Goddess Durga

दुर्गाचरणस्मरणम् (देवी के श्री चरणों का स्मरण)

(Durga Charana Smaranam)

Also known as bhatu bhavya bhavaniyam bhavanabhavita subha

Ten verses that keep to one subject throughout, the dust of the Goddess's feet, and press the claim rather than merely state it. The first two are built almost entirely on syllables in bha. The waters born of those feet purify the lords of the worlds and dissolve the darkness of the wise; the moon follows the light of her toenails across the sky; the lotus of her foot opens not to the sun but at the touch of Shambhu's eye. The ninth verse carries it furthest — Shiva's matted hair was not made pure by the river of the gods washing through it, but by the pollen of Uma's feet. The last strings five verbs in the first person plural together and names her Uma, Gauri, Durga, Shiva, Amba and Bhavani in a single line.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ दुर्गाचरणस्मरणम् ॥
भातु भव्या भवानीयं भावनाभाविता शुभा ।
भवाङ्गसङ्गतो यस्या भूतयो भान्ति भूतले ॥ १॥
भास्वन्ती भुवनाभिरामभरिताभोगप्रभाभासुरा
भूत्येकप्रभुतामुपेत्य भुवने या भासते भर्गगा ।
भूयोऽमी भुवनेश्वराः सुरगणा यत्पादपाथोद्भवैः
पूर्णैः पूतपरा भवन्ति गलिताऽज्ञानान्धकारैर्बुधाः ॥ २॥
वीणावादनतत्पराऽर्थलहरीमुद्वेल्लयन्ती सती
सा माता जगतां जयत्यतिशयज्ञानप्रदा भारती ।
यस्याः--पादनखप्रभामनुसरँश्चन्द्रोऽम्बरे चञ्चते
रागेणापगतादरो जलजनिः पुष्पाञ्जलिर्याचते ॥ ३॥
आस्तां समस्तवरवस्तुवितानवृन्दे
मातुश्चराचरनमस्कृतपादरेणुः ।
सैका सुरासुरविवन्दिशिरोऽर्चिता स्याद्
भर्गोत्तमाङ्गमिलिता भजतां विभूत्यै ॥ ४॥
भास्वत्करैः समुचितं विकचं करोति
शम्भोर्विलोचनगतेन च सङ्गितं तत् ।
पादाम्बुजं विकसितं न मृषोक्तिरेषा
वैधो विधिर्न विबुधैरपि वाधनीयः ॥ ५॥
उत्तमाङ्गसुभगा सुरापगा मौलिलब्धशरणा दिवश्च्चुता ।
साहसैकरसिका शिवा हि सा पद्गताऽश्रायनतिर्नचाश्रिते ॥ ६॥
सुधान्धःपतिस्ते सुधासुन्दरं किं
नमत्यङ्घ्रियुग्मं यतो भाग्यवान्सः ।
धरायां धियः साधुतैषां त्वदर्थे
धराया धवत्वं कियत्तद्यशोऽदः ॥ ७॥
पार्वतीपतिरयं वृषध्वजः किं श्रुतेरपि पतिर्न गीयते ।
तेन किं सुरपतिप्रपूजितः सेव्यसेवकमतिर्न चिन्त्यते ॥ ८॥
जटा सा धुता देवनद्या जलेन
न पूतेति तेनानतेनापि मूर्ध्ना ।
उमापादपद्मप्रसूतैः परागैः
प्रयुक्तः प्रणामः शिवस्याऽस्तु भूत्यै ॥ ९॥
नमामः प्रयामः पदद्वन्द्वचन्द्रं
चमत्कारचञ्चच्चरित्रं च श‍ृण्मः ।
भजामोर्चयामः श्रवः सौम्यवर्ण-
मुमे गौरि दुर्गे शिवेऽम्बे भवानि ॥ १०॥
॥ इति दुर्गाचरणस्मरणं सम्पूर्णम् ॥

Explore More