Lord Krishna

श्रीमद्भागवतम् ४.१६

(Srimad Bhagavatam Canto 4, Chapter 16 — The Bards Foretell King Pṛthu's Glory)

Vyasa

Also known as iti bruvanam nrpatim gayaka municodita

The Bards Foretell King Pṛthu's Glory. Śrīmad Bhāgavatam Canto 4, Chapter 16 — 27 verses in Sanskrit with transliteration in 9 scripts.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

मैत्रेय उवाच
इति ब्रुवाणं नृपतिं गायका मुनिचोदिताः ।
तुष्टुवुस्तुष्टमनसस्तद्वागमृतसेवया ॥ १ ॥
नालं वयं ते महिमानुवर्णने
यो देववर्योऽवततार मायया ।
वेनाङ्गजातस्य च पौरुषाणि ते
वाचस्पतीनामपि बभ्रमुर्धियः ॥ २ ॥
अथाप्युदारश्रवसः पृथोर्हरेः
कलावतारस्य कथामृताद‍ृताः ।
यथोपदेशं मुनिभिः प्रचोदिताः
श्लाघ्यानि कर्माणि वयं वितन्महि ॥ ३ ॥
एष धर्मभृतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन् ।
गोप्ता च धर्मसेतूनां शास्ता तत्परिपन्थिनाम् ॥ ४ ॥
एष वै लोकपालानां बिभर्त्येकस्तनौ तनूः ।
काले काले यथाभागं लोकयोरुभयोर्हितम् ॥ ५ ॥
वसु काल उपादत्ते काले चायं विमुञ्चति ।
समः सर्वेषु भूतेषु प्रतपन् सूर्यवद्विभुः ॥ ६ ॥
तितिक्षत्यक्रमं वैन्य उपर्याक्रमतामपि ।
भूतानां करुणः शश्वदार्तानां क्षितिवृत्तिमान् ॥ ७ ॥
देवेऽवर्षत्यसौ देवो नरदेववपुर्हरिः ।
कृच्छ्रप्राणाः प्रजा ह्येष रक्षिष्यत्यञ्जसेन्द्रवत् ॥ ८ ॥
आप्याययत्यसौ लोकं वदनामृतमूर्तिना ।
सानुरागावलोकेन विशदस्मितचारुणा ॥ ९ ॥
अव्यक्तवर्त्मैष निगूढकार्योगम्भीरवेधा उपगुप्तवित्तः । अनन्तमाहात्म्यगुणैकधामापृथुः प्रचेता इव संवृतात्मा ॥ १० ॥
दुरासदो दुर्विषह आसन्नोऽपि विदूरवत् । नैवाभिभवितुं शक्यो वेनारण्युत्थितोऽनलः ॥ ११ ॥
अन्तर्बहिश्च भूतानां पश्यन् कर्माणि चारणैः । उदासीन इवाध्यक्षो वायुरात्मेव देहिनाम् ॥ १२ ॥
नादण्ड्यं दण्डयत्येष सुतमात्मद्विषामपि ।
दण्डयत्यात्मजमपि दण्ड्यं धर्मपथे स्थितः ॥ १३ ॥
अस्याप्रतिहतं चक्रं पृथोरामानसाचलात् । वर्तते भगवानर्को यावत्तपति गोगणैः ॥ १४ ॥
रञ्जयिष्यति यल्लोकमयमात्मविचेष्टितैः । अथामुमाहू राजानं मनोरञ्जनकैः प्रजाः ॥ १५ ॥
द‍ृढव्रतः सत्यसन्धो ब्रह्मण्यो वृद्धसेवकः । शरण्यः सर्वभूतानां मानदो दीनवत्सलः ॥ १६ ॥
मातृभक्तिः परस्त्रीषु पत्‍न्यामर्ध इवात्मनः । प्रजासु पितृवत्स्‍निग्धः किङ्करो ब्रह्मवादिनाम् ॥ १७ ॥
देहिनामात्मवत्प्रेष्ठः सुहृदां नन्दिवर्धनः । मुक्तसङ्गप्रसङ्गोऽयं दण्डपाणिरसाधुषु ॥ १८ ॥
अयं तु साक्षाद्भगवांस्त्र्यधीशःकूटस्थ आत्मा कलयावतीर्णः । यस्मिन्नविद्यारचितं निरर्थकंपश्यन्ति नानात्वमपि प्रतीतम् ॥ १९ ॥
अयं भुवो मण्डलमोदयाद्रे-र्गोप्तैकवीरो नरदेवनाथः । आस्थाय जैत्रं रथमात्तचापःपर्यस्यते दक्षिणतो यथार्कः ॥ २० ॥
अस्मै नृपालाः किल तत्र तत्रबलिं हरिष्यन्ति सलोकपालाः । मंस्यन्त एषां स्त्रिय आदिराजंचक्रायुधं तद्यश उद्धरन्त्यः ॥ २१ ॥
अयं महीं गां दुदुहेऽधिराजःप्रजापतिर्वृत्तिकरः प्रजानाम् । यो लीलयाद्रीन् स्वशरासकोट्याभिन्दन् समां गामकरोद्यथेन्द्रः ॥ २२ ॥
विस्फूर्जयन्नाजगवं धनुः स्वयंयदाचरत्क्ष्मामविषह्यमाजौ । तदा निलिल्युर्दिशि दिश्यसन्तोलाङ्गूलमुद्यम्य यथा मृगेन्द्रः ॥ २३ ॥
एषोऽश्वमेधाञ् शतमाजहारसरस्वती प्रादुरभावि यत्र । अहार्षीद्यस्य हयं पुरन्दरःशतक्रतुश्चरमे वर्तमाने ॥ २४ ॥
एष स्वसद्मोपवने समेत्यसनत्कुमारं भगवन्तमेकम् । आराध्य भक्त्यालभतामलं तज्ज्ञानं यतो ब्रह्म परं विदन्ति ॥ २५ ॥
तत्र तत्र गिरस्तास्ता इति विश्रुतविक्रमः । श्रोष्यत्यात्माश्रिता गाथाः पृथुः पृथुपराक्रमः ॥ २६ ॥
दिशो विजित्याप्रतिरुद्धचक्रःस्वतेजसोत्पाटितलोकशल्यः । सुरासुरेन्द्रैरुपगीयमानमहानुभावो भविता पतिर्भुवः ॥ २७ ॥

Explore More