प्रार्थन
प्रसन्न वदनं ध्यायेत्सर्व विघ्नोपशान्तये ॥
अयं मुहूर्तस्सुमुहूर्तोऽस्तु ।
तदेव लग्नं सुदिनं तदेव, ताराबलं चन्द्रबलं तदेव, विद्याबलं दैवबलं तदेव, लक्ष्मीपते तेङ्घ्रियुगं स्मरामि, सुमुहूर्तोऽस्तु ।
यश्शिवो नामरूपाभ्यां या देवी सर्वमङ्गला ।
तयोस्संस्मरणात् पुंसां सर्वतो जयमङ्गलम् ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।
येषामिन्दीवरश्यामो हृदयस्थोजनार्थनः ॥
आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥
- शुक्लाम्बरधरम् (śuklāmbaradharam)who wears white
- विष्णुम् (viṣṇum)who fills everything
- शशिवर्णम् (śaśivarṇam)the colour of the moon
- चतुर्भुजम् (caturbhujam)four-armed
- प्रसन्नवदनम् (prasannavadanam)whose face is clear and kind
- ध्यायेत् (dhyāyet)one should hold in mind
- सर्वविघ्नोपशान्तये (sarvavighnopaśāntaye)so that every obstacle may be stilled
- अयम् (ayam)this
- मुहूर्तः (muhūrtaḥ)hour
- सुमुहूर्तः (sumuhūrtaḥ)a good hour
- अस्तु (astu)may it be
- तत् (tat)that
- एव (eva)itself
- लग्नम् (lagnam)the moment
- सुदिनम् (sudinam)the good day
- ताराबलम् (tārābalam)the strength of the stars
- चन्द्रबलम् (candrabalam)the strength of the moon
- विद्याबलम् (vidyābalam)the strength of learning
- दैवबलम् (daivabalam)the strength of the gods
- लक्ष्मीपते (lakṣmīpate)O lord of Lakshmi
- ते (te)your
- अङ्घ्रियुगम् (aṅghriyugam)two feet
- स्मरामि (smarāmi)I call to mind
- यः (yaḥ)he who
- शिवः (śivaḥ)is Shiva
- नामरूपाभ्याम् (nāmarūpābhyām)in name and in form
- या (yā)she who
- देवी (devī)the goddess
- सर्वमङ्गला (sarvamaṅgalā)in whom all is well
- तयोः (tayoḥ)of those two
- संस्मरणात् (saṃsmaraṇāt)from calling to mind
- पुंसाम् (puṃsām)for people
- सर्वतः (sarvataḥ)from every side
- जयमङ्गलम् (jayamaṅgalam)victory and good fortune
- लाभः (lābhaḥ)the gain
- तेषाम् (teṣām)theirs
- जयः (jayaḥ)the victory
- कुतः (kutaḥ)from where
- पराभवः (parābhavaḥ)defeat
- येषाम् (yeṣām)in whose
- इन्दीवरश्यामः (indīvaraśyāmaḥ)the one dark as a blue lotus
- हृदयस्थः (hṛdayasthaḥ)standing in the heart
- जनार्दनः (janārdanaḥ)the one people pray to
- आपदाम् (āpadām)of troubles
- अपहर्तारम् (apahartāram)the one who carries them away
- दातारम् (dātāram)the giver
- सर्वसम्पदाम् (sarvasampadām)of every kind of wealth
- लोकाभिरामम् (lokābhirāmam)the delight of the world
- श्रीरामम् (śrīrāmam)Shri Rama
- भूयो भूयः (bhūyo bhūyaḥ)again and again
- नमामि (namāmi)I bow
- अहम् (aham)I
anvaya शुक्लाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये अयम् मुहूर्तः सुमुहूर्तः अस्तु तत् एव लग्नम् सुदिनम् ताराबलम् चन्द्रबलम् विद्याबलम् दैवबलम् लक्ष्मीपते ते अङ्घ्रियुगम् स्मरामि यः शिवः नामरूपाभ्याम् या देवी सर्वमङ्गला तयोः संस्मरणात् पुंसाम् सर्वतः जयमङ्गलम् लाभः तेषाम् जयः कुतः पराभवः येषाम् इन्दीवरश्यामः हृदयस्थः जनार्दनः आपदाम् अपहर्तारम् दातारम् सर्वसम्पदाम् लोकाभिरामम् श्रीरामम् भूयो भूयः नमामि अहम्
chandas Anuṣṭubh verses with a line of prose between them
शुक्लाम्बरधरम् who wears white — The opening verse of almost every rite. It is usually taken as Ganesha, though the words name Vishnu, and both readings are old.
मुहूर्तः the hour — A muhurta is about forty-eight minutes, and also the auspicious moment chosen for a rite. The line asks that this one turn out to be that.
note The worship opens by making the present moment the right moment, whatever the almanac says. The printed जनार्थनः is read जनार्दनः.
