श्रीबादरायणिरुवाच
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् । स्नातुं नन्दस्तु कालिन्द्यां द्वादश्यां जलमाविशत् ॥ १ ॥
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् । स्नातुं नन्दस्तु कालिन्द्यां द्वादश्यां जलमाविशत् ॥ १ ॥
तं गृहीत्वानयद् भृत्यो वरुणस्यासुरोऽन्तिकम् । अवज्ञायासुरीं वेलां प्रविष्टमुदकं निशि ॥ २ ॥
चुक्रुशुस्तमपश्यन्तः कृष्ण रामेति गोपकाः । भगवांस्तदुपश्रुत्य पितरं वरुणाहृतम् । तदन्तिकं गतो राजन्स्वानामभयदो विभुः ॥ ३ ॥
प्राप्तं वीक्ष्य हृषीकेशं लोकपालः सपर्यया । महत्या पूजयित्वाह तद्दर्शनमहोत्सवः ॥ ४ ॥
श्रीवरुण उवाच
अद्य मे निभृतो देहोऽद्यैवार्थोऽधिगतः प्रभो । त्वत्पादभाजो भगवन्नवापुः पारमध्वनः ॥ ५ ॥
अद्य मे निभृतो देहोऽद्यैवार्थोऽधिगतः प्रभो । त्वत्पादभाजो भगवन्नवापुः पारमध्वनः ॥ ५ ॥
नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने । न यत्र श्रूयते माया लोकसृष्टिविकल्पना ॥ ६ ॥
अजानता मामकेन मूढेनाकार्यवेदिना । आनीतोऽयं तव पिता तद्भवान् क्षन्तुमर्हति ॥ ७ ॥
ममाप्यनुग्रहं कृष्ण कर्तुमर्हस्यशेषदृक् । गोविन्द नीयतामेष पिता ते पितृवत्सल ॥ ८ ॥
श्रीशुक उवाच
एवं प्रसादितः कृष्णो भगवानीश्वरेश्वरः । आदायागत्स्वपितरं बन्धूनां चावहन्मुदम् ॥ ९ ॥
एवं प्रसादितः कृष्णो भगवानीश्वरेश्वरः । आदायागत्स्वपितरं बन्धूनां चावहन्मुदम् ॥ ९ ॥
नन्दस्त्वतीन्द्रियं दृष्ट्वा लोकपालमहोदयम् । कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् ॥ १० ॥
ते चौत्सुक्यधियो राजन् मत्वा गोपास्तमीश्वरम् । अपि नः स्वगतिं सूक्ष्मामुपाधास्यदधीश्वरः ॥ ११ ॥
इति स्वानां स भगवान् विज्ञायाखिलदृक्स्वयम् । सङ्कल्पसिद्धये तेषां कृपयैतदचिन्तयत् ॥ १२ ॥
जनो वै लोक एतस्मिन्नविद्याकामकर्मभिः । उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥ १३ ॥
इति सञ्चिन्त्य भगवान् महाकारुणिको हरिः । दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥ १४ ॥
सत्यं ज्ञानमनन्तं यद् ब्रह्मज्योतिः सनातनम् । यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ १५ ॥
ते तु ब्रह्मह्रदं नीता मग्नाः कृष्णेन चोद्धृताः । ददृशुर्ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा ॥ १६ ॥
नन्दादयस्तु तं दृष्ट्वा परमानन्दनिवृताः । कृष्णं च तत्रच्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ १७ ॥
