Lord Krishna

गीतगोविन्दं अष्टमः सर्गः - विलक्ष्य लक्ष्मीपतिः

(Gita Govinda, Eighth Canto: Vilakshya Lakshmipatih)

Jayadeva

Composed by the 12th-century poet Jayadeva, the Gita Govinda is a masterpiece of Sanskrit devotional literature focusing on the divine love between Lord Krishna and Radha. This eighth canto, Vilakshya Lakshmipatih, depicts the intense emotional dialogue between the repentant Krishna and the heartbroken Radha. Through exquisite lyrical verses, Jayadeva illustrates the complexity of divine longing and reconciliation. Chanting or reflecting upon these verses helps devotees transcend worldly attachments, fostering a deep sense of surrender, emotional purification, and an intimate, mystical connection with the playful yet sublime presence of Lord Krishna.

॥ अष्टमः सर्गः ॥

॥ विलक्ष्यलक्ष्मीपतिः ॥
अथ कथमपि यामिनीं विनीय स्मरशरजर्जरितापि सा प्रभाते ।
अनुनयवचनं वदन्तमग्रे प्रणतमपि प्रियमाह साभ्यसूयम् ॥ 49 ॥
॥ गीतं 17 ॥
रजनिजनितगुरुजागररागकषायितमलसनिवेशम् ।
वहति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशम् ॥
हरिहरि याहि माधव याहि केशव मा वद कैतववादं तामनुसर सरसीरुहलोचन या तव हरति विषादम् ॥ 50 ॥
कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपम् ।
दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपम् ॥ 2 ॥
वपुरनुहरति तव स्मरसङ्गरखरनखरक्षतरेखम् ।
मरकतशकलकलितकलधौतलिपिरेव रतिजयलेखम् ॥ 3 ॥
चरणकमलगलदलक्तकसिक्तमिदं तव हृदयमुदारम् ।
दर्शयतीव बहिर्मदनद्रुमनवकिसलयपरिवारम् ॥ 4 ॥
दशनपदं भवदधरगतं मम जनयति चेतसि खेदम् ।
कथयति कथमधुनापि मया सह तव वपुरेतदभेदम् ॥ 5 ॥
बहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम् ।
कथमथ वञ्चयसे जनमनुगतमसमशरज्वरदूनम् ॥ 6 ॥
भ्रमति भवानबलाकवलाय वनेषु किमत्र विचित्रम् ।
प्रथयति पूतनिकैव वधूवधनिर्दयबालचरित्रम् ॥ 7 ॥
श्रीजयदेवभणितरतिवञ्चितखण्डितयुवतिविलापम् ।
शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम् ॥ 8 ॥
तदेवं पश्यन्त्याः प्रसरदनुरागं बहिरिव प्रियापादालक्तच्छुरितमरुणच्छायहृदयम् ।
ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव त्वदालोकः शोकादपि किमपि लज्जां जनयति ॥ 50 ॥
॥ इति गीतगोविन्दे खण्डितावर्णने विलक्ष्यलक्ष्मीपतिर्नाम अष्ठमः सर्गः ॥

Explore More