नट्यै नमः ।
ॐ नारायण्यै नमः ।
ॐ धृत्यै नमः ।
ॐ अनन्तायै नमः ।
ॐ पुञ्जिकायै नमः ।
ॐ जिह्वायै नमः ।
ॐ धर्माधर्मप्रवर्तिकायै नमः ।
ॐ वन्दिन्यै नमः ।
ॐ वन्दनीयायै नमः ।
ॐ वेलायै नमः ।
ॐ अहस्करिण्यै नमः ।
ॐ सुधायै नमः ।
ॐ अरण्यै नमः ।
ॐ माधव्यै नमः ।
ॐ गोत्रायै नमः ।
ॐ पताकायै नमः ।
ॐ वाङ्मय्यै नमः ।
ॐ श्रुत्यै नमः ।
ॐ गूढायै नमः ।
ॐ त्रिगूढायै नमः ।
ॐ विस्पष्टायै नमः ।
ॐ मृगाङ्कायै नमः ।
ॐ निरिन्द्रियायै नमः ।
ॐ मेनायै नमः ।
ॐ आनन्दकर्यै नमः ।
ॐ बोध्र्यै नमः ।
ॐ त्रिनेत्रायै नमः ।
ॐ वेदवाहनायै नमः ।
ॐ कलस्वनायै नमः ।
ॐ तारिण्यै नमः ।
ॐ सत्यप्रियायै नमः ।
ॐ असत्यप्रियायै नमः ।
ॐ अजडायै नमः ।
ॐ एकवक्त्रायै नमः ।
ॐ महावक्त्रायै नमः ।
ॐ बहुवक्त्रायै नमः ।
ॐ घनाननायै नमः ।
ॐ इन्दिरायै नमः ।
ॐ काश्यप्यै नमः ।
ॐ ज्योत्स्नायै नमः ।
ॐ शवारूढायै नमः ।
ॐ तनूदर्यै नमः ।
ॐ महाशङ्खधरायै नमः ।
ॐ नागोपवीतिन्यै नमः ।
ॐ अक्षताशयायै नमः ।
ॐ निरिन्धनायै नमः ।
ॐ धराधारायै नमः ।
ॐ व्याधिघ्न्यै नमः ।
ॐ कल्पकारिण्यै नमः ।
ॐ विश्वेश्वर्यै नमः ।
ॐ विश्वधात्र्यै नमः ।
ॐ विश्वेश्यै नमः ।
ॐ विश्ववन्दितायै नमः ।
ॐ विश्वायै नमः ।
ॐ विश्वात्मिकायै नमः ।
ॐ विश्वव्यापिकायै नमः ।
ॐ विश्वतारिण्यै नमः ।
ॐ विश्वसंहारिण्यै नमः ।
ॐ विश्वहस्तायै नमः ।
ॐ विश्वोपकारिकायै नमः ।
ॐ विश्वमात्रे नमः ।
ॐ विश्वगतायै नमः ।
ॐ विश्वातीतायै नमः ।
ॐ विरोधितायै नमः ।
ॐ त्रैलोक्यत्राणकर्त्र्यै नमः ।
ॐ कूटाकारायै नमः ।
ॐ कटकण्टायै नमः ।
ॐ क्षामोदर्यै नमः ।
ॐ क्षेत्रज्ञायै नमः ।
ॐ क्षयहीनायै नमः ।
ॐ क्षरवर्जितायै नमः ।
ॐ क्षपायै नमः ।
ॐ क्षोभकर्यै नमः ।
ॐ क्षेभ्यायै नमः ।
ॐ अक्षोभ्यायै नमः ।
ॐ क्षेमदुघायै नमः ।
ॐ क्षियायै नमः ।
ॐ सुखदायै नमः ।
ॐ सुमुख्यै नमः ।
ॐ सौम्यायै नमः ।
ॐ स्वङ्गायै नमः ।
ॐ सुरपरायै नमः ।
ॐ सुधिये नमः ।
ॐ सर्वान्तर्यामिन्यै नमः ।
ॐ सर्वायै नमः ।
ॐ सर्वाराध्यायै नमः ।
ॐ समाहितायै नमः ।
ॐ तपिन्यै नमः ।
ॐ तापिन्यै नमः ।
ॐ तीव्रायै नमः ।
ॐ तपनीयायै नमः ।
ॐ नाभिगायै नमः ।
ॐ हैम्यै नमः ।
ॐ हैमवत्यै नमः ।
