मौनीन्द्रवृन्दसुरवन्दितपादपद्मम् ।
नीरेजसम्भवमुकुन्दशिवस्वरूपं
श्रीभास्करं भुवनबान्धवमाश्रयामि ॥ १ ॥
मानन्दरूपमणिमादिकसिद्धिदं च ।
आद्यन्तमध्यरहितं च शिवप्रदं त्वां
श्रीभास्करं नतजनाश्रयमाश्रयामि ॥ २ ॥
जाम्बूनदाभमतिनिर्मलदृष्टिदं च ।
त्याम्बराभरणभूषितचारुमूर्तिं
श्रीभास्करं ग्रहगणाधिपमाश्रयामि ॥ ३ ॥
संसारगाढतमसागरतारकं च ।
हंसात्मकं निगमवेद्यमहस्करं त्वां
श्रीभास्करं कमलबान्धवमाश्रयामि ॥ ४ ॥
भक्तप्रियं सकलसाक्षिणमप्रमेयम् ।
सर्वात्मकं सकललोकहरं प्रसन्नं
श्रीभास्करं जगदधीश्वरमाश्रयामि ॥ ५ ॥
तापत्रयान्तकमनन्तसुखप्रदं च ।
कालात्मकं ग्रहगणेन सुसेवितं च ।
श्रीभास्करं भुवनरक्षकमाश्रयामि ॥ ६ ॥
दृष्टिप्रदं परमतुष्टिदमाश्रितानाम् ।
इष्टार्थदं सकलकष्टनिवारकं च
श्रीभास्करं मृगपतीश्वरमाश्रयामि ॥ ७ ॥
छायाधवं कनकरेतसमग्निगर्भम् ।
सूर्यं कृपालुमखिलाश्रयमादिदेवं
लक्ष्मीनृसिंहकविपालकमाश्रयामि ॥ ८ ॥
यत्र श्रुतं च पठितं सततं स्मृतं च ।
तत्र स्थिराणि कमलाप्तकृपाविलासै-
र्दीर्घायुरर्थबलवीर्यसुतादिकानि ॥ ९ ॥
