Lord Surya

सूर्य नित्य पूजा विधानम्

(Surya Nitya Puja Vidhanam)

Traditional

Surya Nitya Puja Vidhanam is a quintessential daily ritualistic manual dedicated to Lord Surya, the celestial embodiment of divine light and life-force. Rooted in ancient Vedic traditions, this compendium outlines the systematic procedural worship involving offerings, mantras, and meditative practices. By performing this daily devotion, practitioners seek the blessings of the Sun God to dispel darkness, both physical and metaphorical. Consistent recitation and ritual practice are believed to enhance vital energy, sharpen intellectual clarity, improve physical health, and cultivate spiritual illumination, effectively aligning the devotee with the cosmic rhythms of the universe.

आवश्यकानि वस्तूनि
- आसनं
- दीपः
- गन्धः
- कुङ्कुमं
- अक्षताः
- पुष्पाणि
- धूपः
- नैवेद्यं
- ताम्बूलं
- आचमनीयं
- पूजा पात्रं
- कलशः
- शङ्खः [optional]
- सूर्यनारायण स्वामि प्रतिमा वा चित्रपटः वा
पूर्वाङ्ग पूजा
श्रीमहागणाधिपतये नमः ।
श्री गुरुभ्यो नमः ।
हरिः ओम् ।
शुचिः
अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥
पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्षाय नमः ॥
प्रार्थना
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
अगजानन पद्मार्कं गजाननमहर्निशम् ।
अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥
तदेव लग्नं सुदिनं तदेव
ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव
लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥
सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ते ॥
श्रीलक्ष्मीनारायणाभ्यां नमः ।
उमामहेश्वराभ्यां नमः ।
वाणीहिरण्यगर्भाभ्यां नमः ।
शचीपुरन्दराभ्यां नमः ।
अरुन्धतीवसिष्ठाभ्यां नमः ।
श्रीसीतारामाभ्यां नमः ।
मातापितृभ्यो नमः ।
सर्वेभ्यो महाजनेभ्यो नमः ।
आचमनं
ॐ केशवाय स्वाहा ।
ॐ नारायणाय स्वाहा ।
ॐ माधवाय स्वाहा ।
ॐ गोविन्दाय नमः ।
ॐ विष्णवे नमः ।
ॐ मधुसूदनाय नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ वामनाय नमः ।
ॐ श्रीधराय नमः ।
ॐ हृषीकेशाय नमः ।
ॐ पद्मनाभाय नमः ।
ॐ दामोदराय नमः ।
ॐ सङ्कर्षणाय नमः ।
ॐ वासुदेवाय नमः ।
ॐ प्रद्युम्नाय नमः ।
ॐ अनिरुद्धाय नमः ।
ॐ पुरुषोत्तमाय नमः ।
ॐ अधोक्षजाय नमः ।
ॐ नारसिंहाय नमः ।
ॐ अच्युताय नमः ।
ॐ जनार्दनाय नमः ।
ॐ उपेन्द्राय नमः ।
ॐ हरये नमः ।
ॐ श्रीकृष्णाय नमः ।
दीपाराधनम्
दीपस्त्वं ब्रह्मरूपोऽसि ज्योतिषां प्रभुरव्ययः ।
सौभाग्यं देहि पुत्रांश्च सर्वान्कामांश्च देहि मे ॥