सुमुखश्चैकदन्तश्च कपिलो गजकर्णिकः ।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥ 1 ॥
- श्रीविघ्नेश्वरषोडशनामस्तोत्रम् (śrīvighneśvaraṣoḍaśanāmastotram)the hymn of the sixteen names of Shri Vighneshvara
- सुमुखः (sumukhaḥ)the fair-faced
- च (ca)and
- एकदन्तः (ekadantaḥ)the one-tusked
- च (ca)and
- कपिलः (kapilaḥ)the tawny one
- गजकर्णिकः (gajakarṇikaḥ)the one with an elephant's ears
- लम्बोदरः (lambodaraḥ)the hanging-bellied
- च (ca)and
- विकटः (vikaṭaḥ)the huge one
- विघ्नराजः (vighnarājaḥ)the king of obstacles
- गणाधिपः (gaṇādhipaḥ)the chief of the ganas
anvaya श्रीविघ्नेश्वरषोडशनामस्तोत्रम् सुमुखः च एकदन्तः च कपिलः गजकर्णिकः लम्बोदरः च विकटः विघ्नराजः गणाधिपः
chandas Anuṣṭubh (śloka), 8 syllables in each of 4 pādas
षोडशनाम the sixteen names — A short list said before any undertaking. The same sixteen circulate on their own as the Shodasha Namavali.
वक्रतुण्ड-श्शूर्पकर्णो हेरम्ब-स्स्कन्दपूर्वजः ॥ 2 ॥
- धूमकेतुः (dhūmaketuḥ)the smoke-bannered
- गणाध्यक्षः (gaṇādhyakṣaḥ)who presides over the ganas
- फालचन्द्रः (phālacandraḥ)with the moon on his brow
- गजाननः (gajānanaḥ)the elephant-faced
- वक्रतुण्डः (vakratuṇḍaḥ)with the curving trunk
- शूर्पकर्णः (śūrpakarṇaḥ)whose ears are winnowing baskets
- हेरम्बः (herambaḥ)Heramba
- स्कन्दपूर्वजः (skandapūrvajaḥ)born before Skanda
anvaya धूमकेतुः गणाध्यक्षः फालचन्द्रः गजाननः वक्रतुण्डः शूर्पकर्णः हेरम्बः स्कन्दपूर्वजः
chandas Anuṣṭubh (śloka), 8 syllables in each of 4 pādas
note फाल is a spelling of भाल, the brow.
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सर्व कार्येषु विघ्नस्तस्य न जायते ॥ 3 ॥
- षोडश (ṣoḍaśa)sixteen
- एतानि (etāni)these
- नामानि (nāmāni)names
- यः (yaḥ)whoever
- पठेत् (paṭhet)recites
- शृणुयात् (śṛṇuyāt)hears
- अपि (api)even
- विद्यारम्भे (vidyārambhe)at the start of study
- विवाहे (vivāhe)at a wedding
- च (ca)and
- प्रवेशे (praveśe)on going in
- निर्गमे (nirgame)on going out
- तथा (tathā)and
- सङ्ग्रामे (saṅgrāme)in battle
- सर्वकार्येषु (sarvakāryeṣu)in everything he does
- विघ्नः (vighnaḥ)an obstacle
- तस्य (tasya)for him
- न (na)not
- जायते (jāyate)arises
anvaya यः एतानि षोडश नामानि पठेत् शृणुयात् अपि तस्य विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा सङ्ग्रामे सर्वकार्येषु विघ्नः न जायते
chandas Anuṣṭubh (śloka), in six pādas here rather than four
note The list of occasions is the ordinary business of a household: schooling, marriage, moving house, and whatever else has to be done. The printed शृणु-यादपि carries a break inside the word.
