ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
अनुवाकं 1
भ॒द्र-ङ्कर्णे॑भि-श्शृणु॒याम॑ देवाः ।
भ॒द्र-म्प॑श्येमा॒क्षभि॒-र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ ॥
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।
स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्ति नो॒ बृह॒स्पति॑-र्दधातु ॥
आप॑मापाम॒प-स्सर्वाः᳚ ।
अ॒स्मा-द॒स्मा-दि॒तो-ऽमुतः॑ ॥ 1 ॥
दे॒वीः प॑र्जन्य॒ सूव॑रीः । पु॒त्र॒व॒त्त्वाय॑ मे सुत ॥ 2 ॥
भुव॑न-न्देव॒सूव॑रीः । आ॒दि॒त्यानदि॑ति-न्दे॒वीम् । योनि॑नोर्ध्व-मु॒दीष॑त ॥ शि॒वा न॒-श्शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः( ) ।
सु॒मृ॒डी॒का सर॑स्वति । मा ते॒ व्यो॑म स॒न्दृशि॑ ॥ 3 ॥
अनुवाकं 2
स्मृतिः॑ प्र॒त्यक्ष॑-मैति॒ह्य᳚म् । अनु॑मान-श्चतुष्ट॒यम् । ए॒तैरादि॑त्य मण्डलम् ।
सर्वै॑रेव॒ विधा᳚स्यते ॥ सूर्यो॒ मरी॑चि॒माद॑त्ते । सर्वस्मा᳚-द्भुव॑नाद॒धि । तस्याः पाक वि॑शेषे॒ण । स्मृ॒त-ङ्का॑ल वि॒शेष॑णम् ॥
न॒दीव॒ प्रभ॑वा-त्का॒चित् । अ॒क्षय्या᳚-थ्स्यन्द॒ते य॑था ॥ 4 ॥
ए॒वन्ना॒ना स॑मुत्था॒नाः । का॒ला-स्सं॑वँथ्स॒रग्ग् श्रि॑ताः । अणुशश्च म॑हश॒श्च । सर्वे॑ समव॒यन्त्रि॑ तम् ॥ स तै᳚-स्स॒र्वै-स्स॑मावि॒ष्टः । ऊ॒रु-स्स॑न्न नि॒वर्त॑ते । अधि संवँथ्स॑रं-विँ॒द्यात् ।
तदेव॑ लक्ष॒णे ॥ 5 ॥
ना॒धिस॑त्त्वः प्र॒दृश्य॑ते ॥ प॒टरो॑ विक्लि॑धः पि॒ङ्गः । ए॒त-द्व॑रुण॒ लक्ष॑णम् । यत्रैत॑-दुप॒दृश्य॑ते । स॒हस्र॑-न्तत्र॒ नीय॑ते ॥
एकग्ं हि शिरो ना॑ना मु॒खे । कृ॒थ्स्न-न्त॑दृत॒ लक्ष॑णम् ॥ 6 ॥
शुक्लकृष्णे संवँ॑थ्सर॒स्य । दक्षिण वाम॑योः पा॒र्श्वयोः । तस्यै॒षा भव॑ति ॥ शु॒क्र-न्ते॑ अ॒न्यद्य॑ज॒त-न्ते॑ अ॒न्यत् ।
विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावः । भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॒स्त्विति॑ ॥
नात्र॒ भुव॑नम् । न पू॒षा । न प॒शवः॑ ।
नादित्य-स्संवँथ्सर एव प्रत्यक्षेण प्रियत॑मं-विँ॒द्यात् । एतद्वै संवँथ्सरस्य प्रियत॑मग्ं रू॒पम् । यो-ऽस्य महानर्थ उत्पथ्स्यमा॑नो भ॒वति । इद-म्पुण्य-ङ्कु॑रुष्वे॒ति । तमाहर॑ण-न्द॒द्यात् ॥ 7 ॥
अनुवाकं 3
सा॒क॒ञ्जानाग्ं॑ स॒प्तथ॑माहु-रेक॒जम् । षडु॑द्य॒मा ऋष॑यो देव॒जा इति॑ ।
तेषा॑मि॒ष्टानि॒ विहि॑तानि धाम॒शः । स्था॒त्रे रे॑जन्ते॒ विकृ॑तानि रूप॒शः ॥ कोनु॑ मर्या॒ अमि॑थितः । सखा॒ सखा॑यमब्रवीत् । जहा॑को अ॒स्मदी॑षते ॥
यस्ति॒त्याज॑ सखि॒विद॒ग्ं॒ सखा॑यम् ।
न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति ।
यदीग्ं॑ शृ॒णोत्य॒लकग्ं॑ शृणोति ॥ 8 ॥
ऋ॒तुर्-ऋ॑तुना नु॒द्यमा॑नः ।
विन॑नादा॒भिधा॑वः । षष्टिश्च त्रिग्ंश॑का व॒ल्गाः ।
शु॒क्लकृ॑ष्णौ च॒ षाष्टि॑कौ ॥
सा॒रा॒ग॒व॒स्त्रै-र्ज॒रद॑क्षः ।
व॒स॒न्तो वसु॑भि-स्स॒ह । सं॒वँ॒थ्स॒रस्य॑ सवि॒तुः । प्रै॒ष॒कृ-त्प्र॑थ॒म-स्स्मृ॑तः ॥ अ॒मूना॒दय॑-तेत्य॒न्यान् ॥ 9 ॥
नि॒जह॑-न्पृथि॑वीग्ं स॒र्वाम् ॥ 10 ॥
शा॒म्यत॑श्चास्य॒ चक्षु॑षी । यावै प्रजा भ्रग्ग्॑श्य॒न्ते । संवँथ्सरात्ता भ्रग्ग्॑श्य॒न्ते ॥ याः॒ प्रति॑तिष्ठ॒न्ति । संवँथ्सरे ताः प्रति॑तिष्ठ॒न्ति । व॒र्॒षाभ्य॑ इत्य॒र्थः ॥ 11 ॥
अनुवाकं 4
अक्षि॑दुः॒खोत्थि॑तस्यै॒व । वि॒प्रस॑न्ने क॒नीनि॑के । आङ्क्ते चाद्ग॑ण-न्ना॒स्ति । ऋ॒भूणा᳚-न्तन्नि॒बोध॑त ॥ क॒न॒का॒भानि॑ वासा॒ग्ं॒सि । अ॒हता॑नि नि॒बोध॑त ।
अन्नमश्र्नीत॑ मृज्मी॒त । अ॒हं-वोँ॑ जीव॒नप्र॑दः ॥ ए॒ता वा॒चः प्र॑युज्य॒न्ते ।
श॒रद्य॑त्रोप॒ दृश्य॑ते ॥ 12 ॥
अनुवाकं 5
अति॑ ता॒म्राणि॑ वासा॒ग्ं॒सि । अ॒ष्टिव॑ज्रि श॒तघ्नि॑ च ।
विश्वे देवा विप्र॑हर॒न्ति । अ॒ग्निजि॑ह्वा अ॒सश्च॑त ॥ नैव देवो॑ न म॒र्त्यः । न राजा व॑रुणो॒ विभुः । नाग्नि-र्नेन्द्रो न प॑वमा॒नः । मा॒तृक्क॑च्च न॒ विद्य॑ते ॥ दि॒व्यस्यैका॒ धनु॑रार्त्निः ।
पृ॒थि॒व्यामप॑रा श्रि॒ता ॥ 15 ॥
स प्र॑व॒र्ग्यो॑-ऽभवत् । तस्मा॒-द्य-स्सप्र॑व॒र्ग्येण॑ य॒ज्ञेन॒ यज॑ते ।
रु॒द्रस्य॒ स शिरः॒ प्रति॑दधाति । नैनग्ं॑ रु॒द्र आरु॑को भवति । य ए॒वं-वेँद॑ ॥ 16 ॥
अनुवाकं 6
अ॒त्यू॒र्ध्वा॒क्षो-ऽति॑रश्चात् । शिशि॑रः प्र॒दृश्य॑ते ।
नैव रूप-न्न॑ वासा॒ग्ं॒सि । न चक्षुः॑ प्रति॒दृश्य॑ते ॥ अ॒न्योन्य॒-न्तु न॑ हिग्ग्स्रा॒तः । स॒त स्त॑-द्देव॒लक्ष॑णम् । लोहितो-ऽक्ष्णि शा॑रशी॒र्ष्णिः ।
सू॒र्यस्यो॑दय॒न-म्प्र॑ति ॥ त्व-ङ्करोषि॑ न्यञ्ज॒लिकाम् । त्व॒-ङ्करो॑षि नि॒जानु॑काम् ॥ 17 ॥
तस्मै सर्व ऋतवो॑ नम॒न्ते । मर्यादा करत्वा-त्प्र॑पुरो॒धाम् । ब्राह्मण॑ आप्नो॒ति । य ए॑वं-वेँ॒द ।
स खलु संवँथ्सर एतै-स्सेनानी॑भि-स्स॒ह ।
इन्द्राय सर्वान्-कामान॑भिव॒हति । स द्र॒फ्सः ।
तस्यै॒षा भव॑ति ॥ 18 ॥
