॥ विनियोगः ॥
भृगुदक्षब्रह्मऋषयः । नानाछन्दांसि ।
श्रीकमलात्मिका देवता । श्रीं बीजम् । ऐं शक्तिः । ह्रीं कीलकम् ।
अखण्ड ऐश्वर्यं आयुरारोग्यप्राप्त्यर्थे जपे विनियोगः ॥
॥ ध्यानं ॥
हस्तोत्क्षिप्तहिरण्मयामृतघटैरासिच्यमानां श्रियम् ।
बिभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वलां
क्षौमाबद्ध नितम्बबिम्बललितां वन्देऽरविन्दस्थिताम् ॥
॥ खड्गमाला प्रारम्भः ॥
हृषीकेशमयि, वैकुण्ठमयि, विश्वरूपमयि, प्रथमावरणरूपिणि
सर्वमाङ्गल्यप्रदचक्रस्वामिनि अनन्तसमेत श्रीकमलात्मिका ॥ १॥
पद्मनिधिमयि, वसुमतिमयि, जह्नुसुतामयि, सूर्यसुतामयि,
द्वितीयावरणरूपिणि सर्वधनप्रदचक्रस्वामिनि अनन्तसमेत
श्रीकमलात्मिका ॥ २॥
मालिकामयि, शाङ्करीमयि, वसुमालिकामयि तृतीयावरणरूपिणि
सर्वशक्तिप्रदचक्रस्वामिनि अनन्तसमेत श्रीकमलात्मिका ॥ ३॥
श्रीमयि, सरस्वतीमयि, दुर्गामयि, धरणीमयि, गायत्रिमयि, देवीमयि,
उषामयि, चतुर्थावरणरूपिणि सर्वसिद्धिप्रदचक्रस्वामिनि अनन्तसमेत
श्रीकमलात्मिका ॥ ४॥
महालक्ष्मी बाणमयि, वल्लभा महालक्ष्मी बाणमयि, मदा महालक्ष्मी
बाणमयि, हर्षा महालक्ष्मी बाणमयि, बला महालक्ष्मी बाणमयि,
तेजा महालक्ष्मी बाणमयि, पञ्चमावरणरूपिणि
सर्वसंक्षोभणचक्रस्वामिनि अनन्तसमेत श्रीकमलात्मिका ॥ ५॥
इन्द्राणीमयि, चामुण्डामयि, महालक्ष्मीमयि, षष्टावरणरूपिणि
सर्वसौभाग्यदायकचक्रस्वामिनि अनन्तसमेत श्रीकमलात्मिका ॥ ६॥
पुष्पदन्तमयि, सार्वभौममयि, सुप्रतीकमयि, सप्तमावरणरूपिणि
सर्वाशापरिपूरकचक्रस्वामिनि अनन्तसमेत श्रीकमलात्मिका ॥ ७॥
शनेश्चरमयि, राहुमयि, केतुमयि, अष्टमावरणरूपिणि
सर्वरोगहरचक्रस्वामिनि अनन्तसमेत श्रीकमलात्मिका ॥ ८॥
नवमावरणरूपिणि सर्वानन्दमयिचक्रस्वामिनि अनन्तसमेत श्रीकमलात्मिका ॥ ९॥
सर्वशापहरचक्रस्वामिनि अनन्तसमेत श्रीकमलात्मिका ॥ १०॥
रुद्रमयि, लक्ष्मी समेत कुबेरमयि, रतिसहित काममयि, पुष्टिसहित
विज्ञराजमयि, शङ्खनिधिसहित वसुधामयि, पद्मनिधिसहित
वसुमतिमयि, गायात्र्यादिसहित कमलात्मिका, दिवौघुगुरुरूपिणि
सिध्दौघगुरुरूपिणि मानवौघगुरुरूपिणि, श्रीगुरुरूपिणि,
परमगुरुरूपिणि परमेष्ठिगुरुरूपिणि, परापरगुरुरूपिणि, अणिमासिद्धे,
लघिमासिद्धे, महिमासिद्धे, ईशित्वसिद्धे, वशित्वसिद्धे, प्राकाम्यसिद्धे,
भुक्तिसिद्धे, इच्छासिद्धे, प्राप्तिसिद्धे, सर्वकामसिद्धे, एकादशावरणरूपिणि
सर्वार्थसाधकचक्रस्वामिनि अनन्तसमेत श्रीकमलात्मिका ॥ ११॥
अष्टवसुमयि, द्वादशादित्यमयि, एकादशरुद्रमयि, सर्वभूतमयि,
शुति-स्मृती-धृति-श्रद्धा-मेधामयि, वज्रसहित इन्द्रमयि,
शक्तिसहित अग्निमयि, दण्डसहित यममयि, खड्गसहित निरृतिमयि,
पाशसहित वरुणमयि, अङ्कुशसहित वायुमयि, गदासहित सोममयि,
शूलसहित ईशानमयि, पद्मसहित ब्रह्ममयि, चक्रसहित अनन्तमयि,
द्वादशावरणरूपिणि त्र्यैलोक्यमोहनचक्रस्वामिनि अनन्तसमेत
सदाशिवभैरवसेवित श्रीकमलात्मिका नमस्ते नमस्ते नमस्ते नमः ॥ १२॥