सर्वविघ्नच्चिदेतस्मै श्री महागणाधिपतये नमः ॥
ॐ श्रीलक्ष्मी नारायणाभ्यां नमः ।
ॐ उमा महेश्वराभ्यां नमः ।
ॐ वाणी हिरण्यगर्भाभ्यां नमः ।
ॐ शची पुरन्दराभ्यां नमः ।
ॐ अरुन्धती वशिष्ठाभ्यां नमः ।
ॐ श्री सितारामाभ्यां नमः ।
नमस्सर्वेभ्यो महाजनेभ्यो नमः ॥
अयं मुहूर्त-स्सुमुहूर्तोऽस्तु ॥
शरीर शुद्धि
अपवित्रः पवित्रो वा सर्वावस्था᳚-ङ्गतो-ऽपिवा ।
य-स्स्मरे-त्पुण्डरीकाक्षं स बाह्याभ्यन्तर श्शुचिः ॥
पुण्डरीकाक्ष ! पुण्डरीकाक्ष ! पुण्डरीकाक्षाय नमः ।
आचमनः
ॐ आचम्य
ॐ केशवाय स्वाहा
ॐ नारायणाय स्वाहा
ॐ माधवाय स्वाहा (इति त्रिराचम्य)
ॐ गोविन्दाय नमः (पाणी मार्जयित्वा)
ॐ विष्णवे नमः
ॐ मधुसूदनाय नमः (ओष्ठौ मार्जयित्वा)
ॐ त्रिविक्रमाय नमः
ॐ वामनाय नमः (शिरसि जलं प्रोक्ष्य)
ॐ श्रीधराय नमः
ॐ हृषीकेशाय नमः (वामहस्तॆ जलं प्रोक्ष्य)
ॐ पद्मनाभाय नमः (पादयोः जलं प्रोक्ष्य)
ॐ दामोदराय नमः (शिरसि जलं प्रोक्ष्य)
ॐ सङ्कर्षणाय नमः (अङ्गुलिभिश्चिबुकं जलं प्रोक्ष्य)
ॐ वासुदेवाय नमः
ॐ प्रद्युम्नाय नमः (नासिकां स्पृष्ट्वा)
ॐ अनिरुद्धाय नमः
ॐ पुरुषोत्तमाय नमः
ॐ अधोक्षजाय नमः
ॐ नारसिंहाय नमः (नेत्रे श्रोत्रे च स्पृष्ट्वा)
ॐ अच्युताय नमः (नाभिं स्पृष्ट्वा)
ॐ जनार्धनाय नमः (हृदयं स्पृष्ट्वा)
ॐ उपेन्द्राय नमः (हस्तं शिरसि निक्षिप्य)
ॐ हरये नमः
ॐ श्रीकृष्णाय नमः (अंसौ स्पृष्ट्वा)
ॐ श्रीकृष्ण परब्रह्मणे नमो नमः
भूतोच्चाटन
उत्तिष्ठन्तु । भूत पिशाचाः । ये ते भूमिभारकाः । ये तेषामविरोधेन । ब्रह्मकर्म समारभे । ॐ भूर्भुवस्सुवः ।
दैवी गायत्री चन्दः प्राणायामे विनियोगः
प्राणायामः
ओ-म्भूः । ओ-म्भुवः । ओग्ं सुवः । ओ-म्महः । ओ-ञ्जनः । ओ-न्तपः । ओग्ं स॒त्यम् ।
ओ-न्तत्स॑वि॒तुर्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥
ओमापो॒ ज्योती॒ रसो॒-ऽमृत॒-म्ब्रह्म॒ भू-र्भुव॒-स्सुव॒रोम् ॥
सङ्कल्पः
ममोपात्त, दुरित क्षयद्वारा, श्री परमेश्वर-मुद्दिस्य, श्री परमेश्वर प्रीत्यर्थं, शुभे, शोभने, अभ्युदय मुहूर्ते, श्री महाविष्णो राज्ञया, प्रवर्त मानस्य, अद्य ब्रह्मणः, द्वितीय परार्थे, श्वेतवराह कल्पे, वैवश्वत मन्वन्तरे, कलियुगे, प्रथम पादे, (भारत देशः - जम्बू द्वीपे, भरत वर्षे, भरत खण्डे, मेरोः दक्षिण/उत्तर दिग्भागे; अमेरिका - क्रौञ्च द्वीपे, रमणक वर्षे, ऐन्द्रिक खण्डे, सप्त समुद्रान्तरे, कपिलारण्ये), शोभन गृहे, समस्त देवता ब्राह्मण, हरिहर गुरुचरण सन्निथौ, अस्मिन्, वर्तमान, व्यावहारिक, चान्द्रमान, ... संवत्सरे, ... अयने, ... ऋते, ... मासे, ... पक्षे, ... तिथौ, ... वासरे, ... शुभ नक्षत्र, शुभ योग, शुभ करण, एवङ्गुण, विशेषण, विशिष्ठायां, शुभ तिथौ, श्रीमान्, ... गोत्रः, ... नामधेयः, ... गोत्रस्य, ... नामधेयोहं ... मम धर्मपत्नी समेतस्य, अस्माकं सहकुटुम्बानां, क्षेमस्थैर्य विजय अभय आयुरारोग्य ऐश्वर्याभिवृध्ह्यर्थं, धर्मार्थ काम मोक्ष चतुर्विध फल पुरुषार्थ सिद्द्यर्थं, इष्टकाम्यार्थ सिद्ध्यर्थं, मनोवाञ्छाफल सिद्धर्थं, समस्त दुरितोप शान्त्यर्थं, समस्त मङ्गलावाप्यर्थं, पुत्रपौत्राभिवृद्ध्यर्थं, सकलकार्येषु सर्वदा दिग्विजयसिद्ध्यर्थं, वर्षे वर्षे प्रयुक्त श्री वरसिद्धि विनायक देवता-मुद्धिस्य, श्री वरसिद्धि विनायक देवता प्रीत्यर्थं, कल्पोक्त प्रकारेण यावच्छक्ति ध्यानावाहनादि षोडशोपचारपूजां करिष्ये ।
तदङ्ग कलशपूजां करिष्ये ॥
कलशं गन्धपुष्पाक्षतैरभ्यर्च्य ।
तस्योपरि हस्तं निधाय -
कलश पूजा
