॥ दशमः सर्गः ॥
सव्रीडमीक्षितसखीवदनां दिनान्ते सानन्दगद्गदपदं हरिरित्युवाच॥ 53 ॥
स्फुरदधरसीधवे तव वदनचन्द्रमा रोचयतु लोचनचकोरम् ॥
प्रिये चारुशीले मुञ्च मयि मानमनिदानं सपदि मदनानलो दहति मम मानसं देहि मुखकमलमधुपानम् ॥ 1 ॥
घटय भुजबन्धनं जनय रदखण्डनं येन वा भवति सुखजातम् ॥ 2 ॥
भवतु भवतीह मयि सततमनोरोधिनि तत्र मम हृदयमतिरत्नम् ॥ 3 ॥
कुसुमशरबाणभावेन यदि रञ्जयसि कृष्णमिदमेतदनुरूपम् ॥ 4 ॥
रसतु रशनापि तव घनजघनमण्डले घोषयतु मन्मथनिदेशम् ॥ 5 ॥
भण मसृणवाणि करवाणि पदपङ्कजं सरसलसदलक्तकरागम् ॥ 6 ॥
ज्वलति मयि दारुणो मदनकदनारुणो हरतु तदुपाहितविकारम् ॥ 7 ॥
जयति पद्मावतीरमणजयदेवकवि-भारतीभणितमतिशातम् ॥ 8 ॥
विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं स्तनभरपरीरम्भारम्भे विधेहि विधेयताम् ॥ 54 ॥
चण्डि त्वमेव मुदमञ्च न पञ्चबाण-चण्डालकाण्डदलनादसवः प्रयान्तु ॥ 55 ॥
सुमुखि विमुखीभावं तावद्विमुञ्च न मुञ्च मां स्वयमतिशयस्निग्धो मुग्धे प्रियिऽहमुपस्थितः ॥ 56 ॥
नासाभ्येति तिलप्रसूनपदवीं कुन्दाभदान्ति प्रिये प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥ 57 ॥
रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवा-वहो विबुधयौवनं वहसि तन्वी पृथ्वीगता ॥ 58 ॥
