अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ 1 ॥
नन्दगोपकुले जातां मङ्गल्यां कुलवर्धिनीम् ॥ 2 ॥
शिलातटविनिक्षिप्तामाकाशं प्रति गामिनीम् ॥ 3 ॥
दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम् ॥ 4 ॥
तान् वै तारयते पापात् पङ्के गामिव दुर्बलाम् ॥ 5 ॥
आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ॥ 6 ॥
बालार्कसदृशाकारे पूर्णचन्द्रनिभानने ॥ 7 ॥
मयूरपिच्छवलये केयूराङ्गदधारिणि ॥ 8 ॥
स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥ 9 ॥
बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ ॥ 10 ॥
पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥ 11 ॥
चन्द्रविस्पर्धिना देवि मुखेन त्वं विराजसे ॥ 12 ॥
भुजङ्गाभोगवासेन श्रोणिसूत्रेण राजता ॥ 13 ॥
ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे ॥ 14 ॥
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥ 15 ॥
प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥ 16 ॥
ममापि विजयं देहि वरदा त्वं च साम्प्रतम् ॥ 17 ॥
कालि कालि महाकालि शीधुमांसपशुप्रिये ॥ 18 ॥
भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः ॥ 19 ॥
न तेषां दुर्लभं किञ्चित् पुत्रतो धनतोऽपि वा ॥ 20 ॥
कान्तारेष्ववसन्नानां मग्नानां च महार्णवे ।
दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् ॥ 21 ॥
ये स्मरन्ति महादेवि न च सीदन्ति ते नराः ॥ 22 ॥
सन्ध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया ॥ 23 ॥
व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ॥ 24 ॥
प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ॥ 25 ॥
शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ॥ 26 ॥
उपगम्य तु राजानामिदं वचनमब्रवीत् ॥ 27 ॥
शृणु राजन् महाबाहो मदीयं वचनं प्रभो ।
भविष्यत्यचिरादेव सङ्ग्रामे विजयस्तव ॥ 28 ॥
राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥ 29 ॥
मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ॥ 30 ॥
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम् ॥ 31 ॥
अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ॥ 32 ॥
न तेषां दुर्लभं किञ्चिदस्मिल्लोके भविष्यति ॥ 33 ॥
तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः ॥ 34 ॥
न प्रज्ञास्यन्ति कुरवो नरा वा तन्निवासिनः ॥ 35 ॥
रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ॥ 36 ॥