कलशस्य मुखे विष्णुः कण्ठे रुद्र-स्समाहितः ।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणास्मृताः ॥
कुक्षौतु सागराः सर्वे सप्तद्व्वीपा वसुन्धरा ।
ऋग्वेदोध यजुर्वेद-स्सामवेदो-ह्यधर्वणः ॥
अङ्गैश्च सहितास्सर्वे कलशाम्बु समाश्रिताः ।
आ कलशेषु धावति पवित्रे परिषिच्यते ।
उक्थैर्यज्ञेषु वर्धते ॥
आपो॒ वा इ॒दग्ं सर्वं॒-विँश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपो-ऽन्न॒मापो -ऽमृ॑त॒मापः॑ स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडाप॒-श्छन्दा॒ग्॒स्यापो॒ ज्योती॒ग्॒ष्यापो॒ यजू॒ग्॒ष्यापः॑ स॒त्यमाप॒-स्सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒स्सुव॒राप॒ ओम् ॥ 29.1 (तै. अर. 6.29.1)
गङ्गे च यमुने चैव गोदावरि सरस्वती ।
नर्मदे सिन्धु कावेरी जलेस्मिन् सन्निधिं कुरु ॥
आयान्तु देवपूजार्थं दुरितक्षयकारकाः ।
(कलशोदकेन पूजाद्रव्याणि, आत्मानं, देवं च सम्प्रोक्ष्य)
ओ-ङ्ग॒णाना᳚-न्त्वा ग॒णप॑तिग्ं हवामहे क॒वि-ङ्क॑वी॒नां उप॒मश्र॑वस्तवम् ।
ज्ये॒ष्ठ॒राज॒-म्ब्रह्म॑णा-म्ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥
श्री वरसिद्धि विनायक देवताये नमः ।
अथ प्राणप्रतिष्ठापनं करिष्ये ।
श्री वरसिद्धि विनायक प्राण प्रतिष्ठा
ॐ असुनीते पुनरस्मासु चक्षुः पुनःप्राणमिह नो धेहि भोगम् ।
ज्योक्पश्येम सूर्यमुच्चरं तमनुमते मृडया नः स्स्वस्ति ॥ ऋ.वे. - 10.59.6
अमृतं वै प्राणा अमृतमापः प्राणानेव यथास्थानमुपह्वयते ।
इत्याद्येन प्राणप्रतिष्ठापनं कृत्वा, नमस्कृत्वा ॥
ॐ श्री वरसिद्धि विनायकाय नमः ।
स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम् ।
तावत्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु ॥
आवाहितो भव, स्थापितो भव, सुमुखो भव, सुप्रसन्नो भव, वरदो भव, प्रसीद, प्रसीद, प्रसीद ।
षोडशोपचार पूजा
प्रार्थन
भवसञ्चितपापौघ विध्वंसनविचक्षणम् ।
विघ्नान्धकारभास्वन्तं विघ्नराजमहं भजे ॥
एकदन्तं शूर्पकर्णं गजवक्त्रं चतुर्भुजम् ।
पाशाङ्कुशधरं देवं ध्यायेत्सिद्धिविनायकम् ॥
उत्तमं गणनाथस्य व्रतं सम्पत्करं शुभम् ।
भक्ताभीष्टप्रदं तस्माद्ध्यायेत्तं विघ्ननायकम् ॥
ध्यानं
ध्यायेद्गजाननं देवं तप्तकाञ्चनसन्निभम् ।
चतुर्भुजं महाकायं सर्वाभरणभूषितम् ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः ध्यायामि ।
आवाहनं
(सहस्रशीर्षा ... दशाङ्गुलम्)
अत्रागच्छ जगद्वन्द्य सुरराजार्चितेश्वर ।
अनाथनाथ सर्वज्ञ गौरीगर्भसमुद्भव ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः आवाहयामि ।
आसनं
(पुरुष एवेदगं ... अतिरोहति)
मौक्तिकैः पुष्परागैश्च नानारत्नैर्विराजितम् ।
रत्नसिंहासनं चारु प्रीत्यर्थं प्रतिगृह्यताम् ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः आसनं समर्पयामि ।
अर्घ्यं
(एतावानस्य ... दिवि)
गौरीपुत्र नमस्तेऽस्तु शङ्करप्रियनन्दन ।
गृहाणार्घ्यं मया दत्तं गन्धपुष्पाक्षतैर्युतम् ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः अर्घ्यं समर्पयामि ।
पाद्यं
(त्रिपादूर्ध्वः ... अभि)
गजवक्त्र नमस्तेऽस्तु सर्वाभीष्टप्रदायक ।
भक्त्या पाद्यं मया दत्तं गृहाण द्विरदानन ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः पाद्यं समर्पयामि ।
मधुपर्कः
दधिक्षीरसमायुक्तं मध्वाज्येन समन्वितम् ।
मधुपर्कं गृहाणेदं गजवक्त्र नमोऽस्तु ते ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः मधुपर्कं समर्पयामि ।
आचमनीयं
(तस्माद्विराडजायत ... पुरः)
अनाथनाथ सर्वज्ञ गीर्वाणवरपूजित ।