ॐ ऋद्ध्यै नमः ।
ॐ वृद्ध्यै नमः ।
ॐ ज्ञानप्रदायै नमः ।
ॐ नरायै नमः ।
ॐ महाजटायै नमः ।
ॐ महापादायै नमः ।
ॐ महाहस्तायै नमः ।
ॐ महाहनवे नमः ।
ॐ महाबलायै नमः ।
ॐ महाशेषायै नमः ।
ॐ महाधैर्यायै नमः ।
ॐ महाघृणायै नमः ।
ॐ महाक्षमायै नमः ।
ॐ पुण्यपापध्वजिन्यै नमः ।
ॐ घुर्घुरारवायै नमः ।
ॐ डाकिन्यै नमः ।
ॐ शाकिन्यै नमः ।
ॐ रम्यायै नमः ।
ॐ शक्त्यै नमः ।
ॐ शक्तिस्वरूपिण्यै नमः ।
ॐ तमिस्रायै नमः ।
ॐ गन्धरायै नमः ।
ॐ शान्तायै नमः ।
ॐ दान्तायै नमः ।
ॐ क्षान्तायै नमः ।
ॐ जितेन्द्रियायै नमः ।
ॐ महोदयायै नमः ।
ॐ ज्ञानिन्यै नमः ।
ॐ इच्छायै नमः ।
ॐ विरागायै नमः ।
ॐ सुखिताकृत्यै नमः ।
ॐ वासनायै नमः ।
ॐ वासनाहीनायै नमः ।
ॐ निवृत्त्यै नमः ।
ॐ निर्वृत्यै नमः ।
ॐ कृत्यै नमः ।
ॐ अचलायै नमः ।
ॐ हेतवे नमः ।
ॐ उन्मुक्तायै नमः ।
ॐ जयिन्यै नमः ।
ॐ संस्मृत्यै नमः ।
ॐ च्युतायै नमः ।
ॐ कपर्द्दिन्यै नमः ।
ॐ मुकुटिन्यै नमः ।
ॐ मत्तायै नमः ।
ॐ प्रकृत्यै नमः ।
ॐ ऊर्जितायै नमः ।
ॐ सदसत्साक्षिण्यै नमः ।
ॐ स्फीतायै नमः ।
ॐ मुदितायै नमः ।
ॐ करुणामय्यै नमः ।
ॐ पूर्वायै नमः ।
ॐ उत्तरायै नमः ।
ॐ पश्चिमायै नमः ।
ॐ दक्षिणायै नमः ।
ॐ विदिगुद्गतायै नमः ।
ॐ आत्मारामायै नमः ।
ॐ शिवारामायै नमः ।
ॐ रमण्यै नमः ।
ॐ शङ्करप्रियायै नमः ।
ॐ वरेण्यायै नमः ।
ॐ वरदायै नमः ।
ॐ वेण्यै नमः ।
ॐ स्तम्भिण्यै नमः ।
ॐ आकर्षिण्यै नमः ।
ॐ उच्चाटन्यै नमः ।
ॐ मारण्यै नमः ।
ॐ द्वेषिण्यै नमः ।
ॐ वशिन्यै नमः ।
ॐ मह्यै नमः ।
ॐ भ्रमण्यै नमः ।
ॐ भारत्यै नमः ।
ॐ भामायै नमः ।
ॐ विशोकायै नमः ।
ॐ शोकहारिण्यै नमः ।
ॐ सिनीवाल्यै नमः ।
ॐ कुह्वै नमः ।
ॐ राकायै नमः ।
ॐ अनुमत्यै नमः ।
ॐ पद्मिन्यै नमः ।
ॐ ईतिहृते नमः ।
ॐ सावित्र्यै नमः ।
ॐ वेदजनन्यै नमः ।
ॐ गायत्र्यै नमः ।
ॐ आहुत्यै नमः ।
ॐ साधिकायै नमः ।
ॐ चण्डाट्टहासायै नमः ।
ॐ तरुण्यै नमः ।
ॐ भूर्भुवःस्वःकलेवरायै नमः ।
ॐ अतनवे नमः ।
ॐ अतनुप्राणदात्र्यै नमः ।
ॐ मातङ्गगामिन्यै नमः ।
ॐ निगमायै नमः ।
ॐ अब्धिमण्यै नमः ।
ॐ पृथ्व्यै नमः ।
ॐ जन्ममृत्युजरौषध्यै नमः ।
ॐ प्रतारिण्यै नमः ।
ॐ कलालापायै नमः ।
