Goddess Varahi

श्री वाराही निग्रहाष्टकम्

(Sri Varahi Nigraha Ashtakam)

Also known as shri varahi nigraha ashtakam · shree varahi nigraha ashtakam · varahi nigraha ashtakam

Eight verses of nigraha — restraint — and the most uncomfortable text in this group, because what it asks for is that harm be turned back on a person. Each verse names someone who wishes the speaker ill in thought, word or deed, and asks the goddess to act: let him be overturned by the sudden blow of your plough; from that man's heart fill your vessel. The register belongs to a real and old category of protective rite in which the deity is asked to restrain an aggressor rather than the devotee asked to forgive, and the hymn is careful to make the speaker's standing the ground of the request — it is because he is devoted to her feet, and because his own bad karma has been worn away by that devotion, that he asks at all. Its final verse widens beyond the personal, addressing her as the breath in every living thing and the power pervading all that moves and does not move.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्री वाराही निग्रहाष्टकम् ॥
देवि क्रोडमुखि त्वदङ्घ्रिकमलद्वन्द्वानुरक्तात्मने
मह्यं द्रुह्यति यो महेशि मनसा कायेन वाचा नरः ।
तस्याशु त्वदयोग्रनिष्ठुरहलाघातप्रभूतव्यथा-
-पर्यस्यन्मनसो भवन्तु वपुषः प्राणाः प्रयाणोन्मुखाः ॥ १॥
देवि त्वत्पदपद्मभक्तिविभवप्रक्षीणदुष्कर्मणि
प्रादुर्भूतनृशंसभावमलिनां वृत्तिं विधत्ते मयि ।
यो देही भुवने तदीयहृदयान्निर्गतवरैर्लोहितैः
सद्यः पूरयसे कराब्जचषकं वाञ्छाफलैर्मामपि ॥ २॥
चण्डोत्तुण्डविदीर्णदंष्ट्रहृदयप्रोद्भिन्नरक्तच्छटा
हालापानमदाट्‍टहासनिनदाटोपप्रतापोत्कटम् ।
मातर्मत्परिपन्थिनामपहृतैः प्राणैस्त्वदङ्घ्रिद्वयं
ध्यानोद्दामरवैर्भवोदयवशात्सन्तर्पयामि क्षणात् ॥ ३॥
श्यामां तामरसाननाङ्घ्रिनयनां सोमार्धचूडां जग-
-त्त्राणव्यग्रहलायुधाग्रमुसलां सन्त्रासमुद्रावतीम् ।
ये त्वां रक्तकपालिनीं हरवरारोहे वराहाननां
भावैः सन्दधते कथं क्षणमपि प्राणन्ति तेषां द्विषः ॥ ४॥
विश्वाधीश्वरवल्लभे विजयसे या त्वं नियन्त्र्यात्मिका
भूतान्ता पुरुषायुषावधिकरी पाकप्रदाकर्मणाम् ।
त्वां याचे भवतीं किमप्यवितथं यो मद्विरोधीजन-
-स्तस्यायुर्मम वाञ्छितावधिभवेन्मातस्तवैवाज्ञया ॥ ५॥
मातः सम्यगुपासितुं जडमतिस्त्वां नैव शक्नोम्यहं
यद्यप्यन्वितदैशिकाङ्घ्रिकमलानुक्रोशपात्रस्य मे ।
जन्तुः कश्चन चिन्तयत्यकुशलं यस्तस्य तद्वैशसं
भूयाद्देवि विरोधिनो मम च ते श्रेयः पदासङ्गिनः ॥ ६॥
वाराही व्यथमानमानसगलत्सौख्यं तदाशाबलिं
सीदन्तं यमपाकृताध्यवसितं प्राप्ताखिलोत्पादितम् ।
क्रन्दद्बन्धुजनैः कलङ्किततुलं कण्ठव्रणोद्यत्कृमि
पश्यामि प्रतिपक्षमाशु पतितं भ्रान्तं लुठन्तं मुहुः ॥ ७॥
वाराही त्वमशेषजन्तुषु पुनः प्राणात्मिका स्पन्दसे
शक्तिव्याप्तचराचरा खलु यतस्त्वामेतदभ्यर्थये ।
त्वत्पादाम्बुजसङ्गिनो मम सकृत्पापं चिकीर्षन्ति ये
तेषां मा कुरु शङ्करप्रियतमे देहान्तरावस्थितिम् ॥ ८ ॥
॥ इति श्री वाराही निग्रहाष्टकम् सम्पूर्णम् ॥

Explore More