सुरवरमुकुटैर्रत्नैः रञ्जित पदनलिनम्।
वामाङ्कस्थितलक्ष्मीमुखमीलितनयनं
विद्युत्कुण्डलमण्डित विलसच्छुभवदनम्॥१॥
नृहरे पालय सततं जगदानतबन्धो॥
शरणं त्वामुपगतमिति करुणागतरूपम्॥
प्रह्लादनिजपुत्रं भगवत्स्मृतिनिरतम्।
हिरण्यकशिपुं धृत्वा बाधततं सततम्॥२॥
निजभक्तं रक्षितवाननुभावितचित्तम्॥
दुर्धरनिजजनसंसृतिजनिधिसन्तरणम्॥
भद्रं त्वामनुसेवे तापत्रयहरणम्।
काशीदीक्षितसन्नतशरणप्रदचरणम्॥३॥