ॐ वेद्यायै नमः ।
ॐ छेद्यायै नमः ।
ॐ वसुन्धरायै नमः ।
ॐ अप्रक्षुणायै नमः ।
ॐ अवासितायै नमः ।
ॐ कामधेनवे नमः ।
ॐ वाञ्छितदायिन्यै नमः ।
ॐ सौदामिन्यै नमः ।
ॐ मेघमालायै नमः ।
ॐ शर्वर्यै नमः ।
ॐ सर्वगोचरायै नमः ।
ॐ डमरवे नमः ।
ॐ डमरुकायै नमः ।
ॐ निःस्वरायै नमः ।
ॐ परिनादिन्यै नमः ।
ॐ आहतात्मने नमः ।
ॐ हतायै नमः ।
ॐ नादातीतायै नमः ।
ॐ बिलेशयायै नमः ।
ॐ परायै नमः ।
ॐ अपरायै नमः ।
ॐ पश्यन्त्यै नमः ।
ॐ मध्यमायै नमः ।
ॐ वैखर्यै नमः ।
ॐ प्रथमायै नमः ।
ॐ जघन्यायै नमः ।
ॐ मध्यस्थायै नमः ।
ॐ अन्तविकासिन्यै नमः ।
ॐ पृष्ठस्थायै नमः ।
ॐ पुरःस्थायै नमः ।
ॐ पार्श्वस्थायै नमः ।
ॐ ऊर्ध्वतलस्थितायै नमः ।
ॐ नेदिष्ठायै नमः ।
ॐ दविष्ठायै नमः ।
ॐ वर्हिष्ठायै नमः ।
ॐ गुहाशयायै नमः ।
ॐ अप्राप्यायै नमः ।
ॐ वृंहितायै नमः ।
ॐ पूर्णायै नमः ।
ॐ पुण्यैर्निविदनायै नमः ।
ॐ पुण्यैर्वेद्यायै नमः ।
ॐ अनामयायै नमः ।
ॐ सुदर्शनायै नमः ।
ॐ त्रिशिखायै नमः ।
ॐ वृहत्यै नमः ।
ॐ सन्तत्यै नमः ।
ॐ विभायै नमः ।
ॐ फेत्कारिण्यै नमः ।
ॐ दीर्घस्रुक्कायै नमः ।
ॐ भावनायै नमः ।
ॐ भववल्लभायै नमः ।
ॐ भागीरथ्यै नमः ।
ॐ जाह्नव्यै नमः ।
ॐ कावेर्यै नमः ।
ॐ यमुनायै नमः ।
ॐ स्मयायै नमः ।
ॐ शिप्रायै नमः ।
ॐ गोदावर्यै नमः ।
ॐ वेण्यायै नमः ।
ॐ विपाशायै नमः ।
ॐ नर्मदायै नमः ।
ॐ धुन्यै नमः ।
ॐ त्रेतायै नमः ।
ॐ स्वाहायै नमः ।
ॐ सामिधेन्यै नमः ।
ॐ स्रुचे नमः ।
ॐ स्रुवायै नमः ।
ॐ ध्रुवायै नमः ।
ॐ वसवे नमः ।
ॐ गर्वितायै नमः ।
ॐ मानिन्यै नमः ।
ॐ मेनायै नमः ।
ॐ नन्दितायै नमः ।
ॐ नन्दनन्दिन्यै नमः ।
ॐ नारायण्यै नमः ।
ॐ नारकघ्न्यै नमः ।
ॐ रुचिरायै नमः ।
ॐ रणशालिन्यै नमः ।
ॐ आधारणायै नमः ।
ॐ आधारतमायै नमः ।
ॐ धर्माध्वन्यायै नमः ।
ॐ धनप्रदायै नमः ।
ॐ अभिज्ञायै नमः ।
ॐ पण्डितायै नमः ।
ॐ मूकायै नमः ।
ॐ बालिशायै नमः ।
ॐ वाग्वादिन्यै नमः ।
ॐ ब्रह्मवल्ल्यै नमः ।
ॐ मुक्तिवल्ल्यै नमः ।
ॐ सिद्धिवल्ल्यै नमः ।
ॐ विपह्न्व्यै नमः ।
ॐ आह्लादिन्यै नमः ।
ॐ जितामित्रायै नमः ।
ॐ साक्षिण्यै नमः ।
ॐ पुनराकृत्यै नमः ।
ॐ किर्मर्यै नमः ।
ॐ सर्वतोभद्रायै नमः ।