गृहाणाचमनं देव तुभ्यं दत्तं मया प्रभो ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः आचमनीयं समर्पयामि ।
पञ्चामृत स्नानं
पयो दधि घृतं चैव शर्करा मधु संयुतम् ।
पञ्चामृतं गृहाणेदं स्नानाय गणनायक ॥
स्नानं पञ्चामृतैर्देव गृहाण गणनायक ।
अनाथनाथ सर्वज्ञ गीर्वाणगणपूजित ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः पञ्चामृत स्नानं समर्पयामि ।
शुद्धोदक स्नानं
(यत्पुरुषेण ... हविः)
गङ्गादिसर्वतीर्थेभ्य आहृतैरमलैर्जलैः ।
स्नानं कुरुष्य भगवन्नुमापुत्र नमोऽस्तु ते ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं आचमनीयं समर्पयामि ।
वस्त्रं
(सप्तास्यासन् ... पशुम्)
रक्तवस्त्रद्वयं चारु देवयोग्यं च मङ्गलम् ।
शुभप्रद गृहाण त्वं लम्बोदर हरात्मज ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः वस्त्रयुग्मं समर्पयामि ।
यज्ञोपवीतं
राजतं ब्रह्मसूत्रं च काञ्चनं चोत्तरीयकम् ।
गृहाण देव सर्वज्ञ भक्तानामिष्टदायक ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः यज्ञोपवीतं समर्पयामि ।
गन्धं
चन्दनागरु कर्पूर कस्तूरी कुङ्कुमान्वितम् ।
विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः श्रीगन्धान् धारयामि ।
अक्षतान्
अक्षतान् धवलान् दिव्यान् शालीयांस्तण्डुलान् शुभान् ।
गृहाण परमानन्द शम्भुपुत्र नमोऽस्तु ते ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः अलङ्करणार्थं अक्षतान् समर्पयामि ।
पुष्पाणि
सुगन्धानि च पुष्पाणि जातीकुन्दमुखानि च ।
एकविंशतिपत्राणि सङ्गृहाण नमोऽस्तु ते ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः पुष्पैः पूजयामि ।
अथाङ्गपूजा
ॐ गणेशाय नमः - पादौ पूजयामि ।
ॐ एकदन्ताय नमः - गुल्फौ पूजयामि ।
ॐ शूर्पकर्णाय नमः - जानुनी पूजयामि ।
ॐ विघ्नराजाय नमः - जङ्घे पूजयामि ।
ॐ आखुवाहनाय नमः - ऊरूं पूजयामि ।
ॐ हेरम्बाय नमः - कटिं पूजयामि ।
ॐ लम्बोदराय नमः - उदरं पूजयामि ।
ॐ गणनाथाय नमः - नाभिं पूजयामि ।
ॐ गणेशाय नमः - हृदयं पूजयामि ।
ॐ स्थूलकण्ठाय नमः - कण्ठं पूजयामि ।
ॐ स्कन्दाग्रजाय णमह श्कन्धौ पूजयामि ।
ॐ पाशहस्ताय णमह हस्थौ पूजयामि ।
ॐ गजवक्त्राय नमः - वक्त्रं पूजयामि ।
ॐ विघ्नहन्त्रे नमः - नेत्रं पूजयामि ।
ॐ शूर्पकर्णाय नमः - कर्णौ पूजयामि ।
ॐ फालचन्द्राय नमः - ललाटं पूजयामि ।
ॐ सर्वेश्वराय नमः - शिरः पूजयामि ।
ॐ विघ्नराजाय नमः - सर्वाण्य्ङ्गाणि पूजयामि ।
अथैकविंशति पत्रपूजा
सुमुखायनमः - माचीपत्रं पूजयामि (दर्भ) ।
गणाधिपाय नमः - बृहतीपत्रं पूजयामि ।
उमापुत्राय नमः - बिल्वपत्रं पूजयामि (मारेडु) ।
गजाननाय नमः - दुर्वायुग्मं पूजयामि(गरिक) ।
हरसूनवेनमः - दत्तूरपत्रं पूजयामि (उम्मॆत्त) ।
लम्बोदरायनमः - बदरीपत्रं पूजयामि (रेगु) ।
गुहाग्रजायनमः - अपामार्गपत्रं पूजयामि (उत्तरेणि) ।
गजकर्णायनमः - तुलसीपत्रं पूजयामि ।
एकदन्ताय नमः - चूतपत्रं पूजयामि (आम्र) ।
विकटाय नमः - करवीरपत्रं पूजयामि (गन्नेरु)।
भिन्नदन्ताय नमः - विष्णुक्रान्तपत्रं पूजयामि ।
वटवेनमः - दाडिमीपत्रं पूजयामि (दानिम्म) ।
सर्वेश्वरायनमः - देवदारुपत्रं पूजयामि ।
फालचन्द्राय नमः - मरुवकपत्रं पूजयामि ।
हेरम्बायनमः - सिन्धुवारपत्रं पूजयामि ।
शूर्पकर्णायनमः - जाजीपत्रं पूजयामि ।
सुराग्रजायनमः - गण्डकीपत्रं पूजयामि ।
इभवक्त्रायनमः - शमीपत्रं पूजयामि (जम्मि) ।
विनायकाय नमः - अश्वत्थपत्रं पूजयामि (रावि) ।
सुरसेविताय नमः - अर्जुनपत्रं पूजयामि (मद्दि) ।
कपिलाय नमः - अर्कपत्रं पूजयामि (जिल्लेडु) ।