आव॒र्त-मिन्द्र॒-श्शच्या॒ धम॑न्तम् । उपस्नुहि त-न्नृमणा-मथ॑द्रामि॒ति ॥ एतयै वेन्द्र-स्सला वृ॑क्या स॒ह । असुरा-न्प॑रिवृ॒श्चति । पृथि॑व्य॒ग्ं॒ शुम॑ती । ताम॒न्व-व॑स्थित-स्संवँथ्स॒रो दि॒वञ्च॑ ।
नैवं-विँदुषा-ऽऽचार्या᳚-न्तेवा॒सिनौ । अन्योन्यस्मै᳚ द्रुह्या॒ताम् । यो द्रु॒ह्यति । भ्रश्यते स्व॑र्गा-ल्लो॒कात् । इत्यतु म॑ण्डला॒नि । सूर्य मण्डला᳚ न्याख्या॒यिकाः । अत ऊर्ध्वग्ंस॑निर्व॒चनाः ॥ 19 ॥
अनुवाकं 7
आरोगो भ्राजः पटरः॑ पत॒ङ्गः । स्वर्णरो ज्योतिषीमान्॑. विभा॒सः । ते अस्मै सर्वे दिवमा॑तप॒न्ति । ऊर्ज-न्दुहाना अनपस्फुर॑न्त इ॒ति ॥ कश्य॑पो-ऽष्ट॒मः । स महामेरु-न्न॑ जहा॒ति । तस्यै॒षा भव॑ति ॥ यत्ते॒ शिल्प॑-ङ्कश्यप रोच॒नाव॑त् । इ॒न्द्रि॒याव॑-त्पुष्क॒ल-ञ्चि॒त्रभा॑नु ।
यस्मि॒-न्थ्सूर्या॒ अर्पि॑ता-स्स॒प्त सा॒कम् ॥ 20 ॥
प्राणो जीवानीन्द्रिय॑ जीवा॒नि । सप्त शीर्ष॑ण्याः प्रा॒णाः ।
सूर्या इ॑त्याचा॒र्याः ॥ अपश्यमह मेतान्-थ्सप्त सू᳚र्यानि॒ति । पञ्चकर्णो॑ वाथ्स्या॒यनः । सप्तकर्ण॑श्च प्ला॒क्षिः ॥ 21 ॥
न हि शेकुमिव महामे॑रु-ङ्ग॒न्तुम् ॥
अपश्यमहमेत-थ्सूर्यमण्डल-म्परिव॑र्तमा॒नम् ।
गा॒र्ग्यः प्रा॑णत्रा॒तः । गच्छन्त म॑हामे॒रुम् । एक॑ञ्चाज॒हतम् ॥ भ्राजपटर पत॑ङ्गा नि॒हने । तिष्ठन्ना॑तप॒न्ति । तस्मा॑दि॒ह तप्त्रि॑ तपाः ॥ 22 ॥
सप्तर्त्विज-स्सूर्या इ॑त्याचा॒र्याः ॥ तेषा॑मेषा॒ भव॑ति ॥
स॒प्त दिशो॒ नाना॑ सूर्याः ॥ 23 ॥
तेभि-स्सोमाभी रक्ष॑ण इ॒ति ॥ तद॑प्याम्ना॒यः । दिग्भ्राज ऋतू᳚न् करो॒ति ॥ एत॑यैवा॒वृता ऽऽसहस्रसूर्यताया इति वै॑शम्पा॒यनः ॥ तस्यै॒षा भव॑ति ॥
यद्द्याव॑ इन्द्र ते श॒तग्ं श॒त-म्भूमीः᳚ । उ॒त स्युः ।
न त्वा॑ वज्रिन्-थ्स॒हस्र॒ग्ं॒ सूर्याः᳚ ॥ 24 ॥
तेषा॑मेषा॒ भव॑ति ॥ चि॒त्र-न्दे॒वाना॒-मुद॑गा॒दनी॑कम् । चक्षु॑-र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आ-ऽप्रा॒ द्यावा॑ पृथि॒वी अ॒न्तरि॑क्षम् ।
सूर्य आत्मा जगतस्तस्थु॑षश्चे॒ति ॥ 25 ॥
अनुवाकं 8
क्वेदमभ्र॑-न्निवि॒शते । क्वायग्ं॑ संवँथ्स॒रो मि॑थः । क्वाहः क्वेय-न्दे॑व रा॒त्री । क्व मासा ऋ॑तव॒-श्श्रिताः ॥ अर्धमासा॑ मुहू॒र्ताः । निमेषास्तु॑टिभिः॒ (निमेषास्त्र॑टिभिः॒) सह । क्वेमा आपो नि॑विश॒न्ते । य॒दीतो॑ यान्ति॒ सम्प्र॑ति ॥ काला अफ्सु नि॑विश॒न्ते । आ॒प-स्सूर्ये॑ स॒माहि॑ताः ॥ 26 ॥
वि॒ष्णुना॑ विधृ॑ते भू॒मी । इ॒ति व॑थ्सस्य॒ वेद॑ना ॥
इरा॑वती धेनु॒मती॒ हि भू॒तम् । सू॒य॒व॒सिनी॒ मनु॑षे दश॒स्ये᳚ ॥ 27 ॥
किन्त-द्विष्णो र्बल॑मा॒हुः । का॒ दीप्तिः॑ कि-म्प॒राय॑णम् ।
एको॑ य॒द्धा-र॑य द्दे॒वः । रे॒जती॑ रोद॒सी उ॑भे ॥ वाताद्विष्णो-र्ब॑ल मा॒हुः । अ॒क्षरा᳚-द्दीप्ति॒ रुच्य॑ते । त्रि॒पदा॒द्धार॑य-द्दे॒वः । यद्विष्णो॑रेक॒-मुत्त॑मम् ॥ 28 ॥
ए॒त-त्पृ॑च्छामि॒ सम्प्र॑ति ॥ अ॒मुमा॑हुः प॑र-म्मृ॒त्युम् । प॒वमा॑न-न्तु॒ मद्ध्य॑मम् । अ॒ग्निरे॒वाव॑मो मृ॒त्युः । च॒न्द्रमा᳚-श्चतु॒रुच्य॑ते ॥ 29 ॥
रोदस्योरन्त॑-र्देशे॒षु । तत्र न्यस्यन्ते॑ वास॒वैः ॥
ते ऽशरीराः प्र॑पद्य॒न्ते ।
य॒था ऽपु॑ण्यस्य॒ कर्म॑णः । अपा᳚ण्य॒पाद॑ केशा॒सः । त॒त्र ते॑-ऽयोनि॒जा ज॑नाः ॥ मृत्वा पुनर्मृत्यु-मा॑पद्य॒न्ते । अ॒द्यमा॑ना-स्स्व॒कर्म॑भिः ॥ 31 ॥
अपै॑त-म्मृ॒त्यु-ञ्ज॑यति । य ए॒वं-वेँद॑ । स खल्वैवं॑-विँद्ब्रा॒ह्मणः । दी॒र्घश्रु॑त्तमो॒ भव॑ति । कश्य॑प॒स्याति॑थि॒-स्सिद्धग॑मन॒-स्सिद्धाग॑मनः ॥
तस्यै॒षा भव॑ति ॥ आयस्मिन᳚-थ्स॒प्त वा॑स॒वाः ।
रोह॑न्ति पू॒र्व्या॑ रुहः॑ ॥ 32 ॥
कश्यपः पश्य॑को भ॒वति । यथ्सर्व-म्परिपश्यती॑ति सौ॒क्ष्म्यात् ॥ अथाग्ने॑रष्टपु॑रुष॒स्य । तस्यै॒षा भव॑ति ॥ अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् ।
विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒द्ध्य॑स्म-ज्जु॑हुरा॒णमेनः॑ । भूयिष्ठान्ते नम उक्तिं-विँ॑धेमे॒ति ॥ 33 ॥
अनुवाकं 9
अग्निश्च जात॑वेदा॒श्च । सहोजा अ॑जिरा॒प्रभुः । वैश्वानरो न॑र्यापा॒श्च । प॒ङ्क्तिरा॑धाश्च॒ सप्त॑मः ।
विसर्पे वाष्ट॑मो-ऽग्नी॒नाम् । एते-ऽष्टौ वसवः, क्षि॑ता इ॒ति ॥ यथर्त्वे-वाग्ने-रर्चिर्वर्ण॑ विशे॒षाः ।
नीलार्चिश्च पीतका᳚र्चिश्चे॒ति ॥ अथ वायो-रेकादश-पुरुषस्यैकादश॑स्त्रीक॒स्य ॥
प्रभ्राजमाना व्य॑वदा॒ताः ॥ 34 ॥
कपिला अ॑तिलो॒हिताः । ऊर्ध्वा अवप॑तन्ता॒श्च । वैद्युत इ॑त्येका॒दश ॥ नैनं-वैँद्युतो॑ हिन॒स्ति । य ए॑वं-वेँ॒द ॥ स होवाच व्यासः पा॑राश॒र्यः ।
विद्युद्वधमेवाह-म्मृत्युमै᳚च्छमि॒ति ॥
न त्वका॑मग्ं ह॒न्ति ॥ 35 ॥
कृतिरित्येकादश ग॑न्धर्व॒गणाः ॥ देवाश्च म॑हादे॒वाः । रश्मयश्च देवा॑ गर॒गिरः ॥ 36 ॥
अथ निगद॑व्याख्या॒ताः । ताननुक्र॑मिष्या॒मः ॥
व॒राहवः॑-स्वत॒पसः ॥ 37 ॥
वृष्टि॑भिरि॒ति । एतयैव विभक्ति वि॑परी॒ताः । स॒प्तभि॒र्वातै॑ रुदी॒रिताः । अमूं-लोँका-नभिव॑र्ष॒न्ति । तेषा॑मेषा॒ भव॑ति ॥ स॒मा॒न-मे॒तदुद॑कम् ॥ 38 ॥