ॐ स्वर्वेद्यै नमः ।
ॐ मुक्तिपद्धत्यै नमः ।
ॐ सुषमायै नमः ।
ॐ चन्द्रिकायै नमः ।
ॐ वन्यायै नमः ।
ॐ कौमुद्यै नमः ।
ॐ कुमुदाकरायै नमः ।
ॐ त्रिसन्ध्यायै नमः ।
ॐ आम्नायसेतवे नमः ।
ॐ चर्चायै नमः ।
ॐ ऋच्छायै नमः ।
ॐ परिनैष्ठिक्यै नमः ।
ॐ कलायै नमः ।
ॐ काष्ठायै नमः ।
ॐ तिथ्यै नमः ।
ॐ तारायै नमः ।
ॐ सङ्क्रान्त्यै नमः ।
ॐ विषुवते नमः ।
ॐ मञ्जुनादायै नमः ।
ॐ महावल्गवे नमः ।
ॐ भग्नभेरीस्वनायै नमः ।
ॐ अरटायै नमः ।
ॐ चित्रायै नमः ।
ॐ सुप्त्यै नमः ।
ॐ सुषुप्त्यै नमः ।
ॐ तुरीयायै नमः ।
ॐ तत्त्वधारणायै नमः ।
ॐ मृत्युञ्जयायै नमः ।
ॐ मृत्युहर्यै नमः ।
ॐ मृत्युमृत्युविधायिन्यै नमः ।
ॐ हंस्यै नमः ।
ॐ परमहंस्यै नमः ।
ॐ बिन्दुनादान्तवासिन्यै नमः ।
ॐ वैहायस्यै नमः ।
ॐ त्रैदश्यै नमः ।
ॐ भैम्यै नमः ।
ॐ वासातन्यै नमः ।
ॐ दीक्षायै नमः ।
ॐ शिक्षायै नमः ।
ॐ अनूढायै नमः ।
ॐ कङ्काल्यै नमः ।
ॐ तैजस्यै नमः ।
ॐ सुर्यै नमः ।
ॐ दैत्यायै नमः ।
ॐ दानव्यै नमः ।
ॐ नर्यै नमः ।
ॐ नाथायै नमः ।
ॐ सुर्यै नमः ।
ॐ इत्वर्यै नमः ।
ॐ माध्व्यै नमः ।
ॐ खनायै नमः ।
ॐ खरायै नमः ।
ॐ रेखायै नमः ।
ॐ निष्कलायै नमः ।
ॐ निर्ममायै नमः ।
ॐ मृत्यै नमः ।
ॐ महत्यै नमः ।
ॐ विपुलायै नमः ।
ॐ स्वल्पायै नमः ।
ॐ क्रूरायै नमः ।
ॐ क्रूराशयायै नमः ।
ॐ उन्माथिन्यै नमः ।
ॐ धृतिमत्यै नमः ।
ॐ वामन्यै नमः ।
ॐ कल्पचारिण्यै नमः ।
ॐ वाडव्यै नमः ।
ॐ वडवायै नमः ।
ॐ अश्वोढायै नमः ।
ॐ कोलायै नमः ।
ॐ पितृवनालयायै नमः ।
ॐ प्रसारिण्यै नमः ।
ॐ विशारायै नमः ।
ॐ दर्पितायै नमः ।
ॐ दर्पणप्रियायै नमः ।
ॐ उत्तानायै नमः ।
ॐ अधोमुख्यै नमः ।
ॐ सुप्तायै नमः ।
ॐ वञ्चन्यै नमः ।
ॐ आकुञ्चन्यै नमः ।
ॐ त्रुट्यै नमः ।
ॐ क्रादिन्यै नमः ।
ॐ यातनादात्र्यै नमः ।
ॐ दुर्गायै नमः ।
ॐ दुर्गतिनाशिन्यै नमः ।
ॐ धराधरसुतायै नमः ।
ॐ धीरायै नमः ।
ॐ धराधरकृतालयायै नमः ।
ॐ सुचरित्र्यै नमः ।
ॐ तथात्र्यै नमः ।
ॐ पूतनायै नमः ।
ॐ प्रेतमालिन्यै नमः ।
ॐ रम्भायै नमः ।
ॐ उर्वश्यै नमः ।
ॐ मेनकायै नमः ।
ॐ कलिहृदे नमः ।
ॐ कलकृते नमः ।
ॐ कशायै नमः ।
ॐ हरीष्टदेव्यै नमः ।
ॐ हेरम्बमात्रे नमः ।