भो दीप देवि रूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत् ।
यावत्पूजां करिष्यामि तावत्त्वं सुस्थिरो भव ॥
दीपाराधन मुहूर्तः सुमुहूर्तोऽस्तु ॥
भूतोच्चाटनम्
उत्तिष्ठन्तु भूतपिशाचाः य एते भूमिभारकाः ।
एतेषामविरोधेन ब्रह्मकर्म समारभे ॥
अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।
ये भूता विघ्नकर्तारस्ते गच्छन्तु शिवाऽज्ञया ॥
प्राणायामः
ओ-म्भूः । ओ-म्भुवः॑ । ओग्ं सुवः॑ । ओ-म्महः॑ । ओ-ञ्जनः॑ । ओ-न्तपः॑ । ओग्ं सत्यम् ।
ओ-न्तत्स॑वि॒तुर्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥
ओमापो॒ ज्योती॒ रसो॒-ऽमृत॒-म्ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥
सङ्कल्पः
मम उपात्त समस्त दुरितक्षय द्वारा श्रीपरमेश्वर प्रीत्यर्थं, मम/अस्माकं सहकुटुम्बस्य क्षेम-स्थैर्य-धैर्य-वीर्य-विजय-अभय-आयुः-आरोग्य-ऐश्वर्य-अभिवृद्ध्यर्थं, आरोग्य-तेजस्-बल-प्राप्त्यर्थं, धर्मार्थ-काम-मोक्ष-चतुर्विध-पुरुषार्थ-फल-सिद्ध्यर्थं, श्रीसूर्यनारायण स्वामि-प्रीत्यर्थं, यावच्छक्ति ध्यान-आवाहनादि-षोडशोपचार-पूजां करिष्ये ॥
तदङ्ग कलशाराधनं करिष्ये ॥
कलशाराधनम्
कलशे गन्ध पुष्पाक्षतैरभ्यर्च्य ।
कलशे उदकं पूरयित्वा ।
कलशस्योपरि हस्तं निधाय ।
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः ॥
अङ्गैश्च सहिताः सर्वे कलशाम्बु समाश्रिताः ॥
गङ्गे च यमुने चैव गोदावरी सरस्वती ।
नर्मदे सिन्धु कावेरी जलेऽस्मिन् सन्निधिं कुरु ॥
कावेरी तुङ्गभद्रा च कृष्णवेणी च गौतमी ।
भागीरथीति विख्याताः पञ्चगङ्गाः प्रकीर्तिताः ॥
आयान्तु देवपूजार्थं मम दुरितक्षयकारकाः ।
कलशोदकेन पूजा द्रव्याणि सम्प्रोक्ष्य, देवं सम्प्रोक्ष्य, आत्मानं च सम्प्रोक्ष्य ॥
शङ्खपूजा
शङ्खं चन्द्रार्क दैवतं मध्ये वरुण देवताम् ।
पृष्ठे प्रजापतिं विन्द्यादग्रे गङ्गा सरस्वतीम् ॥
त्रैलोक्ये यानि तीर्थानि वासुदेवस्य आज्ञया ।
शङ्खे तिष्ठन्तु विप्रेन्द्राः तस्मात् शङ्खं प्रपूजयेत् ॥
ॐ शङ्खाय नमः ।
ॐ धवलाय नमः ।
ॐ पाञ्चजन्याय नमः ।
ॐ शङ्खदेवताभ्यो नमः ।
सकलपूजार्थे अक्षतान् समर्पयामि ॥
घण्टानादः
आगमार्थं तु देवानां गमनार्थं तु राक्षसाम् ।
घण्टारवं करोम्यादौ देवताह्वान लाञ्छनम् ॥
ॐ घण्टादेवताभ्यो नमः ।
सकलोपचार पूजार्थे अक्षतान् समर्पयामि ॥
श्री महागणपति पूजा
ओ-ङ्ग॒णाना᳚-न्त्वा ग॒णप॑तिग्ं हवामहे क॒वि-ङ्क॑वी॒नां उप॒मश्र॑वस्तवम् ।
ज्ये॒ष्ठ॒राज॒-म्ब्रह्म॑णा-म्ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥
धूमकेतुर्गणाध्यक्षः फालचन्द्रो गजाननः ।
वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ॥
ॐ श्रीमहागणपतये नमः ।
ध्यायामि । आवाहयामि । आसनं समर्पयामि ।
पाद्यं समर्पयामि । अर्घ्यं समर्पयामि । आचमनीयं समर्पयामि ।