दिव-ञ्जिन्वन्-त्यग्न॑य इ॒ति ॥ यदक्ष॑र-म्भू॒तकृ॑तम् ।
विश्वे॑ देवा उ॒पास॑ते । म॒हर्षि॑मस्य गो॒प्तार᳚म् । ज॒मद॑ग्नि॒-मकु॑र्वत ॥ ज॒मद॑ग्नि॒-राप्या॑यते । छन्दो॑भि-श्चतुरुत्त॒रैः । राज्ञ॒-स्सोम॑स्य तृ॒प्तासः॑ ॥ 39 ॥
स्व॒स्ति-र्मानु॑षेभ्यः । ऊ॒र्ध्व-ञ्जि॑गातु भेष॒जम् ।
शन्नो॑ अस्तु द्वि॒पदे᳚ । शञ्चतु॑ष्पदे ॥
सोमपा(3) असोमपा(3) इति निगद॑व्याख्या॒ताः ॥ 40 ॥
अनुवाकं 10
स॒ह॒स्र॒वृदि॑य-म्भू॒मिः । प॒रं-व्योँ॑म स॒हस्र॑वृत् । अ॒श्विना॑ भुज्यू॑ नास॒त्या । वि॒श्वस्य॑ जग॒तस्प॑ती ॥ जाया भूमिः प॑तिर्व्यो॒म । मि॒थुन॑न्ता अ॒तुर्य॑थुः । पुत्रो बृहस्प॑ती रु॒द्रः । स॒रमा॑ इति॑ स्त्रीपु॒मम् ॥ शु॒क्रं-वाँ॑म॒न्यद्य॑ज॒तं-वाँ॑म॒न्यत् । विषु॑रूपे॒ अह॑नी॒ द्यौरि॑व स्थः ॥ 41 ॥
ताव॒श्विना॑ रा॒सभा᳚श्वा॒ हव॑-म्मे । शु॒भ॒स्प॒ती॒ आ॒गतग्ं॑ सू॒र्यया॑ स॒ह ॥ त्युग्रो॑ ह भु॒ज्यु-म॑श्विनोद मे॒घे । र॒यिन्न कश्चि॑-न्ममृ॒वाँ(2) अवा॑हाः । तमू॑हथु-र्नौ॒भिरा᳚त्म॒न्-वती॑भिः ।
अ॒न्त॒रि॒क्ष॒ प्रुड्भि॒र-पो॑दकाभिः ॥ 42 ॥
स॒विता॑ ऽरेप॒सो॑ ऽभवत् ॥ त्यग्ं सुतृप्तं-विँ॑दित्वै॒व । ब॒हुसो॑म गि॒रं-वँ॑शी ॥ 43 ॥
स सङ्ग्राम-स्तमो᳚द्यो-ऽत्यो॒तः । वाचो गाः पि॑पाति॒ तत् ।
स तद्गोभि-स्स्तवा᳚ ऽत्येत्य॒न्ये । र॒क्षसा॑ ऽनन्वि॒ताश्च॑ ये ॥ अ॒न्वेति॒ परि॑वृत्त्या॒-ऽस्तः । ए॒वमे॒तौ स्थो॑ अश्विना । ते ए॒ते द्युः॑ पृथि॒व्योः । अह॑रह॒-र्गर्भ॑न्दधाथे ॥ 44 ॥
ता अवि॑सृष्टौ । दम्प॑ती ए॒व भ॑वतः ॥ तयो॑ रे॒तौ व॒थ्सौ ॥ 46 ॥
तस्या॒ वा ए॒तदु॒ल्बण᳚म् । यद्रात्रौ॑ र॒श्मयः॑ । यथा॒ गोर्ग॒र्भिण्या॑ उ॒ल्बण᳚म् । ए॒वमे॒तस्या॑ उ॒ल्बण᳚म् ॥ प्रजयिष्णुः प्रजया च पशुभि॑श्च भ॒वति ।
य ए॑वं-वेँ॒द । एतमुद्यन्त-मपिय॑न्तञ्चे॒ति । आदित्यः पुण्य॑स्य व॒थ्सः । अथ पवि॑त्राङ्गि॒रसः ॥ 47 ॥
अनुवाकं 11
प॒वित्र॑वन्तः॒ परि॒वाज॒मास॑ते । पि॒तैषा᳚-म्प्र॒त्नो अ॒भिर॑क्षति व्र॒तम् । म॒हस्स॑मु॒द्रं-वँरु॑ण स्ति॒रोद॑धे । धीरा॑ इच्छेकु॒र्धरु॑णेष्वा॒रभ᳚म् ॥
प॒वित्र॑-न्ते॒ वित॑त॒-म्ब्रह्म॑ण॒स्पते᳚ । प्रभु॒र्गात्रा॑णि॒ पर्ये॑षि वि॒श्वतः॑ ।
अत॑प्ततनू॒-र्न तदा॒मो अ॑श्नुते । शृ॒तास॒ इद्वह॑न्-त॒स्त-थ्समा॑शत ॥ ब्र॒ह्मा दे॒वाना᳚-म्पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णा-म्महि॒षो मृ॒गाणा᳚म् । श्ये॒नो गृध्रा॑णा॒ग्॒ स्वधि॑ति॒-र्वना॑ना॒ग्ं॒ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभन्न्॑ ॥ अस॑त-स्स॒द्ये तत॑क्षुः ॥ 48 ॥
नक्ष॑त्रै॒-श्शङ्कृ॑तो ऽवसन्न् ॥ अथ॑ सवितु॒-श्श्यावाश्व॒स्या ऽवर्ति॑कामस्य ॥ अ॒मी य ऋक्षा॒ निहि॑ता स उ॒च्चा । नक्त॒-न्ददृ॑श्रे॒ कुह॑चि॒द्दिवे॑युः ।
अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ । वि॒चा॒कश॑-च्च॒न्द्रमा॒ नक्ष॑त्रमेति ॥
त-थ्स॑वि॒तु-र्वरे᳚ण्यम् । भर्गो॑ दे॒वस्य॑ धीमहि ॥ 49 ॥
व॒य-न्दे॒वस्य॒ भोज॑नम् । श्रेष्ठग्ं॑ सर्व॒धात॑मम् । तुर॒-म्भग॑स्य धीमहि ॥
अपा॑गूहत सविता॒ तृभीन्॑ । सर्वा᳚-न्दि॒वो अन्ध॑सः ।
नक्त॑006छ्;॒तान्य॑भव-न्दृ॒शे । अस्थ्य॒स्थ्ना सम्भ॑विष्यामः ॥ नाम॒ नामै॒व ना॒म मे᳚ ॥ 50 ॥
य॒जे-ऽयक्षि॒ यष्टा॒हे च॑ ॥ मया॑ भू॒तान्य॑यक्षत । प॒शवो॑ मम॑ भूता॒नि । अनूबन्ध्यो ऽस्म्य॑हं-विँ॒भुः ॥ स्त्रियः॑ स॒तीः । ता उ॑ मे पु॒ग्ं॒स आ॑हुः ।
पश्य॑दक्ष॒ण्वान्न-विचे॑तद॒न्धः । क॒विर्यः पु॒त्र-स्स इ॒मा चि॑केत ॥ 51 ॥
ऊर्ध्वमूल-म॑वाक्छा॒खम् । वृ॒क्षं-याँ॑ वेद॒ सम्प्र॑ति । न स जातु जनः॑ श्रद्द॒द्ध्यात् । मृ॒त्युर्मा॑ मार॒यादि॑तिः ॥ हसितग्ं रुदि॑तङ्गी॒तम् ॥ 52 ॥
अ॒ङ्गानि॑ स्नेव॒ विद्धि॑ तत् ॥ अतृ॑ष्य॒ग्ग्॒स्तृष्य॑ ध्यायत् । अ॒स्माज्जा॒ता मे॑ मिथू॒ चरन्न्॑ । पुत्रो निर्-ऋत्या॑ वैदे॒हः । अ॒चेता॑ यश्च॒ चेत॑नः ॥ स॒ त-म्मणिम॑विन्दत् । सो॑-ऽनङ्गुलि॒राव॑यत् ।
सो॒-ऽग्री॒वः प्रत्य॑मुन्चत् ॥ 53 ॥
वा॒त ध्रा॑जि ग॒तिं-विँ॑भो ॥ न॒ रि॒ष्यति॑ न व्य॒थते ॥ 54 ॥
नियुद्भि-र्वायविह ता॑ विमु॒ञ्च ॥ 55 ॥
अनुवाकं 12
आत॑नुष्व॒ प्रत॑नुष्व । उ॒द्धमाध॑म॒ सन्ध॑म । आदित्ये चन्द्र॑वर्णा॒नाम् । गर्भ॒ मा धे॑हि॒ यः पुमान्॑ ॥ इ॒त-स्सि॒क्तग्ं सूर्य॑गतम् ।
च॒न्द्रम॑से॒ रस॑ङ्कृधि ।
वाराद-ञ्जन॑या-ग्रे॒-ऽग्निम् । य एको॑ रुद्र॒ उच्य॑ते ॥
अ॒स॒-ङ्ख्या॒ता-स्स॑हस्रा॒णि ।
स्म॒र्यते॑ न च॒ दृश्य॑ते ॥ 56 ॥
अणुभिश्च म॑हद्भि॒श्च ॥ 57 ॥
सुब्रह्मण्योग्ं सुब्रह्मण्योग्ं सु॑ब्रह्म॒ण्योम् ।
इन्द्रागच्छ हरिव आगच्छ मे॑धाति॒थेः । मेष वृषणश्व॑स्य मे॒ने ॥ 58 ॥
उक्तो वेषो॑ वासा॒ग्ं॒सि च । कालावयवाना-मितः॑ प्रती॒ज्या । वासात्या॑ इत्य॒श्विनोः । को-ऽन्तरिक्षे शब्दङ्क॑रोती॒ति । वासिष्ठो रौहिणो मीमाग्ं॑सा-ञ्च॒क्रे । तस्यै॒षा भव॑ति ॥
वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒थ्स-न्न मा॒ता सि॑षक्ति । यदे॑षां-वृँ॒ष्टिरस॑र्जि ॥ दिति॑ ॥ ब्रह्म॑ण उ॒दर॑णमसि । ब्रह्म॑ण उदी॒रण॑मसि । ब्रह्म॑ण आ॒स्तर॑णमसि । ब्रह्म॑ण उप॒स्तर॑णमसि ॥ 60 ॥
अनुवाकं 13
अ॒ष्टयो॑नी-म॒ष्टपु॑त्राम् । अ॒ष्टप॑त्नी-मि॒मा-म्मही᳚म् । अ॒हं-वेँद॒ न मे॑ मृत्युः ।
न चामृ॑त्युर॒घाह॑रत् ॥ अ॒ष्टयो᳚न्य॒ष्ट पु॑त्रम् । अ॒ष्टप॑दि॒द-म॒न्तरि॑क्षम् । अ॒हं-वेँद॒ न मे॑ मृत्युः । न चामृ॑त्युर॒घाह॑रत् । अ॒ष्टयो॑नी-म॒ष्टपु॑त्राम् । अ॒ष्टप॑त्नी-म॒मून्दिव᳚म् ॥ 61 ॥
न चामृ॑त्युर॒घाह॑रत् ॥ सु॒त्रामा॑ण-म्पृथि॒वी-न्द्याम॑ने॒हसग्ं॑ सु॒शर्मा॑ण॒ मदि॑तिग्ं सु॒प्रणी॑तिम् । दैवी॒-न्नावग्ग्॑ स्वरि॒त्रामना॑गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये᳚ ॥ म॒हीमू॒षुम॒हीमू॒ षु मा॒तरग्ं॑ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम । तु॒वि॒क्ष॒त्राम॒जर॑न्तीमुरू॒चीग्ं सु॒शर्मा॑ण॒मदि॑तिग्ं सु॒प्रणी॑तिम् ॥ अदि॑ति॒र्द्यौ-रदि॑ति-र॒न्तरि॑क्षम् ।
अदि॑ति र्मा॒ता स पि॒ता स पु॒त्रः । विश्वे॑ दे॒वा अदि॑तिः॒ पञ्च॒ जनाः᳚ । अदि॑ति-र्जा॒त-मदि॑ति॒-र्जनि॑त्वम् ॥ अ॒ष्टौ पु॒त्रासो॒ अदि॑तेः । ये जा॒ता स्त॒न्वः॑ परि॑ । दे॒वाँ (2) उप॑प्रै-थ्स॒प्तभिः॑ ॥ 62 ॥
ब्रह्म॑ जज्ञा॒न-म्प्र॑थ॒म-म्पु॒रस्ता॒द्वि सी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठा-स्स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ ॥ तदित्प॒द-न्न विचि॑केत वि॒द्वान् । यन्मृ॒तः पुन॑र॒प्येति॑ जी॒वान् । त्रि॒वृद्य-द्भुव॑नस्य रथ॒वृत् । जी॒वो गर्भो॒ न मृ॒त-स्स जी॑वात् ॥ मिति॑ ॥
ग॒र्भः प्रा॑जाप॒त्यः । अथ॒ पुरु॑ष-स्स॒प्तपुरु॑षः ॥ 63 ॥
अनुवाकं 14
[ य॒था॒स्था॒न-ङ्ग॑र्भि॒ण्यः॑ ]
यो-ऽसौ॑ त॒पन्नु॒देति॑ । स सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णाना॒दायो॒देति॑ । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णाना॒दायोद॑गाः ॥
अ॒सौ यो᳚ ऽस्त॒मेति॑ । स सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णाना॒दाया॒स्तमेति॑ । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णाना॒दाया स्त॑ङ्गाः ॥
अ॒सौ य आ॒पूर्य॑ति । स सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णै रा॒पूर्य॑ति ॥ 64 ॥
मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरप॑ प्रसृपत॒ मोथ्सृ॑पत ॥ 65 ॥
सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णैरप॑ प्रसर्पन्ति॒ चोथ्स॑र्पन्ति च । मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरप॑ प्रसृपत॒ मोथ्सृ॑पत । इ॒म ऋ॒तवः॑ । सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णैरप॑ प्रसर्पन्ति॒ चोथ्स॑र्पन्ति च ।
मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरप॑ प्रसृपत॒ मोथ्सृ॑पत ॥ अ॒यग्ं सं॑वँथ्स॒रः ।
सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णैरप॑ प्रसर्पति॒ चोथ्स॑र्पति च ॥ 66 ॥
इ॒दमहः॑ । सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णै-रप॑ प्रसर्पति॒ चोथ्स॑र्पति च ।
मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑ प्रसृप॒ मोथ्सृ॑प ।
इ॒यग्ं रात्रिः॑ । सर्वे॑षा-म्भू॒ताना᳚-म्प्रा॒णै-रप॑ प्रसर्पति॒ चोथ्स॑र्पति च ।
मा मे᳚ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑ प्रसृप॒ मोथ्सृ॑प ॥
औ-म्भूर्भुव॒स्स्वः॑ ॥ एतद्वो मिथुन-म्मा नो मिथु॑नग्ं री॒ढ्वम् ॥ 67 ॥
(योसौ॒ षोड॑शा॒मूनि॒ द्वाद॑शा॒य-ञ्चतु॑र्दश)
(उ॒देत्य॑स्त॒मेत्या॒पूर्य॑त्यप॒क्षीय॑त्य॒मूनि॒ नक्ष॑त्राणी॒ मे मासा॑ इ॒म ऋ॒तवो॒-ऽयग्ं सं॑वँथ्स॒र इ॒दमह॑रि॒यग्ं रात्रि॒र्दश॑)
अनुवाकं 15
अथादित्यस्याष्ट पु॑रुष॒स्य ॥
वसूना मादित्यानाग् स्थाने स्वतेज॑सा भा॒नि ॥
रुद्राणा-मादित्यानाग् स्थाने स्वतेज॑सा भा॒नि ॥
आदित्याना-मादित्यानाग् स्थाने स्वतेज॑सा भा॒नि ॥ सताग्ं॑सत्या॒नाम् । आदित्यानाग् स्थाने स्वतेज॑सा भा॒नि ॥ अभिधून्वता॑-मभि॒घ्नताम् । वातव॑ता-म्म॒रुताम् । आदित्यानाग् स्थाने स्वतेज॑सा भा॒नि ॥
ऋभूणा-मादित्यानाग् स्थाने स्वतेज॑सा भा॒नि ॥
विश्वेषा᳚-न्देवा॒नाम् । आदित्यानाग् स्थाने स्वतेज॑सा भा॒नि ॥ संवँथ्सर॑स्य स॒वितुः । आदित्यस्य स्थाने स्वतेज॑सा भा॒नि ॥ औ-म्भूर्भुव॒स्स्वः॑ ।
रश्मयो वो मिथुन-म्मा नो मिथु॑नग्ं री॒ढ्वम् ॥ 68 ॥
अनुवाकं 16
आरोगस्य स्थाने स्वतेज॑सा भा॒नि । भ्राजस्य स्थाने स्वतेज॑सा भा॒नि । पटरस्य स्थाने स्वतेज॑सा भा॒नि । पतङ्गस्य स्थाने स्वतेज॑सा भा॒नि ।
स्वर्णरस्य स्थाने स्वतेज॑सा भा॒नि ।
ज्योतिषीमतस्य स्थाने स्वतेज॑सा भा॒नि ।
विभासस्य स्थाने स्वतेज॑सा भा॒नि ।
कश्यपस्य स्थाने स्वतेज॑सा भा॒नि । औ-म्भूर्भुव॒स्स्वः॑ । आपो वो मिथुन-म्मा नो मिथु॑नग्ं री॒ढ्वम् ॥ 69 ॥
