स्तुतिधाराः परिलेढुमुद्यतां नः ।
स्वयमेव तव स्तवं दुहानां
रसनां मातरिमां सनाथयेथाः ॥ १ ॥
करुणावर्षि कटाक्षकेलिलक्षम् ।
वदनं तव हन्त भारति त्व-
-त्पथमुल्लङ्घ्य विशृङ्खलं चकास्ति ॥ २ ॥
-प्यसदृक्षा तव वाणि वक्त्रभङ्ग्याः ।
अधरः पुनरम्ब पक्वबिम्बी-
-पटलीपाटलिमापवादवीरः ॥ ३ ॥
शरदम्भोजवनच्छविच्छटां वा ।
परिजेतुमलं भवत्पदश्री-
-रिति वादोऽप्यसदृक्षदिक्षु गण्यः ॥ ४ ॥
-र्विकलङ्केषु विशेषलेखनीयः ।
अपि तु स्फुटमङ्घ्रिपङ्कजाग्रे
विहरन्तः सुकृतो नखेन्दवोऽपि ॥ ५ ॥
महिमानं निरुणद्धि निर्विवादम् ।
परिपाटलिमा च पाणिपादा-
-धरबिम्बे तनुकान्तिपाण्डिमानम् ॥ ६ ॥
शशिना हन्त जडेन शान्तमेनः ।
अत एव भवत्पदाब्जसेवा-
-विरही नित्यनिरूढमौग्ध्यकार्श्यः ॥ ७ ॥
विशदाशेषगुणां विचित्रभूषाम् ।
रसपोषविशेषितां विधाता
नयनैस्त्वां श्रवणैर्वयं भजामः ॥ ८ ॥
जगतां जङ्गमपारिजातवल्लीम् ।
करुणापरिणाहिनेत्रयात्रां
कतिचित् त्वां हृदये वहन्ति धन्याः ॥ ९ ॥
त्रिजगन्मङ्गलदीर्घदीपलेशाम् ।
सुकृतां रसनाञ्चले ज्वलन्तीं
भवतीं चेतसि भावयन्ति धन्याः ॥ १० ॥
विहरन्तीं विविधैर्विभूतिभारैः ।
भुवनाद्भुतविभ्रमाभिरामां
पुलकैः कैरपि पूजयन्ति धन्याः ॥ ११ ॥
पयसा त्वामभिषिच्य कोऽपि हृद्याम् ।
पुलकाङ्कुरभूषितां विधत्ते
स्फुटमात्मीयतनूमिवार्द्रचेताः ॥ १२ ॥
-विभवोद्गारिमुखेन्दुसम्पदं त्वाम् ।
परिभावयतां परं मुनीनां
निखिलाचार्यपदानि निर्वहन्ते ॥ १३ ॥
-र्गिरिकन्येति शिवस्य वामपार्श्वे ।
परिराजसि भारतीति धातु-
-र्वदनाम्भोजचतुष्पथे त्वमेका ॥ १४ ॥
-ष्वधिवासं भवती विधेर्विधत्ताम् ।
वदने पुनरम्ब मादृशानां
किमिदं नृत्यसि नन्वियं कृपा ते ॥ १५ ॥
परमानन्दपयोधिवीचिमालाम् ।
वचसामधिदेवते वयं ते
मनसा मङ्क्षु विगाह्य धन्यधन्याः ॥ १६ ॥
त्वयि चित्तं मम मग्नमस्तु मातः ।
पदयोर्द्वयमद्वयं पदं वा
तव जानन्नपि नाम धन्यधन्याः ॥ १७ ॥
सहजानन्दतरङ्गदन्तुरं ते ।
मनसः कुहरे वयं पदं ते
गगनोल्लङ्घि कथं कथं वहामः ॥ १८ ॥
सुखसाम्राज्यमनर्गलप्रसारम् ।
अखिलाद्भुतमुज्झितोपमानं
तदहो नन्वसि धीरधीविलेह्यम् ॥ १९ ॥
गलिताशेषदिशाविभागगन्धम् ।
निरवग्रहनिश्चयप्रकाश-
-स्फुटमाधुर्यमसि त्वमम्ब तत्त्वम् ॥ २० ॥
सरसं किञ्चिदकिञ्चनोपभोग्यम् ।
हृदयं मदयन्मदीयमुच्चै-
-र्हृषितं हृद्यमिदं पदं ननु त्वम् ॥ २१ ॥
दलितध्वान्तपरम्परोपरागम् ।
मधुरिम्णि परं महिम्नि चोच्चै-
-र्विशदं धाम विशृङ्खलं खलु त्वम् ॥ २२ ॥
-द्यपवर्गः पशुपाशबन्धनानाम् ।
अपतत् तव रूपमद्वितीय-
-क्षममालक्षयतां सतां किल त्वम् ॥ २३ ॥
-द्वचसां वर्त्मनि नैव नैव नैव ।
अपरा पुनरात्तचित्रवेषा
भुवनं पुष्यति भूमिकाविभूतिः ॥ २४ ॥
महिमानं महतोऽपि भो महत्याः ।
अपि वाङ्मनसाध्वनि ध्वनन्तीं
कथयेत् कः खलु चिन्तयेच्च तां त्वाम् ॥ २५ ॥
-च्चिदचिद्भ्यां प्रविभागभाञ्जि विश्वे ।
तदहो महिमाद्भुतं तवेदं
परमस्मात् पुनरम्ब यासि सासीः ॥ २६ ॥
मुखरीभूय मुहुर्विभूतिपूरे ।
अपि वा विनयोक्तिभिः कृतं ते
शिशुसंलापवशो हि मातृवर्गः ॥ २७ ॥
जय हे देवि गुणत्रयैकभूषे ।
जय देवि तमःप्रवेशदूरे
जय हे देवि निजप्रकाशधारे ॥ २८ ॥
स्वयमग्रन्थत हन्त सन्निधानात् ।
तदियं तव देवि कण्ठभूषा-
-पदवीं प्राप्य कृतार्थतां प्रयातु ॥ २९ ॥
नक्षत्रमालेयमभूतपूर्वा ।
कृष्णस्य देवस्य गिरश्च देव्याः
कलाञ्चले वर्षतु हर्षधाराः ॥ ३० ॥
मतिमान् जनः परिचिनोतु जिह्वया ।
उरुचेतसा श्रवणमण्डलेन वा
त्रितयेन वा त्रिभुवनाद्भुतां सुधाम् ॥ ३१ ॥
