ॐ व्योमपद्मकृताधारायै नमः ।
ॐ पञ्चव्योमपदाश्रितायै नमः ।
ॐ विभिन्नसर्वार्त्यै नमः ।
ॐ समुद्रपरितोषिण्यै नमः ।
ॐ ज्ञानज्ञेयविकासिन्यै नमः ।
ॐ भवभ्रान्तिविनाशिन्यै नमः ।
ॐ सर्वभूतमहेश्वर्यै नमः ।
ॐ सम्पूर्णाह्लादिन्यै नमः ।
ॐ कलङ्करहितायै कलायै नमः ।
ॐ ब्रह्माण्डवासिन्यै नमः ।
ॐ प्रत्यक्षलक्ष्म्यै नमः ।
ॐ न्यायवस्तुप्रकाशिकायै नमः ।
ॐ सर्वाभिलाषपूर्णायै नमः ।
ॐ नानास्वरूपचिद्धात्र्यै नमः ।
ॐ सर्वेच्छापरिपूरितायै नमः ।
ॐ उद्भिन्नसन्तानायै नमः ।
ॐ सुखसौभाग्यसिद्धिदायै नमः ।
ॐ गणगन्धर्वसेवितायै नमः ।
ॐ महायोगेश्वरवृतायै नमः ।
ॐ ब्रह्मेन्द्ररुद्रनमितायै नमः ।
ॐ त्रिविक्रमपदोद्भवायै नमः ।
ॐ सन्तारिण्यै परायै नमः ।
ॐ भूरितारेश्वरप्रभायै नमः ।
ॐ सुधौतकनकप्रख्यायै नमः ।
ॐ त्रैलोक्यमण्डनायै नमः ।
ॐ नारीनरेश्वरवरार्चितायै नमः ।
ॐ त्रैलोक्यसुन्दर्यै नमः ।
ॐ पद्ममालाविभूषितायै नमः ।
ॐ दिव्याभरणभूषितायै नमः ।
ॐ विचित्ररत्नमुकुटायै नमः ।
ॐ विचित्राम्बरभूषणायै नमः ।
ॐ विचित्रमाल्यगन्धाढ्यायै नमः ।
ॐ विचित्रायुधवाहनायै नमः ।
ॐ महानारायणी देव्यै नमः ।
ॐ तत्त्वसङ्कर्षिण्यै कलायै नमः ।
ॐ घण्टाकर्णविराजितायै नमः ।
ॐ बीजगत्यात्मदर्शनायै नमः ।
ॐ चान्द्र्यै श्रियै नमः ।
ॐ वाराहीनारसिंहीहतासुरायै नमः ।
ॐ युगान्तहुतभुग्ज्वालायै नमः ।
ॐ त्रैलोक्यमोहिन्यै नमः ।
ॐ कामधुग्ज्वालामुख्यै नमः ।
ॐ हृदयोत्पलमालिकायै नमः ।
ॐ वैश्वानरीमहामायायै नमः ।
ॐ हिरण्यरजताश्रयायै नमः ।
ॐ हस्तिनादप्रबोधिन्यै नमः ।
ॐ हिरण्यपद्मवर्णायै नमः ।
ॐ हिरण्यप्रकटसदृश्यै नमः ।
ॐ भक्तानां परिरक्षिण्यै नमः ।
ॐ बहुरूपा स्वरूपायै नमः ।
ॐ घण्टानिनादबहुलायै नमः ।
ॐ जीमूतध्वनिनिस्स्वनायै नमः ।
ॐ महादेवेन्द्रमथिन्यै नमः ।
ॐ भ्रुकुटीकुटिलाननायै नमः ।
ॐ धर्मकामार्थमोक्षदायै नमः ।
ॐ दारिद्र्यदुःखशमन्यै नमः ।
ॐ घोरदुर्गार्तिनाशिन्यै नमः ।
ॐ अन्तर्वेदी दक्षिणायै नमः ।
ॐ ब्रह्मचर्यपरागत्यै नमः ।
ॐ सिद्धविद्याधरार्चितायै नमः ।
ॐ क्षीरधारासुप्रभावायै नमः ।
ॐ जुह्वतो यज्ञसम्भवायै नमः ।
ॐ शुक्लमाल्यानुलेपनायै नमः ।
ॐ पद्मपत्रायतेक्षणायै नमः ।
ॐ भोगीन्द्रशयनासनायै नमः ।
ॐ परमैश्वर्यभूतिदायै नमः ।
ॐ अचिन्त्यानन्तविभवायै नमः ।
ॐ सर्वभूतनमस्कृतायै नमः ।
ॐ उद्याननगरद्वारहर्म्योपवनवासिन्यै नमः ।
ॐ दैत्यदानवमर्दिन्यै नमः ।
ॐ सिद्धचारणसेवितायै नमः ।
ॐ रसनाप्राणचारिण्यै नमः ।
ॐ सर्वमङ्गल्यमाङ्गल्यायै नमः ।
ॐ सर्वकामसमृद्धिदायै नमः ।
ॐ राजश्रीरूपसहितायै नमः ।
ॐ परक्रोधनिवारिण्यै नमः ।
ॐ चित्रनीलोत्पलगतायै नमः ।
ॐ वृषरत्नकराश्रयायै नमः ।
ॐ हिरण्यरजतद्वन्द्वायै नमः ।
ॐ शङ्खभद्रासनस्थितायै नमः ।
ॐ गोमूत्रगोमयक्षीरदधिसर्पिर्जलाश्रयायै नमः ।
ॐ पूर्णचन्द्रार्कविष्टरायै नमः ।
ॐ मरीच्यै ज्वालिन्यै नमः ।
ॐ प्रचण्डज्वलनोज्ज्वलायै नमः ।
ॐ रणे मृतसञ्जीवन्यै नमः ।
ॐ नित्यकामकरीषिण्यै नमः ।
ॐ वक्रदण्डविभासिन्यै नमः ।
ॐ मङ्गलायै मानिन्यै नमः ।
ॐ त्रैलोक्यबन्धिन्यै नमः ।
ॐ सर्वार्थसाधनकर्यै नमः ।
ॐ करुणाधारसम्भूतायै नमः ।
ॐ सर्वशास्त्रसुधारिण्यै नमः ।
ॐ दृष्टादृष्टफलप्रदायै नमः ।
ॐ कामाचारविहारिण्यै नमः ।
ॐ हिमशैलेन्द्रसङ्काशायै नमः ।
ॐ गजेन्द्रवरवाहनायै नमः ।
ॐ अशेषसुखसौभाग्यसम्पदां योनये नमः ।
ॐ सर्वेश्वरप्रियायै नमः ।
ॐ सम्प्रधानेश्वरेश्वर्यै नमः ।
ॐ विष्णुवक्षःस्थलगतायै नमः ।
ॐ हरिवक्षःस्थलाश्रयायै नमः ।
॥ इति श्री कमला सहस्रनामावली सम्पूर्णा ॥