अनुवाकं 17
अथ वायो-रेकादश-पुरुषस्यैकादश॑-स्त्रीक॒स्य ॥
प्रभ्राजमानानाग्ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
व्यवदातानाग्ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
वासुकिवैद्युतानाग्ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
रजतानाग्ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
परुषाणाग्ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
श्यामानाग्ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
कपिलानाग्ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
अतिलोहितानाग्ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
ऊर्ध्वानाग्ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ॥ 70 ॥
वैद्युतानाग्ं रुद्राणाग् स्थाने स्वतेज॑सा भा॒नि ।
प्रभ्राजमानीनाग्ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
व्यवदातीनाग्ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
वासुकिवैद्युतीनाग्ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
रजतानाग्ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
परुषाणाग्ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
श्यामानाग्ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
कपिलानाग्ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
अतिलोहितीनाग्ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
ऊर्ध्वानाग्ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
अवपतन्तीनाग्ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
वैद्युतीनाग्ं रुद्राणीनाग् स्थाने स्वतेज॑सा भा॒नि ।
औ-म्भूर्भुव॒स्स्वः॑ ।
रूपाणि वो मिथुन-म्मा नो मिथु॑नग्ं री॒ढ्वम् ॥ 71 ॥
अनुवाकं 18
अथाग्ने॑रष्ट पु॑रुष॒स्य ॥ अग्नेः पूर्व-दिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
जातवेदस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
सहोजसो दक्षिण-दिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
अजिराप्रभव उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
वैश्वानरस्यापरदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
नर्यापस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
पङ्क्तिराधस उदग्दिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
विसर्पिण उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि ।
औ-म्भूर्भुव॒स्स्वः॑( ) । दिशो वो मिथुन-म्मा नो मिथु॑नग्ं री॒ढ्वम् ॥ 72 ॥
(एत-द्रश्मय आपो रूपाणि दिशः पञ्च॑)
अनुवाकं 19
दक्षिणपूर्व-स्यान्दिशि विस॑र्पी न॒रकः । तस्मान्नः प॑रिपा॒हि ॥
दक्षिणा-परस्या-न्दिश्य विस॑र्पी न॒रकः ।
तस्मान्नः प॑रिपा॒हि ॥
उत्तर-पूर्वस्या-न्दिशि विषा॑दी न॒रकः ।
तस्मान्नः प॑रिपा॒हि ॥
उत्तरा-परस्या-न्दिश्य विषा॑दी न॒रकः ।
तस्मान्नः प॑रिपा॒हि ॥
आयस्मिन्᳚ थ्स॒प्तवा॑स॒वा स्तिष्ठ॑न्ति स्वा॒रुहो॑ यथा । ऋषि॑र्ह दीर्घ॒श्रुत्त॑म॒ इन्द्र॑स्य घ॒र्मो अति॑थिः ॥ इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ । इन्द्र॒ तानि॑ त॒ आ वृ॑णे ॥ वित्ये॒ते ॥ 73 ॥
अनुवाकं 20
इ॒न्द्र॒ घो॒षा वो॒ वसु॑भिः पु॒रस्ता॒-दुप॑दधताम् ।
मनो॑जवसो वः पि॒तृभि॑-र्दक्षिण॒त उप॑दधताम् ।
प्रचे॑ता वो रु॒द्रैः प॒श्चा-दुप॑दधताम् ।
वि॒श्वक॑र्मा व आदि॒त्यै-रु॑त्तर॒त उप॑दधताम् ।
त्वष्टा॑ वो रू॒पै-रु॒परि॑ष्टा॒-दुप॑दधताम् । सञ्ज्ञानं-वः ँप॑श्चादि॒ति ॥ आ॒दि॒त्य-स्सर्वो॒-ऽग्निः पृ॑थि॒व्याम् । वा॒युर॒न्तरि॑क्षे । सूर्यो॑ दि॒वि ।
च॒न्द्रमा॑ दि॒क्षु । नक्ष॑त्राणि॒ स्वलो॒के ॥ ए॒वा ह्ये॑व । ए॒वा ह्य॑ग्ने । ए॒वा हि वा॑यो । ए॒वा ही᳚न्द्र । ए॒वा हि पू॑षन्न् । ए॒वा हि दे॑वाः ॥ 74 ॥
अनुवाकं 21
आप॑मापाम॒प-स्सर्वाः᳚ । अ॒स्मा-द॒स्मादि॒तो-ऽमुतः॑ ।
अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च । स॒ह स॑ञ्चस्क॒रर्धि॑या ॥
वा॒य्वश्वा॑ रश्मि॒ पत॑यः । मरी᳚च्यात्मानो॒ अद्रु॑हः ।
दे॒वी र्भु॑वन॒ सूव॑रीः । पु॒त्र॒व॒त्त्वाय॑ मे सुत ॥
महानाम्नी-र्म॑हामा॒नाः । म॒ह॒सो म॑हस॒स्स्वः॑ ॥ 75 ॥
अ॒पाश्न्यु॑ष्णि-म॒पा रक्षः॑ । अ॒पाश्न्यु॑ष्णि-म॒पा रघ᳚म् । अपा᳚घ्रा॒मप॑ चा॒वर्ति᳚म् । अप॑ दे॒वीरि॒तो हि॑त ॥
वज्र॑-न्दे॒वीरजी॑ताग्श्च । भुव॑न-न्देव॒ सूव॑रीः । आ॒दि॒त्यानदि॑ति-न्दे॒वीम् । योनि॑नोर्ध्व-मु॒दीष॑त ॥ 76 ॥
भ॒द्र-म्प॑श्येमा॒क्षभि॒-र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚ स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ ।
व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ ॥
