सुरेशशक्तिवर्धिनी नितान्तकान्तकामिनी ।
निशाचरेन्द्रमर्दिनी त्रिशूलशूलधारिणी
मनोव्यथाविदारिणी शिवं तनोतु पार्वती ॥ १ ॥
प्रकाशपुञ्जदामिनी विचित्रचित्रकारिणी ।
प्रचण्डशत्रुधर्षिणी दयाप्रवाहवर्षिणी
सदा सुभाग्यदायिनी शिवं तनोतु पार्वती ॥ २ ॥
पिनाकपाणिधारिका गिरीशशृङ्गमालिका ।
समस्तभक्तपालिका पीयूषपूर्णवर्षिका
कुभाग्यरेखमार्जिका शिवं तनोतु पार्वती ॥ ३ ॥
विशुद्धभावसाधिका सुधासरित्प्रवाहिका ।
प्रयत्नपक्षपोषिका सदार्तिभावतोषिका
शनिग्रहादितर्जिका शिवं तनोतु पार्वती ॥ ४ ॥
नभश्चरी धराचरी समस्तसृष्टिसञ्चरी ।
तमोहरी मनोहरी मृगाङ्कमौलिसुन्दरी
सदोग्रतापसञ्चरी शिवं तनोतु पार्वती ॥ ५ ॥
दुष्कृतं निखिलं हत्वा वरं प्राप्नोति सुन्दरम् ।
हे गौरी शङ्करार्धाङ्गी यथा त्वं शङ्करप्रिया
तथा मां कुरु कल्याणी कान्त कान्तां सुदुर्लभाम् ॥ ६ ॥
