Lord Ketu

श्री केतु स्तोत्रम् (पुराणोक्त)

(Sri Ketu Stotram Puranokta)

Also known as sri ketu stotram puranoktam · shri ketu stotram puranokta · shree ketu stotram puranokta

A Ketu hymn framed as Gautama's request to Suta, and its centre is a list of twelve, given by their ordinal position rather than by name: the first is terrible-faced, the second red-eyed, the third tawny-eyed, the fourth the giver of knowledge, the fifth brown-eyed, the sixth like the fire at the end of time, the seventh with frost in his belly, the eighth smoke-coloured, the ninth with his throat cut, the tenth seated on a man, the eleventh Shrikantha, the twelfth armed with a mace. The verse after them says what they are for: these twelve exceedingly cruel ones cause every kind of disturbance, and at the joints of the month they afflict the sun and the moon — so the list is an account of eclipse. It closes with the rite, a six-cornered diagram drawn on horse-gram, an eight-petalled lotus inside it, and a blue pot set down.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्रीगणेशाय नमः ॥
॥ अथ केतुस्तोत्रम् ॥
विनियोगः
ॐ अस्य श्रीकेतुस्तोत्रमहामन्त्रस्य वामदेव ॠषिः ।
अनुष्टुप्छन्दः । केतुर्देवता ।
केतुप्रसादसिद्ध्यर्थे जपे विनियोगः ।
॥ पीठिका (संवाद) ॥
गौतम उवाच।
मुनीन्द्र सूत तत्त्वज्ञ सर्वशास्त्रविशारद ।
सर्वरोगहरं ब्रूहि केतोः स्तोत्रमनुत्तमम् ॥ १॥
सूत उवाच।
शृणु गौतम वक्ष्यामि स्तोत्रमेतदनुत्तमम् ।
गुह्याद्गुह्यतमं केतोः ब्रह्मणा कीर्तितं पुरा ॥ २॥
॥ केतु द्वादश नाम स्तोत्रम् ॥
आद्यः करालवदनो द्वितीयो रक्तलोचनः ।
तृतीयः पिङ्गलाक्षश्च चतुर्थो ज्ञानदायकः ॥ ३॥
पञ्चमः कपिलाक्षश्च षष्ठः कालाग्निसन्निभः ।
सप्तमो हिमगर्भश्च धूम्रवर्णोष्टमस्तथा ॥ ४॥
नवमः कृत्तकण्ठश्च दशमः नरपीठगः ।
एकादशस्तु श्रीकण्ठः द्वादशस्तु गदायुधः ॥ ५॥
॥ माहात्म्य (Importance) ॥
द्वादशैते महाक्रूराः सर्वोपद्रवकारकाः ।
पर्वकाले पीडयन्ति दिवाकरनिशाकरौ ॥ ६॥
नामद्वादशकं स्तोत्रं केतोरेतन्महात्मनः ।
पठन्ति येऽन्वहं भक्त्या तेभ्यः केतुः प्रसीदति ॥ ७॥
॥ पूजन विधि (Ritual) ॥
कुलुक्थधान्ये विलिखेत् षट्कोणं मण्डलं शुभम् ।
पद्ममष्टदलं तत्र विलिखेच्च विधानतः ॥ ८॥
नीलं घटं च संस्थाप्य दिवाकरनिशाकरौ ।
केतुं च तत्र निक्षिप्य पूजयित्वा विधानतः ॥ ९॥
स्तोत्रमेतत्पठित्वा च ध्यायन् केतुं वरप्रदम् ।
ब्राह्मणं श्रोत्रियं शान्तं पूजयित्वा कुटुम्बिनम् ॥ १०॥
केतोः करालवक्त्रस्य प्रतिमां वस्त्रसंयुताम् ।
कुम्भादिभिश्च संयुक्तां चित्रातारे प्रदापयेत् ॥ ११॥
॥ फलश्रुति ॥
दानेनानेन सुप्रीतः केतुः स्यात्तस्य सौख्यदः ।
वत्सरं प्रयता भूत्वा पूजयित्वा विधानतः ॥ १२॥
मूलमष्टोत्तरशतं ये जपन्ति नरोत्तमाः ।
तेषां केतुप्रसादेन न कदाचिद्भयं भवेत् ॥ १३॥
॥ इति केतुस्तोत्रं सम्पूर्णम् ॥

Explore More