Goddess Bala Tripurasundari

श्री बाला त्रिपुरसुन्दरी स्तोत्रम्

(Sri Bala Tripurasundari Stotram)

From Rudrayamala Tantra

Also known as shri bala tripura sundari stotram · shri bala tripurasundari stotram · shree bala tripurasundari stotram

A short hymn to Bala from the Rudrayamala, spoken by Bhairava to Parvati and introduced by him as the fifth limb and his own secret, to be heard and then guarded with care. Its viniyoga names Dakshinamurti as seer and pankti as the metre, which places it among the mantra-texts rather than among descriptive praises: the verses are built of the mantra as much as about it. The closing verse repeats the injunction that opened it — this is not to be given to those without devotion, and is to be kept as closely as one keeps one's own person. Bala is the girl-form of Tripurasundari, and the corpus holds a further twenty-nine texts to her.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

श्री भैरव उवाच
अधुना देवि ! बालायाः स्तोत्रं वक्ष्यामि पार्वति ! ।
पञ्चमाङ्गं रहस्यं मे श्रुत्वा गोप्यं प्रयत्नतः ॥
ॐ अस्य श्रीबालात्रिपुरसुन्दरीस्तोत्रमन्त्रस्य
श्री दक्षिणामूर्तिः ऋषिः, पङ्क्तिश्छन्दः,
श्रीबालात्रिपुरसुन्दरी देवता, ऐं बीजं, सौः शक्तिः,
क्लीं किलकं, श्रीबालाप्रीतये पाठे विनियोगः ।
ॐ श्री दक्षिणामूर्तिऋषये नमः - शिरसि ।
ॐ श्री पङ्क्तिश्छन्दसे नमः - मुखे ।
ॐ श्रीबालात्रिपुरसुन्दरी देवतायै नमः - हृदि ।
ॐ ऐं बीजाय नमः - नाभौ ।
ॐ सौः शक्तये नमः - गुह्ये ।
ॐ क्लीं कीलकाय नमः - पादयोः ।
ॐ श्रीबालाप्रीतये पाठे विनियोगाय नमः - सर्वाङ्गे ।
ॐ ऐं अङ्गुष्ठाभ्यां नमः ।
ॐ क्लीं तर्जनीभ्यां नमः ।
ॐ सौः मध्यमाभ्यां नमः ।
ॐ ऐं अनामिकाभ्यां नमः ।
ॐ क्लीं कनिष्ठिकाभ्यां नमः ।
ॐ सौः करतलकरपृष्ठाभ्यां नमः ।
ॐ ऐं हृदयाय नमः ।
ॐ क्लीं शिरसे स्वाहा ।
ॐ सौः शिखायै वौषट् ।
ॐ ऐं कवचाय हुम् ।
ॐ क्लीं नेत्रत्रयाय वौषतट् ।
ॐ सौः अस्त्राय फट् ।
अरुणकिरणजालै रञ्जिताशावकाशा ।
विधृतजपवटीका पुस्तकाभीतिहस्ता ।
इतरकरवराढ्या फुल्लकह्लारसंस्था ।
निवसतु हृदि बाला नित्यकल्याणरूपा ॥
ॐ लं पृथिवीतत्त्वात्मकं गन्धं श्रीबालात्रिपुराप्रीतये समर्पयामि नमः ।
ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीबालात्रिपुराप्रीतये समर्पयामि नमः ।
ॐ यं वायुतत्त्वात्मकं धूपं श्रीबालात्रिपुराप्रीतये घ्रापयामि नमः ।
ॐ रं अग्नितत्त्वात्मकं दीपं श्रीबालात्रिपुराप्रीतये दर्शयामि नमः ।
ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीबालात्रिपुराप्रीतये निवेदयामि नमः ।
ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीबालात्रिपुराप्रीतये समर्पयामि नमः ।
वाणीं जपेद् यस्त्रिपुरे ! भवान्या बीजं निशीथे जडभावलीनः ।
भवेत स गीर्वाणगुरोर्गरीयान् गिरीशपत्नि प्रभुतादि तस्य ॥ १॥
कामेश्वरि ! त्र्यक्षरी कामराजं जपेद् दिनान्ते तव मन्त्रराजम् ।
रम्भाऽपि जृम्भारिसभां विहाय भूमौ भजेत् तं कुलदीक्षितं च ॥ २॥
तार्तीयकं बीजमिदं जपेद् यस्त्रैलोक्यमातस्त्रिपुरे ! पुरस्तात् ।
विधाय लीलां भुवने तथान्ते निरामयं ब्रह्मपदं प्रयाति ॥ ३॥
धरासद्मत्रिवृत्ताष्टपत्रषट्कोणनागरे ।
विन्दुपीठेऽर्चयेद् बालां योऽसौ प्रान्ते शिवो भवेत् ॥ ४॥
इति मन्त्रमयं स्तवं पठेद् यस्त्रिपुराया निशि वा निशावसाने ।
स भवेद् भुवि सार्वभौममौलिस्त्रिदिवे शक्रसमानशौर्यलक्ष्मीः ॥ १॥
इतीदं देवि ! बालाया स्तोत्रं मन्त्रमयं परम् ।
अदातव्यमभक्तेभ्यो गोपनीयं स्वयोनिवत् ॥ २॥
॥ इति श्रीरुद्रयामले तन्त्रे भैरवभैरवीसंवादे श्रीबालात्रिपुरसुन्दरीस्तोत्रम् समाप्तम् ॥

Explore More