श्री गणेश्वराय नमः - एकविंशति पत्राणि पूजयामि ।
एकविंशति पुष्प पूजा
ॐ पञ्चास्य गणपतये नमः - पुन्नाग पुष्पं समर्पयामि ।
ॐ महा गणपतये नमः - मन्दार पुष्पं समर्पयामि ।
ॐ धीर गणपतये नमः - दाडिमी पुष्पं समर्पयामि ।
ॐ विष्वक्सेन गणपतये नमः - वकुल पुष्पं समर्पयामि ।
ॐ आमोद गणपतये नमः - अमृणाल(तामर) पुष्पं समर्पयामि ।
ॐ प्रमथ गणपतये नमः - पाटली पुष्पं समर्पयामि ।
ॐ रुद्र गणपतये नमः - द्रोण पुष्पं समर्पयामि ।
ॐ विद्या गणपतये नमः - धत्तूर पुष्पं समर्पयामि ।
ॐ विघ्न गणपतये नमः - चम्पक पुष्पं समर्पयामि ।
ॐ दुरित गणपतये नमः - रसाल पुष्पं समर्पयामि ।
ॐ कामितार्थप्रद गणपतये नमः - केतकी पुष्पं समर्पयामि ।
ॐ सम्मोह गणपतये नमः - माधवी पुष्पं समर्पयामि ।
ॐ विष्णु गणपतये नमः - शम्याक पुष्पं समर्पयामि ।
ॐ ईश गणपतये नमः - अर्क पुष्पं समर्पयामि ।
ॐ गजास्य गणपतये नमः - कल्हार पुष्पं समर्पयामि ।
ॐ सर्वसिद्धि गणपतये नमः - सेवन्तिका पुष्पं समर्पयामि ।
ॐ वीर गणपतये नमः - बिल्व पुष्पं समर्पयामि ।
ॐ कन्दर्प गणपतये नमः - करवीर पुष्पं समर्पयामि ।
ॐ उच्छिष्ठ गणपतये नमः - कुन्द पुष्पं समर्पयामि ।
ॐ ब्रह्म गणपतये नमः - पारिजात पुष्पं समर्पयामि ।
ॐ ज्ञान गणपतये नमः - जाती पुष्पं समर्पयामि ।
एकविंशति दूर्वायुग्म पूजा
ॐ गणाधिपाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ पाशाङ्कुशधराय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ आखुवाहनाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ विनायकाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ ईशपुत्राय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ सर्वसिद्धिप्रदाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ एकदन्ताय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ इभवक्त्राय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ मूषकवाहनाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ कुमारगुरवे नमः - दूर्वायुग्मं समर्पयामि ।
ॐ कपिलवर्णाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ ब्रह्मचारिणे नमः - दूर्वायुग्मं समर्पयामि ।
ॐ मोदकहस्ताय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ सुरश्रेष्ठाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ गजनासिकाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ कपित्थफलप्रियाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ गजमुखाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ सुप्रसन्नाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ सुराग्रजाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ उमापुत्राय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ स्कन्दप्रियाय नमः - दूर्वायुग्मं समर्पयामि ।
ॐ श्री वरसिद्धि विनायक स्वामिने नमः नानाविध पत्र पुष्पाणि समर्पयामि ।
श्री विनायक अष्टोत्तरशत नाम पूजा
ॐ गजाननाय नमः
ॐ गणाध्यक्षाय नमः
ॐ विघ्नराजाय नमः
ॐ विनायकाय नमः
ॐ द्वैमातुराय नमः
ॐ द्विमुखाय नमः
ॐ प्रमुखाय नमः
ॐ सुमुखाय नमः
ॐ कृतिने नमः
ॐ सुप्रदीप्ताय नमः (10)
ॐ सुखनिधये नमः
ॐ सुराध्यक्षाय नमः
ॐ सुरारिघ्नाय नमः
ॐ महागणपतये नमः
ॐ मान्याय नमः
ॐ महाकालाय नमः
ॐ महाबलाय नमः
ॐ हेरम्बाय नमः
ॐ लम्बजठराय नमः
ॐ ह्रस्वग्रीवाय नमः (20)
ॐ प्रथमाय नमः
ॐ प्राज्ञाय नमः
ॐ प्रमोदाय नमः
ॐ मोदकप्रियाय नमः
ॐ विघ्नकर्त्रे नमः
ॐ विघ्नहन्त्रे नमः