स्नानं समर्पयामि । वस्त्रं समर्पयामि । यज्ञोपवीतं समर्पयामि ।
गन्धं समर्पयामि । पुष्पाणि समर्पयामि ।
धूपमाघ्रापयामि । दीपं दर्शयामि ।
नैवेद्यं समर्पयामि । ताम्बूलं समर्पयामि ।
नीराजनं समर्पयामि । मन्त्रपुष्पं समर्पयामि ।
प्रदक्षिण नमस्कारान् समर्पयामि ॥
षोडशोपचार पूजा
सूर्यनारायण ध्यानम्
ध्येयः सदा सवितृमण्डलमध्यवर्ती
नारायणः सरसिजासन सन्निविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥
अरुणोऽरुणपङ्कजे निषण्णः
कमलेऽभीतिवरौ करैर्दधानः ।
स्वरुचाहित मण्डलस्त्रिनेत्रो
रविराकल्प शताकुलोऽवतान्नः ॥
ॐ श्रीसूर्यनारायणाय नमः ।
ध्यायामि । ध्यानं समर्पयामि ॥
आवाहनम्
स॒हस्र॑शीर्​षा॒ पुरु॑षः । स॒ह॒स्रा॒क्ष-स्स॒हस्र॑पात् ।
स भूमिं॑-विँ॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् ॥
आगच्छ भगवन् सूर्य मण्डपे च स्थिरो भव ।
यावत्पूजा समाप्येत तावत्त्वं सन्निधौ भव ॥
ॐ श्रीसूर्यनारायणाय नमः ।
आवाहयामि । स्थापयामि । पूजयामि ॥
आसनम्
पुरु॑ष ए॒वेदग्ं सर्वम्᳚ । यद्भू॒तं-यँच्च॒ भव्यम्᳚ ।
उ॒तामृ॑त॒त्व स्येशा॑नः । यदन्ने॑नाति॒रोह॑ति ॥
हेमासन महद्दिव्यं नानारत्नविभूषितम् ।
दत्तं मे गृह्यतां देव दिवाकर नमोऽस्तु ते ॥
ॐ श्रीसूर्यनारायणाय नमः ।
आसनं समर्पयामि ॥
पाद्यम्
गङ्गाजल समानीतं परमं पावनं महत् ।
पाद्यं गृहाण देवेश धामरूप नमोऽस्तु ते ॥
ॐ श्रीसूर्यनारायणाय नमः ।
पादयोः पाद्यं समर्पयामि ॥
अर्घ्यम्
भो सूर्य महाद्भुत ब्रह्मविष्णु स्वरूपदृक् ।
अर्घ्यं अञ्जलिना दत्तं गृहाण परमेश्वर ॥
ॐ श्रीसूर्यनारायणाय नमः ।
हस्तयोः अर्घ्यं समर्पयामि ॥
आचमनीयम्
गङ्गादि तीर्थजं तोयं जातीपुष्पैश्च वासितम् ।
ताम्रपात्रे स्थितं दिव्यं गृहाणाचमनीयकम् ॥
ॐ श्रीसूर्यनारायणाय नमः ।
मुखे आचमनीयं समर्पयामि ॥
स्नानम्
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से ॥
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ॥
तस्मा॒ अर॑-ङ्गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ॥
ॐ श्रीसूर्यनारायणाय नमः ।
शुद्धोदक स्नानं समर्पयामि ॥
स्नानानन्तरं आचमनीयं समर्पयामि ॥
वस्त्रम्
रक्तपट्टयुगं देव सूक्ष्मतन्तुविनिर्मितम् ।
शुद्धं चैव मया दत्तं गृहाण कमलाकर ॥
ॐ श्रीसूर्यनारायणाय नमः ।
वस्त्रं समर्पयामि ॥
यज्ञोपवीतम्
नमः कमलहस्ताय विश्वरूपाय ते नमः ।
उपवीतं मया दत्तं तद्गृहाण दिवाकर ॥
ॐ श्रीसूर्यनारायणाय नमः ।
यज्ञोपवीतं समर्पयामि ॥
गन्धम्
कुङ्कुमागरु कस्तूरी सुगन्धैश्चन्दनादिभिः ।
रक्तचन्दन संयुक्तं गन्धं गृह्णीष्व भास्कर ॥
ॐ श्रीसूर्यनारायणाय नमः ।
गन्धं समर्पयामि ॥
अर्चन
जपाकदम्ब कुसुमैः रक्तोत्पल युतानि च ।
पुष्पाणि गृह्यतां देव सर्वकामप्रदो भव ॥
अङ्ग पूजा
ॐ मित्राय नमः - पादौ पूजयामि ।
ॐ रवये नमः - जङ्घे पूजयामि ।