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑-र्दधातु ॥ के॒तवो॒ अरु॑णासश्च । ऋ॒ष॒यो वात॑रश॒नाः( ) । प्र॒ति॒ष्ठाग्ं श॒तधा॑ हि । स॒माहि॑तासो सहस्र॒धाय॑सम् ॥ शि॒वा न॒-श्शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः ॥ सु॒मृ॒डी॒का सर॑स्वति । माते॒ व्यो॑म स॒न्दृशि॑ ॥ 77 ॥
अनुवाकं 22
यो॑-ऽपा-म्पुष्पं॒-वेँद॑ । पुष्प॑वा-न्प्र॒जावा᳚-न्पशु॒मा-न्भ॑वति । च॒न्द्रमा॒ वा अ॒पा-म्पुष्प᳚म् । पुष्प॑वा-न्प्र॒जावा᳚-न्पशु॒मा-न्भ॑वति ।
य ए॒वं-वेँद॑ ॥ यो॑-ऽपामा॒यत॑नं॒-वेँद॑ । आ॒यत॑नवा-न्भवति । अ॒ग्निर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवा-न्भवति । यो᳚-ऽग्नेरा॒यत॑नं॒-वेँद॑ ॥ 78 ॥
वा॒युर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवा-न्भवति ।
यो वा॒योरा॒यत॑नं॒-वेँद॑ । आ॒यत॑नवा-न्भवति ॥ 79 ॥
यश्च॒न्द्रम॑स आ॒यत॑नं॒-वेँद॑ । आ॒यत॑नवा-न्भवति । आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम् । आ॒यत॑नवा-न्भवति ॥ 81 ॥
य ए॒वं-वेँद॑ ॥ 82 ॥
यः प॒र्जन्य॑-स्या॒यत॑नं॒-वेँद॑ ।
आ॒यत॑नवा-न्भवति । आपो॒ वै प॒र्जन्य॑-स्या॒यत॑नम् ।
आ॒यत॑नवा-न्भवति । य ए॒वं-वेँद॑ ॥ यो॑-ऽपामा॒यत॑नं॒-वेँद॑ ॥ 83 ॥
आ॒यत॑नवा-न्भवति । आपो॒ वै सं॑वँथ्स॒र-स्या॒यत॑नम् । आ॒यत॑नवा-न्भवति । य ए॒वं-वेँद॑ ॥
यो᳚-ऽफ्सु नाव॒-म्प्रति॑ष्ठितां॒-वेँद॑ । प्रत्ये॒व ति॑ष्ठति ॥ 84 ॥
अ॒पाग्ं रस॒मुद॑यग्ंसन्न् । सूर्ये॑ शु॒क्रग्ं स॒माभृ॑तम् । अ॒पाग्ं रस॑स्य॒ यो रसः॑ । तं-वोँ॑ गृह्णा-म्युत्त॒ममिति॑ ॥ इ॒मे वै लो॒का अ॒पाग्ं रसः॑ । ते॑-ऽमुष्मि॑-न्नादि॒त्ये स॒माभ॑ताः ॥
जा॒नु॒द॒घ्नी-मु॑त्तर-वे॒दीङ्खा॒त्वा । अ॒पा-म्पू॑रयि॒त्वा गु॑ल्फद॒घ्नम् ॥ 85 ॥
कस्मा᳚-त्प्रणी॒ते-ऽय-म॒ग्निश्ची॒यते᳚ । साः प्र॑णी॒ते-ऽयम॒फ्सु ह्यय॑ञ्ची॒यते᳚ ।
अ॒सौ भुव॑ने॒-ऽप्य-ना॑हिताग्नि-रे॒ताः ।
तम॒भित॑ ए॒ता अ॒बीष्ट॑का॒ उप॑दधाति ॥
अ॒ग्नि॒हो॒त्रे द॑र्शपूर्ण-मा॒सयोः᳚ ।
प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ ॥ 86 ॥
ए॒तद्ध॑ स्म॒ वा आ॑हु-श्शण्डि॒लाः । कम॒ग्निञ्चि॑नुते ॥ स॒त्रि॒य-म॒ग्निञ्चि॑न्वा॒नः ।
सं॒वँ॒थ्स॒र-म्प्र॒त्यक्षे॑ण ॥ कम॒ग्निञ्चि॑नुते । सा॒वि॒त्र-म॒ग्निञ्चि॑न्वा॒नः । अ॒मुमा॑दि॒त्य-म्प्र॒त्यक्षे॑ण ॥ कम॒ग्निञ्चि॑नुते ॥ 87 ॥
वै॒श्व॒सृ॒ज-म॒ग्निञ्चि॑न्वा॒नः । शरी॑र-म्प्र॒त्यक्षे॑ण ॥ कम॒ग्निञ्चि॑नुते ।
उ॒पा॒नु॒वा॒क्य॑मा॒शु-म॒ग्निञ्चि॑न्वा॒नः ॥ 88 ॥
इ॒ममा॑रुण-केतुक-म॒ग्निञ्चि॑न्वा॒न इति॑ । य ए॒वासौ ।
इ॒तश्चा॒-मुत॑श्चा-व्यतीपा॒ती । तमिति॑ ॥ यो᳚-ऽग्नेर्मि॑थू॒या वेद॑ । मि॒थु॒न॒वा-न्भ॑वति । आपो॒ वा अ॒ग्नेर्मि॑थू॒याः ।
मि॒थु॒न॒वा-न्भ॑वति । य ए॒वं-वेँद॑ ॥ 89 ॥
(पुष्प॑म॒ग्निर्वा॒युर॒सौ वै तप॑ञ्च॒न्द्रमा॒ नक्ष॑त्राणि प॒र्जन्यः॑ संवँथ्स॒रो यो᳚-ऽफ्सु नाव॑मे॒तद्ध॑ स्म॒ वै स॑त्रि॒यग्ं सं॑वँथ्स॒रग्ं सा॑वि॒त्रम॒मु-न्ना॑चिके॒त-म्प्रा॒णाग्श्चा॑तुर्होत्रि॒य-म्ब्रह्म॑ वैश्वसृ॒जग्ं शरी॑रमुपानुवा॒क्य॑मा॒शुमि॒मान् ँलो॒कानि॒ममा॑रुणकेतुकं॒-यँ ए॒वासौ)
अनुवाकं 23
आपो॒ वा इ॒दमा॑सन्-थ्सलि॒लमे॒व ।
स प्र॒जाप॑ति॒रेकः॑ पुष्करप॒र्णे सम॑भवत् ।
तस्यान्त॒-र्मन॑सि काम॒-स्सम॑वर्तत । इ॒दग्ं सृ॑जेय॒मिति॑ । तस्मा॒द्य-त्पुरु॑षो॒ मन॑सा-ऽभि॒गच्छ॑ति । तद्वा॒चा व॑दति ।
तत्कर्म॑णा करोति । तदे॒षा ऽभ्यनू᳚क्ता ॥ काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ । मन॑सो॒ रेतः॑ प्रथ॒मं-यँदासी᳚त् ॥ 90 ॥
स तप॑स्त॒प्त्वा । शरी॑रमधूनुत । तस्य॒ य-न्मा॒ग्ं॒समासी᳚त् । ततो॑-ऽरु॒णाः के॒तवो॒ वात॑रश॒ना ऋष॑य॒ उद॑तिष्ठन्न् ॥ 91 ॥
त्वमि॒द-म्पूर्वः॑ कुरु॒ष्वेति॑ ॥ स इ॒त आ॒दायापः॑ ॥ 93 ॥
तत॑ आदि॒त्य उद॑तिष्ठत् । सा प्राची॒ दिक् ॥
अथा॑रु॒णः के॒तु-र्द॑क्षिण॒त उ॒पाद॑धात् । ए॒वा ह्यग्न॒ इति॑ । ततो॒ वा अ॒ग्निरुद॑तिष्ठत् । सा द॑क्षि॒णा दिक् । अथा॑रु॒णः के॒तुः प॒श्चादु॒पाद॑धात् ।
ए॒वा हि वायो॒ इति॑ ॥ 94 ॥
अथा॑रु॒णः के॒तु-रु॑त्तर॒त उ॒पाद॑धात् । ए॒वा हीन्द्रेति॑ ।
ततो॒ वा इन्द्र॒ उद॑तिष्ठत् । सोदी॑ची॒ दिक् ।
अथा॑रु॒णः के॒तु-र्मद्ध्य॑ उ॒पाद॑धात् । ए॒वा हि पूष॒न्निति॑ । ततो॒ वै पू॒षोद॑तिष्ठत् । सेयन्दिक् ॥ 95 ॥
सोर्ध्वा दिक् ॥ या वि॒प्रुषो॑ वि॒परा॑पतन्न् ।
ताभ्यो-ऽसु॑रा॒ रक्षाग्ं॑सि पिशा॒चाश्चो-द॑तिष्ठन्न् । तस्मा॒त्ते परा॑भवन्न् । वि॒प्रुड्भ्यो॒ हि ते सम॑भवन्न् ॥ तदे॒षा-ऽभ्यनू᳚क्ता ॥ 96 ॥
तस्मा॑दि॒दग्ं सर्व॒-म्ब्रह्म॑ स्वय॒भ्विन्ति॑ ॥
तस्मा॑दि॒दग्ं सर्व॒ग्ं॒ शिथि॑ल-मि॒वा ध्रुव॑-मिवाभवत् ॥ प्र॒जाप॑ति॒-र्वाव तत् । आ॒त्मना॒-ऽऽत्मानं॑-विँ॒धाय॑ ।
तदे॒वानु॒ प्रावि॑शत् ॥ तदे॒षा-ऽभ्यनू᳚क्ता ॥ 97 ॥
सर्व॑मे॒वेदमा॒प्त्वा । सर्व॑-मव॒रुद्ध्य॑ । तदे॒वानु॒ प्रवि॑शति । य ए॒वं-वेँद॑ ॥ 98 ॥