ॐ हर्यक्षवाहनायै नमः ।
ॐ शिखण्डिन्यै नमः ।
ॐ कोण्डपिन्यै नमः ।
ॐ वेतुण्ड्यै नमः ।
ॐ मन्त्रमय्यै नमः ।
ॐ वज्रेश्वर्यै नमः ।
ॐ लोहदण्डायै नमः ।
ॐ दुर्विज्ञेयायै नमः ।
ॐ दुरासदायै नमः ।
ॐ जालिन्यै नमः ।
ॐ जालपायै नमः ।
ॐ याज्यायै नमः ।
ॐ भगिन्यै नमः ।
ॐ भगवत्यै नमः ।
ॐ भौजङ्ग्यै नमः ।
ॐ तुर्वरायै नमः ।
ॐ बभ्रुमहनीयायै नमः ।
ॐ मानव्यै नमः ।
ॐ श्रीमत्यै नमः ।
ॐ श्रीकर्यै नमः ।
ॐ गाद्ध्यै नमः ।
ॐ सदानन्दायै नमः ।
ॐ गणेश्वर्यै नमः ।
ॐ असन्दिग्धायै नमः ।
ॐ शाश्वतायै नमः ।
ॐ सिद्धायै नमः ।
ॐ सिद्धेश्वरीडितायै नमः ।
ॐ ज्येष्ठायै नमः ।
ॐ श्रेष्ठायै नमः ।
ॐ वरिष्ठायै नमः ।
ॐ कौशाम्ब्यै नमः ।
ॐ भक्तवत्सलायै नमः ।
ॐ इन्द्रनीलनिभायै नमः ।
ॐ नेत्र्यै नमः ।
ॐ नायिकायै नमः ।
ॐ त्रिलोचनायै नमः ।
ॐ वार्हस्पत्यायै नमः ।
ॐ भार्गव्यै नमः ।
ॐ आत्रेय्यै नमः ।
ॐ आङ्गिरस्यै नमः ।
ॐ धुर्याधिहर्त्र्यै नमः ।
ॐ धरित्र्यै नमः ।
ॐ विकटायै नमः ।
ॐ जन्ममोचिन्यै नमः ।
ॐ आपदुत्तारिण्यै नमः ।
ॐ दृप्तायै नमः ।
ॐ प्रमितायै नमः ।
ॐ मितिवर्जितायै नमः ।
ॐ चित्ररेखायै नमः ।
ॐ चिदाकारायै नमः ।
ॐ चञ्चलाक्ष्यै नमः ।
ॐ चलत्पदायै नमः ।
ॐ बलाहक्यै नमः ।
ॐ पिङ्गसटायै नमः ।
ॐ मूलभूतायै नमः ।
ॐ वनेचर्यै नमः ।
ॐ खग्यै नमः ।
ॐ करन्धमायै नमः ।
ॐ ध्माक्ष्यै नमः ।
ॐ संहितायै नमः ।
ॐ केररीन्धनायै नमः ।
ॐ अपुनर्भविन्यै नमः ।
ॐ वान्तरिण्यै नमः ।
ॐ यमगञ्जिन्यै नमः ।
ॐ वर्णातीतायै नमः ।
ॐ आश्रमातीतायै नमः ।
ॐ मृडान्यै नमः ।
ॐ मृडवल्लभायै नमः ।
ॐ दयाकर्यै नमः ।
ॐ दमपरायै नमः ।
ॐ दम्भहीनायै नमः ।
ॐ आहृतिप्रियायै नमः ।
ॐ निर्वाणदायै नमः ।
ॐ निर्बन्धायै नमः ।
ॐ भावायै नमः ।
ॐ भावविधायिन्यै नमः ।
ॐ नैःश्रेयस्यै नमः ।
ॐ निर्विकल्पायै नमः ।
ॐ निर्बीजायै नमः ।
ॐ सर्वबीजिकायै नमः ।
ॐ अनाद्यन्तायै नमः ।
ॐ भेदहीनायै नमः ।
ॐ बन्धोन्मूलिन्यै नमः ।
ॐ अबाधितायै नमः ।
ॐ निराभासायै नमः ।
ॐ मनोगम्यायै नमः ।
ॐ सायुज्यायै नमः ।
ॐ अमृतदायिन्यै नमः ।
॥ इति महाकालसंहितायां कामकलाखण्डे द्वादशपटले श्रीकामकलाकालीसहस्रनामावलिः समाप्ता ॥

Explore More