Goddess Devi

मन्त्रमातृका पुष्पमाला स्तवः

(Mantra Matrika Pushpamala Stavah)

Adi Shankaracharya

Mantramatruka Pushpamala Stavah is a devotional hymn composed by Adi Shankaracharya in praise of Goddess Lalita Tripurasundari. Each verse begins with a successive syllable of the Matrika (Sanskrit alphabet), creating a garland of mantras. It praises the Divine Mother's cosmic grace, beauty, and her role as the supreme creative power, offering protection and liberation to sincere devotees.

पार्वतीमानसस्तोत्रं च श्रीगणेशाय नमः ।
कल्लोलोल्लसितामृताब्धिलहरीमध्ये विराजन्मणिद्वीपे कल्पकवाटिकापरिवृते कादम्बवाट्युज्ज्वले ।
रत्नस्तम्भसहस्रनिर्मितसभामध्ये विमानोत्तमे चिन्तारत्नविनिर्मितं जननि ते सिह्मासनं भावये ॥ १॥
एणाङ्कानलभानुमण्डललसच्छ्रीचक्रमध्ये स्थितां बालार्कद्युतिभासुरां करतलैः पाशाङ्कुशौ बिभ्रतीम् ।
चापं बाणमपि प्रसन्नवदनां कौसुम्भवस्त्रान्वितां तां त्वां चन्द्रकलावतम्समकुटां चारुस्मितां भावये ॥ २॥
ईशनादिपदं शिवैकफलदं रत्नासनं ते शुभं (फलकं) पाद्यं कुङ्कुमचन्दनादिभरितैरर्घ्यं सरत्नाक्षतैः ।
शुद्धैराचमनीयकं तव जलैर्भक्त्या मया कल्पितं कारुण्यामृतवारिधे तदखिलं सन्तुष्टये कल्पताम् ॥ ३॥
लक्ष्ये योगिजनस्य रक्षितजगज्जाले विशालेक्षणे प्रालेयाम्बुपटीरकुङ्कुमलसत्कर्पूरमिश्रोदकैः ।
गोक्षीरैरपि नारिकेलसलिलैः शुद्धोदकैर्मन्त्रितैः स्नानं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥ ४॥
ह्रीङ्काराङ्कितमन्त्रलक्षिततनो हेमाचलात्सञ्चितैः रत्नैरुज्ज्वलमुत्तरीयसहितं कौसुम्भवर्णांशुकम् ।
मुक्तासन्ततियज्ञसूत्रममलं सौवर्णतन्तूत्भवं दत्तं देवि धिया मयैतदखिलं सन्तुष्टये कल्पताम् ॥ ५॥
हम्सैरप्यतिलोभनीयगमने हारावलीमुज्ज्वलां हिन्दोलद्युतिहीरपूरिततरे हेमाङ्गदेकङ्कणे ।
मञ्जीरौ मणिकुण्डले मकुटमप्यर्धेन्दुचूडामणिं नासामौक्तिकमङ्गुलीयकटकौ काञ्चीमपि स्वीकुरु ॥ ६॥
सर्वाङ्गे घनसारकुङ्कुमघनश्रीगन्धपङ्काङ्कितं कस्तूरीतिलकञ्च फालफलके गोरोचनापत्रकम् ।
गण्डादर्शनमण्डले नयनयोर्दिव्याञ्जनं तेऽञ्चितं कण्ठाब्जे मृगनाभिपङ्कममलं त्वत्प्रीतये कल्पताम् ॥ ७॥
कल्हारोत्पलमल्लिकामरुवकैः सौवर्णपङ्केरुहैर्जातीचम्पकमालतीवकुलकैर्मन्दारकुन्दादिभिः ।
केतक्या करवीरकैर्बहुविधैः कॢप्ताः स्रजो मालिकाः सङ्कल्पेन समर्पयामि वरदे सन्तुष्टये गृह्यताम् ॥ ८॥
हन्तारं मदनस्य नन्दयसि यैरङ्गैरनङ्गोज्ज्वलैर्यैर्भृङ्गावलिनीलकुन्तलभरैर्बध्नासि तस्याशयम् ।
तानीमानि तवाम्ब कोमलतराण्यामोदलीला गृहाण्यामोदाय दशाङ्गगुग्गुलुघृतैर्धूपैरहं धूपये ॥ ९॥
लक्ष्मीमुज्ज्वलयामि रत्ननिवहोत्भास्वत्त्तरे मन्दिरे मालारूपविलम्बितैर्मणिमयस्तम्भेषु सम्भावितैः ।
चित्रैर्हाटकपुत्रिकाकरधृतैःगव्यैर्घृतैर्वर्धितैर्दिव्यैर्दीपगणैर्धिया गिरिसुते सन्तुष्टये कल्पताम् ॥ १०॥
ह्रीङ्कारेश्वरि तप्तहाटककृतैः स्थालीसहस्रैर्भृतं दिव्यान्नं घृतसूपशाकभरितं चित्रान्नभेदं तथा ।
दुग्धान्नं मधुशर्करादधियुतं माणिक्यपात्रे स्थितं माषापूपसहस्रमम्ब सफलं नैवेद्यमावेदये ॥ ११॥
सच्छायैर्वरकेतकीदलरुचा ताम्बूलवल्लीदलैः पूगैर्भूरिगुणैः सुगन्धिमधुरैः कर्पूरखण्डोज्ज्वलैः ।
मुक्ताचूर्णविराजितैर्बहुविधैर्वक्त्राम्बुजामोदनैः पूर्णा रत्नकलाचिका तव मुदे न्यस्ता पुरस्तादुमे ॥ १२॥
कन्याभिः कमनीयकान्तिभिरलङ्कारामलारार्तिका पात्रे मौक्तिकचित्रपङ्क्तिविलसद्कर्पूरदीपावलिः ।
(दीपालिभिः) उतत्तत्तालमृदङ्गगीतसहितं नृत्यत्पदाम्भोरुहं मन्त्राराधनपूर्वकं सुविहितं नीराजनं गृह्यताम् ॥ १३॥
लक्ष्मीर्मौक्तिकलक्षकल्पितसितच्छत्रं तु धत्ते रसाद्इन्द्राणी च रतिश्च चामरवरे धत्ते स्वयं भारती ।
वीणामेणविलोचनाः सुमनसां नृत्यन्ति तद्रागवद्भावैराङ्गिकसात्त्विकैः स्फुटरसं मातस्तदाकर्ण्यताम् ॥ १४॥
ह्रीङ्कारत्रयसम्पुटेन मनुनोपास्ये त्रयीमौलिभिर्वाक्यैर्लक्ष्यतनो तव स्तुतिविधौ को वा क्षमेताम्बिके ।
सल्लापाः स्तुतयः प्रदक्षिणशतं सञ्चार एवास्तु ते संवेशो नमसः सहस्रमखिलं त्वत्प्रीतये कल्पताम् ॥ १५॥
श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा सन्ध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः ।
चित्ताम्भोरुहमण्डपे गिरिसुता नृत्तं विधत्तेरसाद्वाणी वक्त्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ॥ १६॥
इति गिरिवरपुत्रीपादराजीवभूषा भुवनममलयन्ती सूक्तिसौरभ्यसारैः ।
शिवपदमकरन्दस्यन्दिनीयं निबद्धा मदयतु कविभृङ्गान्मातृकापुष्पमाला ॥ १७॥
इति श्रीमच्छङ्करभगवत्पादविरचितः मन्त्रमातृकापुष्पमालास्तवः सम्पूर्णः ॥

Explore More