ॐ सूर्याय नमः - जानुनी पूजयामि ।
ॐ खगाय नमः - ऊरू पूजयामि ।
ॐ हिरण्यगर्भाय नमः - कटिं पूजयामि ।
ॐ पूष्णे नमः - गुह्यं पूजयामि ।
ॐ मरीचये नमः - नाभिं पूजयामि ।
ॐ आदित्याय नमः - जठरं पूजयामि ।
ॐ सवित्रे नमः - हृदयं पूजयामि ।
ॐ अर्काय नमः - स्तनौ पूजयामि ।
ॐ भास्कराय नमः - कण्ठं पूजयामि ।
ॐ अर्यम्णे नमः - स्कन्धौ पूजयामि ।
ॐ हंसाय नमः - हस्तौ पूजयामि ।
ॐ अहस्कराय नमः - मुखं पूजयामि ।
ॐ ब्रध्नाय नमः - नासिकां पूजयामि ।
ॐ जगदेकचक्षुषे नमः - नेत्राणि पूजयामि ।
ॐ भानवे नमः - कर्णौ पूजयामि ।
ॐ त्रिगुणात्मधारिणे नमः - ललाटं पूजयामि ।
ॐ विरिञ्चिनारायणाय नमः - शिरः पूजयामि ।
ॐ तिमिरनाशिने नमः - सर्वाण्यङ्गानि पूजयामि ॥
[Recite the sUrya aShTOttara Sata nAmAvaLI, or at least the dvAdaSa nAmAni of Surya. Offer flowers or akshatas with each name.]
सूर्य अष्टोत्तर शत नामावली>
अथवा सूर्य द्वादश नाम पूजा ॥
ॐ आदित्याय नमः ।
ॐ दिवाकराय नमः ।
ॐ भास्कराय नमः ।
ॐ प्रभाकराय नमः ।
ॐ सहस्रांशवे नमः ।
ॐ त्रिलोचनाय नमः ।
ॐ हरिदश्वाय नमः ।
ॐ विभावसवे नमः ।
ॐ दिनकराय नमः ।
ॐ द्वादशात्मकाय नमः ।
ॐ त्रिमूर्तये नमः ।
ॐ सूर्याय नमः ॥
ॐ श्रीसूर्यनारायणाय नमः ।
अष्टोत्तर शत नामावली पूजां समर्पयामि ।
अक्षतान् पुष्पाणि च समर्पयामि ॥
धूपम्
दशाङ्गोगुग्गुलोद्भूतः कालागरु समन्वितः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
ॐ श्रीसूर्यनारायणाय नमः ।
धूपमाघ्रापयामि ॥
दीपम्
कार्पासवर्तिकायुक्तं गोघृतेन समन्वितम् ।
दीपं गृहाण देवेश त्रैलोक्य तिमिरापह ॥
ॐ श्रीसूर्यनारायणाय नमः ।
दीपं दर्शयामि ॥
नैवेद्यम्
पायसं घृतसंयुक्तं नाना पक्वान्न संयुतम् ।
नैवेद्यं च मया दत्तं शान्तिं कुरु जगत्पते ॥
ओ-म्भूर्भुव॒स्सुवः॒ । तत्स॑वि॒तुर्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।
धि॒यो यो नः॑ प्रचो॒दया᳚त् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
अमृतमस्तु । अमृतोपस्तरणमसि ।
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा ।
ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा ।
मध्ये मध्ये पानीयं समर्पयामि ।
अमृतापिधानमसि ।
उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ॥
ॐ श्रीसूर्यनारायणाय नमः ।
नैवेद्यं समर्पयामि ॥
ताम्बूलम्
एलालवङ्ग कर्पूर खदिरैश्च सपूगकैः ।
नागवल्लीदलैर्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ॐ श्रीसूर्यनारायणाय नमः ।
ताम्बूलं समर्पयामि ॥
नीराजनम्
वेदा॒हमे॒त-म्पुरु॑ष-म्म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्ण॒-न्तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वा-ऽभि॒वद॒न्॒, यदा-ऽऽस्ते᳚ ॥
पञ्चवर्ति समायुक्तं सर्वमङ्गलदायकम् ।