अनुवाकं 24
चतु॑ष्टय्य॒ आपो॑ गृह्णाति । च॒त्वारि॒ वा अ॒पाग्ं रू॒पाणि॑ । मेघो॑ वि॒द्युत् । स्त॒न॒यि॒त्नु-र्वृ॒ष्टिः । तान्ये॒वा व॑रुन्धे ॥ आ॒तप॑ति॒ वर्ष्या॑ गृह्णाति ।
ताः पु॒रस्ता॒-दुप॑दधाति । ए॒ता वै ब्र॑ह्मवर्च॒स्या आपः॑ । मु॒ख॒त ए॒व ब्र॑ह्मवर्च॒स-मव॑रुन्धे ।
तस्मा᳚-न्मुख॒तो ब्र॑ह्मवर्च॒सित॑रः ॥ 99 ॥
स्था॒व॒रा गृ॑ह्णाति । ताः प॒श्चादुप॑दधाति । प्रति॑ष्ठिता॒ वै स्था॑व॒राः ।
प॒श्चादे॒व प्रति॑तिष्ठति ॥ वह॑न्ती-र्गृह्णाति ॥ 100 ॥
ता मद्ध्य॒ उप॑दधाति । इ॒यं-वैँ स॑भां॒र्याः । अ॒स्यामे॒व प्रति॑तिष्ठति ॥ प॒ल्व॒ल्या गृ॑ह्णाति । ता उ॒परि॑ष्टा-दु॒पाद॑धाति ॥ 101 ॥
प्र॒ति॒ष्ठाग्ं श॒तधा॑ हि । स॒माहि॑तासो सहस्र॒धाय॑स॒मिति॑ ॥ श॒तश॑श्चै॒व ऽस॒हस्र॑शश्च॒ प्रति॑तिष्ठति । य ए॒तम॒ग्निञ्चि॑नु॒ते ।
य उ॑चैनमे॒वं-वेँद॑ ॥ 102 ॥
अनुवाकं 25
जा॒नु॒द॒घ्नी-मु॑त्तरवे॒दीङ्खा॒त्वा । अ॒पा-म्पू॑रयति । अ॒पाग्ं स॑र्व॒त्वाय॑ । पु॒ष्क॒र॒प॒र्णग्ं रु॒क्म-म्पुरु॑ष॒-मित्युप॑दधाति । तपो॒ वै पु॑ष्करप॒र्णम् ।
स॒त्यग्ं रु॒क्मः । अ॒मृत॒-म्पुरु॑षः । ए॒ताव॒द्वा वा᳚स्ति । याव॑दे॒तत् । याव॑दे॒वास्ति॑ ॥ 103 ॥
अ॒स्माद॒स्मा दि॒तो-ऽमुतः॑ । अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च ।
स॒ह स॑ञ्चस्क॒रर्धि॑या॒ इति॑ । वा॒य्वश्वा॑ रश्मि॒पत॑यः । मरी᳚च्यात्मानो॒ अद्रु॑हः । दे॒वी-र्भु॑वन॒ सूव॑रीः । पु॒त्र॒व॒त्वाय॑ मे सुत ॥ लो॒क-म्पृ॑णच्छि॒द्र-म्पृ॑ण ॥ 104 ॥
लो॒क-म्पृ॑णया द्वि॒तीया॒-मुप॑दधाति ।
पञ्च॑पदा॒ वै वि॒राट् । तस्या॒ वा इ॒य-म्पादः॑ । अ॒न्तरि॑क्ष॒-म्पादः॑ । द्यौः पादः॑ । दिशः॒ पादः॑ । प॒रोर॑जाः॒ पादः॑ ॥ वि॒राज्ये॒व प्रति॑तिष्ठति ।
य ए॒तम॒ग्निञ्चि॑नु॒ते । य उ॑चैनमे॒वं-वेँद॑ ॥ 105 ॥
अनुवाकं 26
अ॒ग्नि-म्प्र॒णीयो॑प-समा॒धाय॑ । तम॒भित॑ ए॒ता अ॒बीष्ट॑का॒ उप॑दधाति । अ॒ग्नि॒हो॒त्रे द॑र्शपूर्ण-मा॒सयोः᳚ । प॒शु॒ब॒न्धे चा॑तुर्मा॒स्येषु॑ ।
अथो॑ आहुः । सर्वे॑षु यज्ञक्र॒तुष्विति॑ ॥
अथ॑ हस्मा हारु॒ण-स्स्वा॑य॒म्भुवः॑ ।
सा॒वि॒त्र-स्सर्वो॒-ऽग्नि-रित्यन॑नुषङ्ग-म्मन्यामहे ।
नाना॒ वा ए॒तेषां᳚-वीँ॒र्या॑णि ॥ कम॒ग्निञ्चि॑नुते ॥ 106 ॥
सा॒वि॒त्र म॒ग्निञ्चि॑न्वा॒नः । कम॒ग्निञ्चि॑नुते । ना॒चि॒के॒त म॒ग्निञ्चि॑न्वा॒नः । कम॒ग्निञ्चि॑नुते ।
चा॒तु॒र्॒ हो॒त्रि॒य-म॒ग्निञ्चि॑न्वा॒नः । कम॒ग्निञ्चि॑नुते ।
वै॒श्व॒सृ॒ज म॒ग्निञ्चि॑न्वा॒नः । कम॒ग्निञ्चि॑नुते ॥ 107 ॥
सोत्त॑रवे॒दिषु॑ क्र॒तुषु॑ चिन्वीत । उ॒त्त॒र॒वे॒द्याग् ह्य॑ग्निश्ची॒यते᳚ ॥ प्र॒जाका॑मश्चिन्वीत ॥ 108 ॥
प॒शू॒नामे॒व स॒ज्ञान्ने॒ ऽग्निञ्चि॑नुते । प॒शु॒मा-न्भ॑वति । य ए॒वं-वेँद॑ ॥ 109 ॥
ब्र॒ह्म॒व॒र्च॒सका॑म-स्स्व॒र्गका॑मश्चिन्वीत । ए॒ता व॒द्वा वा᳚स्ति । याव॑दे॒तत् । याव॑दे॒वास्ति॑ । तदव॑रुन्धे ॥ तस्यै॒ तद्व्र॒तम् । वर्ष॑ति॒ न धा॑वेत् ॥ 111 ॥
नाफ्सु-मूत्र॑पुरी॒षङ्कु॑र्यात् । न निष्ठी॑वेत् । न वि॒वस॑न-स्स्नायात् । गुह्यो॒ वा ए॒षो᳚-ऽग्निः ।
ए॒तस्या॒ग्ने रन॑ति दाहाय ॥ न पु॑ष्करप॒र्णानि॒ हिर॑ण्यं॒-वाँ-ऽधि॒तिष्ठे᳚त् । ए॒तस्या॒ग्ने-रन॑भ्यारोहाय ॥ न कूर्म॒स्याश्ञी॑यात् ।
नोद॒कस्या॒-घातु॑का॒न्येन॑-मोद॒कानि॑ भवन्ति । अ॒घातु॑का॒ आपः॑ । य ए॒तम॒ग्निञ्चि॑नु॒ते । य उ॑चैनमे॒वं-वेँद॑ ॥ 112 ॥
अनुवाकं 27
इ॒मा नु॑क॒-म्भुव॑ना सीषधेम । इन्द्र॑श्च॒ विश्वे॑च दे॒वाः ॥ य॒ज्ञञ्च॑ नस्त॒न्वञ्च॑ प्र॒जाञ्च॑ । आ॒दि॒त्यैरिन्दः॑ स॒ह सी॑षधातु ॥
आ॒दि॒त्यैरिन्द्र॒-स्सग॑णो-म॒रुद्भिः॑ । अ॒स्माक॑-म्भूत्ववि॒ता त॒नूना᳚म् ॥ आप्ल॑वस्व॒ प्रप्ल॑वस्व । आ॒ण्डी भ॑व ज॒ मा मु॒हुः । सुखादीन्दुः॑ खनि॒धनाम् । प्रति॑मुञ्चस्व॒ स्वा-म्पु॒रम् ॥ 113 ॥
ते ते॑ दे॒हङ्क॑ल्पयन्तु । मा च॑ ते॒ ख्या स्म॑ तीरिषत् ॥ उत्ति॑ष्ठत॒ मा स्व॑प्त । अ॒ग्नि-मि॑च्छद्ध्व॒-म्भार॑ताः । राज्ञ॒-स्सोम॑स्य तृ॒प्तासः॑ । सूर्ये॑ण स॒युजो॑षसः ॥ युवा॑ सु॒वासाः॒ परि॑वीत॒ आगा᳚त् । स उ॒ श्रेया᳚-न्भवति॒ जाय॑मानः । त-न्धीरा॑सः क॒वय॒ उन्न॑यन्ति । स्वा॒धियो॒ मन॑सा देव॒यन्तः॑ ॥
अ॒ष्टाच॑क्रा॒ नव॑द्वारा ॥ 114 ॥
पराङ्गेत्य॑ (परांअत्य॑) नाश॒की । इ॒ह चा॑मुत्र॑ चान्वे॒ति । वि॒द्वा-न्दे॑वासु॒रानु॑भ॒यान् ॥
यत्कु॑मा॒री म॒न्द्रय॑ते । य॒द्यो॒षिद्य-त्प॑ति॒व्रता᳚ । अरि॑ष्टं॒-यँत्किञ्च॑ क्रि॒यते᳚ ।
अ॒ग्नि-स्तदनु॑ वेधति ॥ अ॒शृता॑स-श्शृ॑तास॒श्च ॥ 116 ॥
इन्द्र॑-म॒ग्निञ्च॑ ये वि॒दुः ॥ सिक॑ता इव सं॒यँन्ति॑ ।
र॒श्मिभिः॑-समु॒दीरि॑ताः । अ॒स्मा-ल्लो॒काद॑-मुष्मा॒च्च । ऋ॒षिभि॑-रदात्-पृ॒श्निभिः॑ ॥ अपे॑त॒ वीत॒ वि च॑ सर्प॒तातः॑ । ये-ऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः ।
अहो॑भि-र॒द्भि-र॒क्तुभि॒-र्व्य॑क्तम् ॥ 117 ॥
अदो॒ यद्ब्रह्म॑ विल॒बम् । पि॒तृ॒णाञ्च॑ य॒मस्य॑ च ।