ॐ विश्वनेत्रे नमः
ॐ विराट्पतये नमः
ॐ श्रीपतये नमः
ॐ वाक्पतये नमः (30)
ॐ शृङ्गारिणे नमः
ॐ आश्रितवत्सलाय नमः
ॐ शिवप्रियाय नमः
ॐ शीघ्रकारिणे नमः
ॐ शाश्वताय नमः
ॐ बल्वान्विताय नमः
ॐ बलोद्दताय नमः
ॐ भक्तनिधये नमः
ॐ भावगम्याय नमः
ॐ भावात्मजाय नमः (40)
ॐ अग्रगामिने नमः
ॐ मन्त्रकृते नमः
ॐ चामीकर प्रभाय नमः
ॐ सर्वाय नमः
ॐ सर्वोपास्याय नमः
ॐ सर्वकर्त्रे नमः
ॐ सर्वनेत्रे नमः
ॐ सर्वसिद्धिप्रदाय नमः
ॐ सर्वसिद्धाय नमः
ॐ सर्ववन्द्याय नमः (50)
ॐ नर्वसिद्दि-प्रदाय नमः
ॐ पञ्चहस्ताय नमः
ॐ पार्वतीनन्दनाय नमः
ॐ प्रभवे नमः
ॐ कुमार गुरवे नमः
ॐ कुञ्जरासुर-भञ्जनाय नमः
ॐ कान्तिमते नमः
ॐ धृतिमते नमः
ॐ कामिने नमः
ॐ कपित्थफलप्रियाय नमः (60)
ॐ ब्रह्मचारिणे नमः
ॐ ब्रह्मरूपिणे नमः
ॐ महोदराय नमः
ॐ मदोत्कटाय नमः
ॐ महावीराय नमः
ॐ मन्त्रिणे नमः
ॐ मङ्गलसुस्वराय नमः
ॐ प्रमदाय नमः
ॐ ज्यायसे नमः
ॐ यक्षिकिन्नरसेविताय नमः (70)
ॐ गङ्गासुताय नमः
ॐ गणाधीशाय नमः
ॐ गम्भीरनिनदाय नमः
ॐ वटवे नमः
ॐ ज्योतिषे नमः
ॐ अक्रान्त-पदचित्प्रभवे नमः
ॐ अभीष्टवरदाय नमः
ॐ मङ्गलप्रदाय नमः
ॐ अव्यक्त रूपाय नमः
ॐ पुराणपुरुषाय नमः (80)
ॐ पूष्णे नमः
ॐ पुष्करोत्क्षिप्त-वारणाय नमः
ॐ अग्रगण्याय नमः
ॐ अग्रपूज्याय नमः
ॐ अपाकृतपराक्रमाय नमः
ॐ सत्यधर्मिणे नमः
ॐ सख्यै नमः
ॐ साराय नमः
ॐ सरसाम्बुनिधये नमः
ॐ महेशाय नमः (90)
ॐ विशदाङ्गाय नमः
ॐ मणिकिङ्किणी मेखलाय नमः
ॐ समस्तदेवतामूर्तये नमः
ॐ सहिष्णवे नमः
ॐ ब्रह्मविद्यादि दानभुवे नमः
ॐ विष्णवे नमः
ॐ विष्णुप्रियाय नमः
ॐ भक्तजीविताय नमः
ॐ ऐश्वर्यकारणाय नमः
ॐ सततोत्थिताय नमः (100)
ॐ विष्वग्दृशेनमः
ॐ विश्वरक्षा-विधानकृते नमः
ॐ कल्याणगुरवे नमः
ॐ उन्मत्तवेषाय नमः
ॐ परजयिने नमः
ॐ समस्त जगदाधाराय नमः
ॐ सर्वैश्वर्यप्रदाय नमः
ॐ श्री विघ्नेश्वराय नमः (108)
श्री महागणाधिपतये नमः ।
नानाविध परिमल पत्रपुष्प पूजां समर्पयामि ।
धूपं
दशाङ्गं गुग्गुलोपेतं सुगन्धि सुमनोहरम् ।
उमासुत नमस्तुभ्यं गृहाण वरदो भव ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः धूपमाघ्रापयामि ।
दीपं
साज्यं त्रिवर्तिसंयुक्तं वह्निना द्योतितं मया ।
गृहाण मङ्गलं दीपं ईशपुत्र नमोऽस्तु ते ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः दीपं दर्शयामि ।
नैवेद्यं
सुगन्धान् सुकृतांश्चैव मोदकान् घृत पाचितान् ।
नैवेद्यं गृह्यतां देव चणमुद्गैः प्रकल्पितान् ॥
भक्ष्यं भोज्यं च लेह्यं च चोष्यं पानीयमेव च ।
इदं गृहाण नैवेद्यं मया दत्तं विनायक ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः नैवेद्यं समर्पयामि ।
ताम्बूलं
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।
कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः ताम्बूलं समर्पयामि ।
ताम्बूल चर्वणानन्तरं आचमनीयं समर्पयामि ।
नीराजनं
घृतवर्ति सहस्रैश्च कर्पूरशकलैस्तथा ।
नीराजनं मया दत्तं गृहाण वरदो भव ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः नीराजनं समर्पयामि ।
नीराजनानन्तरं आचमनीयं समर्पयामि ।
मन्त्रपुष्पं
गणाधिप नमस्तेऽस्तु उमापुत्राघनाशन ।
विनायकेशतनय सर्वसिद्धिप्रदायक ॥
एकदन्तैकवदन तथा मूषकवाहन ।
कुमारगुरवे तुभ्यमर्पयामि सुमाञ्जलिम् ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः मन्त्रपुष्पं समर्पयामि ।
प्रदक्षिणं
प्रदक्षिणं करिष्यामि सततं मोदकप्रिय ।
मद्विघ्नं हरये शीघ्रं भक्तानामिष्टदायक ॥
आखुवाहन देवेश विश्वव्यापिन् विनायक ।
