अदैन्यं देहदार्द्धं च त्वत्पादाम्बुजसद्गतिम् ॥ १॥
त्वं तुष्टोवाथ रुष्टो वा त्वां विना मे गतिर्नहि ॥ २॥
रुष्टोऽसि त्वं दयासिन्धो किमन्यैर्मम रक्षणे ॥ ३॥
मत्समो नहि देवेश कृतघ्नो वञ्चकोऽपि वा ॥ ४॥
किं भयं किमु मे लक्ष्यं सर्वेष्वपि धुरन्धर ॥ ५॥
ममेष्टं च कियन्मात्रं किमेतावद्विलम्बनम् ॥ ६॥
का तदा गतिरस्माकं गरदायां स्वमातरि ॥ ७॥
त्वां विना कः पुमान्कर्ता ह्यस्माकं तु मनोरथम् ॥ ८॥
कस्मालक्ष्मीपतेः श्रीमन् मयि श्रीमन् लोभः किमीदृशः ॥ ९॥
रक्ष मां अथवा सम्यक् त्वं यशो मुञ्च शाश्वतम् ॥ १०॥
संसारार्णवमग्नं मामिन्दिरेश समुद्धर ॥ ११॥
को धर्मः किमिदं भाग्यं किं यशो लोकविश्रुतम् ॥ १२॥
तत्कृतं चेन्मयि हरे तदैव विपुलं यशः ॥ १३॥
न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनि ॥ १४॥
पुनः पुनः प्रसीद त्वं प्रसीदं वरदो भव ॥ १५॥