नीराजनं गृहाणेदं सर्वसौख्यकरो भव ॥
ॐ श्रीसूर्यनारायणाय नमः ।
नीराजनं समर्पयामि ॥
मन्त्रपुष्पम्
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वा-न्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं-विँ॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ॥
ॐ भास्कराय विद्महे महाद्युतिकराय धीमहि ।
तन्नो आदित्यः प्रचोदयात् ॥
चम्पकैः शतपत्रैश्च कल्हारैः करवीरकैः ।
पाटलैर्बकुलैर्युक्तं गृहाण कुसुमाञ्जलिम् ॥
ॐ श्रीसूर्यनारायणाय नमः ।
मन्त्रपुष्पं समर्पयामि ॥
प्रदक्षिणम्
यानि कानि च पापानि जन्मान्तर कृतानि च ।
तानि तानि विनश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहि मां कृपया देव शरणागतवत्सल ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष जनार्दन ॥
ॐ श्रीसूर्यनारायणाय नमः ।
प्रदक्षिण नमस्कारान् समर्पयामि ॥
नमस्कारः
उद्यन्नद्य विवस्वानारोहन्नुत्तरां दिवम् ।
देवः हृद्रोगं मम सूर्यो हरिमाणं चाशु नाशयतु ॥
ॐ श्रीसूर्यनारायणाय नमः ।
नमस्कारान् समर्पयामि ॥
द्वादशार्घ्याणि
दिवाकर नमस्तुभ्यं पापं नाशय भास्कर ।
त्रयीमयाय विश्वात्मन् गृहाणार्घ्यं नमोऽस्तु ते ॥
ॐ मित्राय नमः - इदमर्घ्यं समर्पयामि ।
ॐ रवये नमः - इदमर्घ्यं समर्पयामि ।
ॐ सूर्याय नमः - इदमर्घ्यं समर्पयामि ।
ॐ भानवे नमः - इदमर्घ्यं समर्पयामि ।
ॐ खगाय नमः - इदमर्घ्यं समर्पयामि ।
ॐ पूष्णे नमः - इदमर्घ्यं समर्पयामि ।
ॐ हिरण्यगर्भाय नमः - इदमर्घ्यं समर्पयामि ।
ॐ मरीचये नमः - इदमर्घ्यं समर्पयामि ।
ॐ आदित्याय नमः - इदमर्घ्यं समर्पयामि ।
ॐ सवित्रे नमः - इदमर्घ्यं समर्पयामि ।
ॐ अर्काय नमः - इदमर्घ्यं समर्पयामि ।
ॐ भास्कराय नमः - इदमर्घ्यं समर्पयामि ॥
सर्वोपचाराः
ॐ श्रीसूर्यनारायणाय नमः ।
छत्रं समर्पयामि ।
चामरं समर्पयामि ।
गीतं श्रावयामि ।
नृत्यं दर्शयामि ।
समस्त राजोपचारान् देवोपचारान् समर्पयामि ॥
स्तोत्र/सूक्त पठनम्
श्री सूर्य नमस्कार मन्त्राः>
सूर्य सूक्तम्>
आदित्य हृदयम्>
क्षमाप्रार्थना
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥
अज्ञानाद्वा प्रमादाद्वा वैकल्यात्साधनस्य वा ।
यन्न्यूनमतिरिक्तं च तत्सर्वं क्षन्तुमर्हसि ॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि ॥
अनया ध्यान-आवाहनादि-षोडशोपचार पूजया श्रीसूर्यनारायण स्वामी सुप्रीतः सुप्रसन्नः वरदो भवतु ॥
उद्वासनम्
ॐ श्रीसूर्यनारायणाय नमः ।
यथास्थानं उद्वासयामि ।
शोभनार्थे क्षेमाय पुनरागमनाय च ॥
प्रसाद ग्रहणम्
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं देवता पादोदकं शुभम् ॥
श्रीसूर्यनारायण स्वामि प्रसादं शिरसा गृह्णामि ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ तत्सत् ब्रह्मार्पणमस्तु ॥

Explore More