प्रदक्षिणं करोमि त्वां प्रसीद वरदो भव ॥
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः ।
त्राहि मां कृपया देव शरणागतवत्सल ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष गणाधिप ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।
साष्टाङ्ग नमस्कारं
नमो नमो गणेशाय नमस्ते विश्वरूपिणे ।
निर्विघ्नं कुरु मे कामं नमामि त्वां गजानना ॥
अगजानन पद्मार्कं गजानन महर्निशम् ।
अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥
नमस्ते भिन्नदन्ताय नमस्ते हरसूनवे ।
ममाभीष्टप्रदो भूयो विनायक नमोऽस्तु ते ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः साष्टाङ्ग नमस्कारं समर्पयामि ।
प्रार्थन
प्रसीद देवदेवेश प्रसीद गणनायक ।
ईप्सितं मे वरं देहि परत्र च पराङ्गतिम् ॥
विनायक वरं देहि महात्मन् मोदकप्रिय ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः प्रार्थन नमस्कारान् समर्पयामि ।
राजोपचार पूजा
ॐ श्री वरसिद्धि विनायक स्वामिने नमः । छत्रमाच्छादयामि ।
ॐ श्री वरसिद्धि विनायक स्वामिने नमः । चामरैर्वीजयामि ।
ॐ श्री वरसिद्धि विनायक स्वामिने नमः । गीतं श्रावयामि ।
ॐ श्री वरसिद्धि विनायक स्वामिने नमः । नृत्यं दर्शयामि ।
ॐ श्री वरसिद्धि विनायक स्वामिने नमः । वाद्यं घोषयामि ।
ॐ श्री वरसिद्धि विनायक स्वामिने नमः । आन्दोलिकान् आरोहयामि ।
ॐ श्री वरसिद्धि विनायक स्वामिने नमः । अश्वान् आरोहयामि ।
ॐ श्री वरसिद्धि विनायक स्वामिने नमः । गजान् आरोहयामि ।
ॐ श्री वरसिद्धि विनायक स्वामिने नमः । समस्त राजोपचारान् देवोपचारान् समर्पयामि ।
पुनरर्घ्यं
अर्घ्यं गृहाण हेरम्ब वरप्रद विनायक ।
गन्धपुष्पाक्षतैर्युक्तं भक्त्या दत्तं मया प्रभो ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ।
नमस्तुभ्यं गणेशाय नमस्ते विघ्ननायक ।
पुनरर्घ्यं प्रदास्यामि गृहाण गणनायक ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ।
नमस्ते भिन्नदन्ताय नमस्ते हरसूनवे ।
यिदमर्घ्यं प्रदास्यामि गृहाण गणनायक ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ।
गौर्यङ्गमलसम्भूत स्वामि ज्येष्ठ विनायक ।
गणेश्वर गृहाणार्घ्यं गजानन नमोऽस्तु ते ॥
ॐ श्री वरसिद्धि विनायक स्वामिने नमः इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम् ।
समर्पणं
यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं
षोडशोपचार the sixteen services — The sixteen things done for a guest, from calling him in to seeing him off, offered here to the god in his image.
प्राणप्रतिष्ठा the setting of life in the image — The moment at which the clay figure stops being clay. It is what makes the immersion at the end of the days a farewell rather than a disposal.
सङ्कल्पः the statement of intent — The worshipper says aloud where he is, what day it is and what he means to do, which is what turns actions into a rite.
एकविंशति पत्र the twenty-one leaves — Twenty-one named leaves offered one by one, each with its own name of the god. They are gathered fresh, which is why the festival is tied to the season.
note This block is the order of worship itself: a long sequence of instructions with short verses set into it. It is given here as a whole, in the order it is performed, rather than word by word, because it is a procedure and not a hymn.
