Lord Vitthal

श्री पाण्डुरङ्ग स्तोत्रम्

(Sri Panduranga Stotram)

Also known as panduranga stotram mayureshwara · shri panduranga stotram · shree panduranga stotram

Eleven Sanskrit verses to the Vitthal of Pandharpur, and their whole art is yamaka. Each verse's quarters close on the same run of syllables divided differently every time, so the sound repeats while the sense moves off. What is praised is put in the feminine throughout: not the god directly but the siddhi, the accomplished presence that Pundarika won on the bank of the Bhimarathi, which the good now embrace and which the devout have kept hidden. The ninth verse is the showpiece, sadhunirajita sadhunira ajita sa dhuni rajita, one string of sound parsed three ways, ending on the river that shines even on Shambhu's crest. The last verse lets the conceit go and calls him some dark lamp that loves its moth, taking away heat, spotless, and making oil of affection.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

सख्यामापुर्यया बालगोपा वने भीमरथ्यास्तटे सत्यतः पावने ।
साधिता पुण्डरीकेण या साधुना सिद्धिरालिङ्ग्यते सज्जनैः साधुना ॥ १॥
क्वापि कस्मादपीषन्नदासादरं यान्त्विति त्यक्तनिद्रं सदासादरं ।
तिष्ठते या कलौ सानुकम्पाऽवनौ श्यामलाहं तदङ्घी भजे पावनौ ॥ २॥
विठ्ठलाख्या भवाब्धौ तरिः पारदा यां श्रिता वज्रवेदेन्दुभृन्नारदाः ।
स्थापयामास सद्धार्मिकः कोऽपि तां चेतसैवाश्रये साधुभिर्गोपिताम् ॥ ३॥
पाणिपद्मद्वयन्यासराजत्कटिं श्यामलां कोमलां पीतविद्युत्पटीम् ।
साधुभिर्नृत्यमानामुदारां नटीं सम्पिबामोद्भुताङ्गीं सुधाया घटीम् ॥ ४॥
गाढमालिङ्ग्यते या सदा पापिभी रम्यरूपा यया नेक्ष्यते कापि भीः ।
स्वैर्गुणैर्मुग्धगीतैः सदा मोहितां तां विशङ्कं स्वमातुर्वदामो हिताम् ॥ ५॥
मय्यपत्ये स्वकर्मालसेऽलं क्रुधा चिन्तया साधुभिस्ताम्यते कीं मुधा ।
भीमरथ्यास्तटे स्वर्ग्यलभ्या बुधा भो मया पीयते साधुलब्धा सुधा ॥ ६॥
तापपापौषधं साधु यन्नाम या सन्मुखाच्च श्रुता सुप्रसन्नाभया ।
बल्लवीनां सखीं देवतादेवतां चिन्तये चित्तमेत्युस्सवादेव ताम् ॥ ७॥
त्यक्तसिंहासनाः साधवः केवलं प्राप्तुकामा हि यत्पादपांसुं दरीम् ।
ईयुरेवोत्सुकाः को न तो चिन्तयेन्निर्जितस्वर्गसत्पादपां सुन्दरीम् ॥ ८॥
को न तां चिन्तयेच्छुद्धिकामः कलौ यत्पदाम्भोजनिर्णेजनापां ततिः ।
साधुनीराजिता साधुनीराऽजिता सा धुनी राजिता शम्भुमौलावपि ॥ ९॥
सिद्धिरत्युत्तमा योग्यलभ्याऽसतस्त्रासदेवावरान्नित्यमभ्यासतः ।
पुण्डरीकेण या साधुनीराऽजिता भक्तवृन्दैः कलौ साधुनारं जिता ॥ १०॥
जीवनेनाप्यहोधीष्टकं तर्पितो भीमरथ्यास्तटे पुण्डरीकेण यः ।
श्यामलः कोऽपि दीपः पतङ्गप्रियः श्लिष्यतां तापहा निर्मलः स्नेहकृत् ॥ ११॥
॥ इति श्रीरामनन्दनमयूरेश्वरकृतं पाण्डुरङ्गस्तोत्रं सम्पूर्णम् ॥

Explore More