व्यातनोतु मम देवताश्रियम् ।
कापिहस्तपरिवादिनीगळत्
काकळीलयकलाकुतूहला ॥ १ ॥
यात्मनः परमपावनीकला ।
सा शिवानि विदधातु शारदा
शारदेन्दुकिरणोज्ज्वलाकृतिः ॥ २ ॥
दुर्गमाञ्जिगमिषाम्यहं पथः ।
त्वां परां गतिमुपैमि कातरः
शारदे श्रुतिविशारदार्चिते ॥ ३ ॥
त्वां विभिन्नपरिणामसुन्दरीम् ।
पुष्कलार्त्थविभवामुपास्महे
स्फोटदर्शितविचित्रविभ्रमाम् ॥ ४ ॥
लोकसङ्ग्रहविधौ पटीयसी ।
काचनाम्ब! धिषणाभवन्मयी
कर्मकौशलजुषा निषेव्यते ॥ ५ ॥
त्वं मयाम्ब! धुतभेद वेदना ।
सा स्वयं रसमयी रतिः परा
प्रत्यगात्मपरमात्मगोचरा ॥ ६ ॥
रोचसे स्थितिरहो महोदया ।
पूर्णबोधपरिबाधितभ्रमा
पौरुषी पृथगलिङ्गसाक्षिणी ॥ ७ ॥
यन्मरौ जगदिदं मरीचिका ।
सा सदा हृदि मयाम्ब! निष्कला
संविदौपनिषदं निधीयसे ॥ ८ ॥
चतुरास्याक्षिशरच्चन्द्रमरीचिके ॥
