Lord Rama

श्री राम हृदयम्

(Shri Rama Hridayam)

From Adhyatma Ramayana

Shri Rama Hridayam is a profound philosophical dialogue found in the Uttara Kanda of the Adhyatma Ramayana, where Lord Rama imparts the essence of Advaita Vedanta to Hanuman. The text elucidates the nature of the Self, the individual soul, and the Supreme Reality using the analogy of space. By contemplating these verses, the seeker transcends the illusion of duality and understands the oneness of all existence. Chanting this stotra is believed to grant spiritual wisdom, remove ignorance, and bestow the supreme realization of the divine presence residing within every heart.

श्री गणेशाय नमः ।

श्री महादेव उवाच ।

ततो रामः स्वयं प्राह हनुमन्तमुपस्थितम् ।
श‍ऋणु यत्वं प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् ॥ 1॥
आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् ।
जलाशये महाकाशस्तदवच्छिन्न एव हि ।
प्रतिबिम्बाख्यमपरं दृश्यते त्रिविधं नभः ॥ 2॥
बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् ।
आभासस्त्वपरं बिम्बभूतमेवं त्रिधा चितिः ॥ 3॥
साभासबुद्धेः कर्तृत्वमविच्छिन्नेऽविकारिणि ।
साक्षिण्यारोप्यते भ्रान्त्या जीवत्वं च तथाऽबुधैः ॥ 4॥
आभासस्तु मृषाबुद्धिरविद्याकार्यमुच्यते ।
अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पितः ॥ 5॥
अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपद्यते ।
तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा ॥ 6॥
ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः ।
तदाऽविद्या स्वकार्यैश्च नश्यत्येव न संशयः ॥ 7॥
एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते
मद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम् ।
न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि ॥ 8॥
इदं रहस्यं हृदयं ममात्मनो मयैव साक्षात्कथितं तवानघ ।
मद्भक्तिहीनाय शठाय न त्वया दातव्यमैन्द्रादपि राज्यतोऽधिकम् ॥ 9॥
॥ श्रीमदध्यात्मरामायणे बालकाण्डे श्रीरामहृदयं
सम्पूर्णम् ॥

Explore More