Navagraha (The Nine Planets)

नवग्रह मङ्गल श्लॊकाः (नवग्रह मङ्गलाष्टकम्)

(Navagraha Mangalashtakam)

Traditional

Navagraha Mangalashtakam is a powerful Vedic hymn dedicated to the nine celestial bodies that govern karmic influences in Hindu astrology. Each of the eight verses meticulously details the specific attributes of a planet, including their zodiacal homes, presiding deities, auspicious directions, and associated offerings. By chanting this stotra, devotees seek to harmonize the planetary energies, mitigate malefic effects, and invite divine blessings into their lives. The regular recitation of these verses is believed to promote spiritual balance, remove obstacles, and ensure physical and mental well-being by aligning the individual soul with cosmic cosmic rhythms.

भास्वान् काश्यपगोत्रजोऽरुणरुचिर्यः सिंहपोऽर्कः समि-
-त्षट्त्रिस्थोऽदशशोभनो गुरुशशी भौमाः सुमित्राः सदा ।
शुक्रो मन्दरिपुः कलिङ्गजनपश्चाग्नीश्वरौ देवते
मध्येवर्तुलपूर्वदिग्दिनकरः कुर्यात्सदा मङ्गलम् ॥ 1 ॥
चन्द्रः कर्कटकप्रभुः सितनिभश्चात्रेयगोत्रोद्भव-
-श्चात्रेयश्चतुरश्रवारुणमुखश्चापे उमाधीश्वरः ।
षट्सप्ताग्नि दशैकशोभनफलो नोरिर्बुधार्कौप्रियौ
स्वामी यामुनजश्च पर्णसमिधः कुर्यात्सदा मङ्गलम् ॥ 2 ॥
भौमो दक्षिणदिक्त्रिकोणयमदिग्विन्ध्येश्वरः खादिरः
स्वामी वृश्चिकमेषयोस्तु सुगुरुश्चार्कः शशी सौहृदः ।
ज्ञोऽरिः षट्त्रिफलप्रदश्च वसुधास्कन्दौ क्रमाद्देवते
भारद्वाजकुलोद्वहोऽरुणरुचिः कुर्यात्सदा मङ्गलम् ॥ 3 ॥
सौम्यः पीत उदङ्मुखः समिदपामार्गोऽत्रिगोत्रोद्भवो
बाणेशानदिशः सुहृद्रविसुतः शान्तः सुतः शीतगोः ।
कन्यायुग्मपतिर्दशाष्टचतुरः षण्णेत्रगः शोभनो
विष्णुर्देव्यधिदेवते मगधपः कुर्यात्सदा मङ्गलम् ॥ 4 ॥
जीवश्चाङ्गिरगोत्रजोत्तरमुखो दीर्घोत्तराशास्थितः
पीतोऽश्वत्थसमिच्च सिन्धुजनितश्चापोऽथ मीनाधिपः ।
सूर्येन्दुक्षितिजाः प्रिया बुधसितौ शत्रू समाश्चापरे
सप्तद्वे नवपञ्चमे शुभकरः कुर्यात्सदा मङ्गलम् ॥ 5 ॥
शुक्रो भार्गवगोत्रजः सितरुचिः पूर्वामुखः पूर्वदिक्
पाञ्चालस्थ वृषस्तुलाधिपमहाराष्ट्राधिपौदुम्बरः ।
इन्द्राणीमघवा बुधश्च रविजो मित्रोर्क चन्द्रावरी
षष्ठत्रिर्दशवर्जिते भृगुसुतः कुर्यात्सदा मङ्गलम् ॥ 6 ॥
मन्दः कृष्णनिभः सपश्चिममुखः सौराष्ट्रपः काश्यपः
स्वामी नक्रसुकुम्भयोर्बुधसितौ मित्रौ कुजेन्दू द्विषौ ।
स्थानं पश्चिमदिक् प्रजापतियमौ देवौ धनुर्धारकः
षट्त्रिस्थः शुभकृच्छनी रविसुतः कुर्यात्सदा मङ्गलम् ॥ 7 ॥
राहुः सिंहलदेशपोऽपि सतमः कृष्णाङ्गशूर्पासनो
यः पैठीनसगोत्रसम्भवसमिद्दूर्वामुखो दक्षिणः ।
यः सर्पः पशुदैवतोऽखिलगतः सूर्यग्रहे छादकः
षट्त्रिस्थः शुभकृच्च सिंहकसुतः कुर्यात्सदा मङ्गलम् ॥ 8 ॥
केतुर्जैमिनिगोत्रजः कुशसमिद्वायव्यकोणेस्थित-
-श्चित्राङ्कध्वजलाञ्छनो हि भगवान् यो दक्षिणाशामुखः ।
ब्रह्मा चैव तु चित्रगुप्तपतिमान् प्रीत्याधिदेवः सदा
षट्त्रिस्थः शुभकृच्च बर्बरपतिः कुर्यात्सदा मङ्गलम् ॥ 9 ॥
इति नवग्रह मङ्गल स्तोत्रम् ।

Explore More