वरु॑ण॒-स्याश्वि॑नो-र॒ग्नेः । म॒रुता᳚ञ्च वि॒हाय॑साम् ॥
का॒म॒प्र॒यव॑ण-म्मे अस्तु । स ह्ये॑वास्मि॑ स॒नात॑नः । इति नाको ब्रह्मिश्रवो॑ रायो॒ धनम् । पु॒त्रानापो॑ दे॒वीरि॒हाहि॑ता ॥ 118 ॥
अनुवाकं 28
विशी᳚र्ष्णी॒-ङ्गृद्ध्र॑-शीर्ष्णीञ्च । अपेतो॑ निर्-ऋ॒तिग्ं ह॑थः । परिबाधग्ग् श्वे॑तकु॒क्षम् । नि॒जङ्घग्ं॑ शब॒लोद॑रम् ॥ स॒ तान्. वा॒च्याय॑या स॒ह । अग्ने॒ नाश॑य स॒न्दृशः॑ । ई॒र्ष्या॒सू॒ये बु॑भु॒क्षाम् । म॒न्यु-ङ्कृ॒त्या-ञ्च॑ दीधिरे । रथे॑न किग्ंशु॒काव॑ता । अग्ने॒ नाश॑य स॒न्दृशः॑ ॥ 119 ॥
अनुवाकं 29
प॒र्जन्या॑य॒ प्रगा॑यत । दि॒वस्पु॒त्राय॑ मी॒ढुषे᳚ । स नो॑ य॒वस॑मिच्छतु ॥ इ॒दं-वँचः॑ प॒र्जन्या॑य स्व॒राजे᳚ । हृ॒दो अ॒स्त्वन्त॑र॒न्त-द्यु॑योत ।
म॒यो॒भूर्वातो॑ वि॒श्वकृ॑ष्टय-स्सन्त्व॒स्मे । सु॒पि॒प्प॒ला ओष॑धी-र्दे॒वगो॑पाः ॥
यो गर्भ॒-मोष॑धीनाम् । गवा᳚ङ्कृ॒णोत्यर्व॑ताम् । प॒र्जन्यः॑ पुरु॒षीणा᳚म् ॥ 120 ॥
अनुवाकं 30
पुन॑र्मामैत्विन्द्रि॒यम् । पुन॒रायुः॒ पुन॒र्भगः॑ । पुन॒-र्ब्राह्म॑ण-मैतु मा । पुन॒-र्द्रवि॑ण मैतु मा ॥ यन्मे॒-ऽद्य रेतः॑ पृथि॒वीमस्कान्॑ ।
यदोष॑धीर॒प्यस॑र॒-द्यदापः॑ । इ॒दन्त-त्पुन॒राद॑दे । दी॒र्घा॒यु॒त्वाय॒ वर्च॑से ॥ यन्मे॒ रेतः॒ प्रसि॑च्यते । यन्म॒ आजा॑यते॒ पुनः॑( ) । तेन॑ माम॒मृत॑-ङ्कुरु । तेन॑ सुप्र॒जस॑ङ्कुरु ॥ 121 ॥
अनुवाकं 31
अ॒द्भय-स्तिरो॒धा जा॑यत । तव॑ वैश्रव॒ण-स्स॑दा । तिरो॑ धेहि सप॒त्नान्नः॑ । ये अपो॒-ऽश्नन्ति॑ केच॒न ॥ त्वा॒ष्ट्री-म्मा॒यां-वँ᳚श्रव॒णः ।
रथग्ं॑ सहस्र॒ वन्धु॑रम् । पु॒रु॒श्च॒क्रग्ं सह॑स्राश्वम् । आस्था॒ याया॑हि नो ब॒लिम् ॥ यस्मै॑ भू॒तानि॑ ब॒लिमाव॑हन्ति । धन॒ङ्गावो॒ हस्ति॒ हिर॑ण्य॒मश्वान्॑ ॥ 122 ॥
स॒ग्ं॒हार्य॒-न्नग॑र॒-न्तव॑ ॥
इति मन्त्राः᳚ । कल्पो॑-ऽत ऊ॒र्ध्वम् ॥
यदि॒ बलि॒ग्ं॒ हरे᳚त् । हि॒र॒ण्य॒ना॒भये॑ वितु॒दये॑ कौबे॒राया॒य-म्ब॑लिः ॥ 123 ॥
नम॑स्ते अस्तु॒ मा मा॑ हिग्ंसीः । अस्मा-त्प्रविश्यान्न॑मद्धी॒ति ॥ अथ तमग्नि-मा॑दधी॒त । यस्मिन्ने तत्कर्म प्र॑युञ्जी॒त ॥
ति॒रोधा॒ भूः । ति॒रोधा॒ भुवः॑ ॥ 124 ॥
सर्वेषां-लोँकाना-माधिपत्ये॑ सीदे॒ति ॥ अथ तमग्नि॑-मिन्धी॒त । यस्मिन्ने तत्कर्म प्र॑युञ्जी॒त ॥ ति॒रोधा॒ भू-स्स्वाहा᳚ । ति॒रोधा॒ भुव॒-स्स्वाहा᳚ । ति॒रोधा॒-स्स्वः॑ स्वाहा᳚ । ति॒रोधा॒ भूर्भुव॒स्स्व॑स्स्वाहा᳚ ॥
यस्मिन्नस्य काले सर्वा आहुतीर्-हुता॑ भवे॒युः ॥ 125 ॥
परः॑ सु॒प्तज॑नाद्वे॒पि ॥ मा स्म प्रमाद्यन्त॑ माद्ध्या॒पयेत् । सर्वार्था᳚-स्सिद्ध्य॒न्ते । य ए॑वं-वेँ॒द । क्षुद्ध्य-न्निद॑मजा॒नताम् ।
सर्वार्था न॑ सिद्ध्य॒न्ते ॥ यस्ते॑ वि॒घातु॑को भ्रा॒ता ।
ममान्तर्-हृ॑दये॒ श्रितः ॥ 126 ॥
स मे॒ कामा॒न् काम॒ कामा॑य॒ मह्य᳚म् । का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु । कु॒बे॒राय॑ वैश्रव॒णाय॑ । म॒हा॒रा॒जाय॒ नमः॑ । के॒तवो॒ अरु॑णासश्च ।
ऋ॒ष॒यो वात॑रश॒नाः । प्र॒ति॒ष्ठाग्ं श॒तधा॑ हि ।
स॒माहि॑तासो सहस्र॒धाय॑सम् । शि॒वा न॒-श्शन्त॑मा भवन्तु । दि॒व्या आप॒ ओष॑धयः । सु॒मृ॒डी॒का सर॑स्वति । मा ते॒ व्यो॑म स॒न्दृशि॑ ॥ 127 ॥
अनुवाकं 32
संवँथ्सरमेत॑-द्व्रत॒ञ्चरेत् । द्वौ॑ वा मा॒सौ ॥ नियम-स्स॑मासे॒न ॥ तस्मि-न्नियम॑ विशे॒षाः । त्रिषवण-मुदको॑पस्प॒र्॒शी । चतुर्थ कालपान॑भक्त॒-स्स्यात् । अहरहर्वा भैक्ष॑मश्न॒यात् ।
औदुम्बरीभि-स्समिद्भि-रग्नि॑-म्परि॒चरेत् ।
पुनर्मा मैत्विन्द्रिय-मित्येतेना-ऽनु॑वाके॒न ।
उद्धृत परिपूताभिरद्भिः कार्य॑-ङ्कुर्वी॒त ॥ 128 ॥
धे॑नु-र्द॒क्षिणा । कग्ं संवाँस॑श्च क्षौ॒मम् । अन्य॑द्वा शु॒क्लम् । य॑था श॒क्ति वा । एवग्ग् स्वाद्ध्याय॑ धर्मे॒ण । अरण्ये॑-ऽधीयी॒त । तपस्वी पुण्यो भवति तपस्वी पु॑ण्यो भ॒वति ॥ 130 ॥
(कु॒र्वी॒त - ज॑पि॒त्वा - स्वाद्ध्याय॑धर्मे॒ण द्वे च॑) (अ. 32)
(भ॒द्रग्ग् - स्मृतिः॑ - साक॒जान्ना॒ - मक्ष्य- ति॑ता॒म्रा - ण्य॑त्युर्ध्वा॒क्ष - आरोगः - क्वेद - मग्निश्च - स॑हस्र॒वृत् - प॒वित्र॑वन्त॒ -आत॑नुष्वा॒ -ष्टयो॑नीं॒ - ँयो-ऽसा॒ - वथादित्य - स्यारोग-स्याथ वायो- रथाग्ने॒--र् दक्षिणपूर्वस्या - मि॑न्द्रघो॒षा व॒-आप॑मापां॒योँ॑-ऽपा - मापो॒ वै - चतु॑ष्टय्यो - जानुद॒घ्नी - म॒ग्नि-म्प्र॒णीये॒ - मा नु॑ कं॒ - ँविशी᳚र्ष्णीं - प॒र्जन्या॑य॒ - पुन॑ - र॒द्भ्यः -संवँथ्सर-न्द्वात्रिग्ं॑शत्)
(भ॒द्रं - ज्यो॒तिषा॒ - तस्मि-न्राजानं - क॒श्यपा᳚-थ्सहस्र॒वृदि॑यं॒- नपुग्ंस॑क - म॒ष्टयो॑नी॒ - मवपतन्ताना - मा॒यत॑नवा-न्भवति - स॒तो बन्धुं॒ - ता उ॑त्तर॒तो - वज्र॑मे॒व - पुन॑र्मामैतु
त्रि॒ग्ं॒शदु॑त्तरश॒तम्)
(भद्रं - तपस्वी पुण्यो भवति तपस्वी पु॑ण्यो भ॒वति)
॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके प्रथमः प्रपाठक-स्समाप्तः ॥
