Goddess Chinnamasta

प्रचण्ड चण्डिका स्तवराजः

(Prachanda Chandika Stavaraja)

Adi Shankaracharya

Also known as sri pracanda candika stavarajah sri chinnamasta

Seventeen verses given in the colophon to Shankaracharya, and though the title names Prachanda Chandika, the eighth verse settles who is addressed: two-armed and three-eyed, bright as a crore suns, the severed trunk streaming, the head with its loosened hair held in the left hand and the chopper in the other. That is Chinnamasta, and the hymn treats her as the seated power of the Shrividya — Vairochani in the manipura, above the three lingas, on the fire-chakra, roused from sleep like a coiled serpent-king by the hum-sound the teacher gives. Several verses are frankly operative: the colour under which she is contemplated changes with the rite intended, and the closing verses prescribe homa whose oblations belong to the left-hand tradition. The text calls itself a knowledge closed to the uninitiated.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्री प्रचण्ड चण्डिका स्तवराजः (श्री छिन्नमस्ता स्तोत्रम्) ॥
आनन्दयित्रि परमेश्वरि वेदगर्भे
मातः पुरन्दरपुरान्तरलब्धनेत्रे ।
लक्ष्मीमशेषजगतां परिभावयन्तः
सन्तो भजन्ति भवतीं धनदेशलब्ध्यै ॥ १ ॥
लज्जानुगां विमलविद्रुमकान्तिकान्तां
कान्तानुरागरसिकाः परमेश्वरि त्वाम् ।
ये भावयन्ति मनसा मनुजास्त एते
सीमन्तिनीभिरनिशं परिभाव्यमानाः ॥ २ ॥
मायामयीं निखिलपातककोटिकूट-
-विद्राविणीं भृशमसंशयिनो भजन्ति ।
त्वां पद्मसुन्दरतनुं तरुणारुणास्यां
पाशाङ्कुशाभयवराद्यकरां वरास्त्रैः ॥ ३ ॥
ते तर्ककर्कशधियः श्रुतिशास्त्रशिल्पै-
-श्छन्दोऽभिशोभितमुखाः सकलागमज्ञाः ।
सर्वज्ञलब्धविभवाः कुमुदेन्दुवर्णां
ये वाग्भवे च भवतीं परिभावयन्ति ॥ ४ ॥
वज्रपणुन्नहृदया समयद्रुहस्ते
वैरोचने मदनमन्दिरगास्यमातः ।
मायाद्वयानुगतविग्रहभूषिताऽसि
दिव्यास्त्रवह्निवनितानुगताऽसि धन्ये ॥ ५ ॥
वृत्तत्रयाष्टदलवह्निपुरःसरस्य
मार्तण्डमण्डलगतां परिभावयन्ति ।
ये वह्निकूटसदृशीं मणिपूरकान्त-
-स्ते कालकण्टकविडम्बनचञ्चवः स्युः ॥ ६ ॥
कालागरुभ्रमरचन्दनकुण्डगोल-
-खण्डैरनङ्गमदनोद्भवमादनीभिः ।
सिन्दूरकुङ्कुमपटीरहिमैर्विधाय
सन्मण्डलं तदुपरीह यजेन्मृडानीम् ॥ ७ ॥
चञ्चत्तडिन्मिहिरकोटिकरां विचेला-
-मुद्यत्कबन्धरुधिरां द्विभुजां त्रिनेत्राम् ।
वामे विकीर्णकचशीर्षकरे परे ता-
-मीडे परं परमकर्त्रिकया समेताम् ॥ ८ ॥
कामेश्वराङ्गनिलयां कलया सुधांशो-
-र्विभ्राजमानहृदयामपरे स्मरन्ति ।
सुप्ताहिराजसदृशीं परमेश्वरस्थां
त्वामद्रिराजतनये च समानमानाः ॥ ९ ॥
लिङ्गत्रयोपरिगतामपि वह्निचक्र-
-पीठानुगां सरसिजासनसन्निविष्टाम् ।
सुप्तां प्रबोध्य भवतीं मनुजा गुरूक्त-
-हुङ्कारवायुवशिभिर्मनसा भजन्ति ॥ १० ॥
शुभ्रासि शान्तिककथासु तथैव पीता
स्तम्भे रिपोरथ च शुभ्रतरासि मातः ।
उच्चाटनेऽप्यसितकर्मसुकर्मणि त्वं
संसेव्यसे स्फटिककान्तिरनन्तचारे ॥ ११ ॥
त्वामुत्पलैर्मधुयुतैर्मधुनोपनीतै-
-र्गव्यैः पयोविलुलितैः शतमेव कुण्डे ।
साज्यैश्च तोषयति यः पुरुषस्त्रिसन्ध्यं
षण्मासतो भवति शक्रसमो हि भूमौ ॥ १२ ॥
जाग्रत्स्वपन्नपि शिवे तव मन्त्रराज-
-मेवं विचिन्तयति यो मनसा विधिज्ञः ।
संसारसागरसमृद्धरणे वहित्रं
चित्रं न भूतजननेऽपि जगत्सु पुंसः ॥ १३ ॥
इयं विद्या वन्द्या हरिहरविरिञ्चिप्रभृतिभिः
पुरारातेरन्तः पुरमिदमगम्यं पशुजनैः ।
सुधामन्दानन्दैः पशुपतिसमानव्यसनिभिः
सुधासेव्यैः सद्भिर्गुरुचरणसंसारचतुरैः ॥ १४ ॥
कुण्डे वा मण्डले वा शुचिरथ मनुना भावयत्येव मन्त्री
संस्थाप्योच्चैर्जुहोति प्रसवसुफलदैः पद्मपालाशकानाम् ।
हैमं क्षीरैस्तिलैर्वां समधुककुसुमैर्मालतीबन्धुजाती-
-श्वेतैरब्धं सकानामपि वरसमिधा सम्पदे सर्वसिद्ध्यै ॥ १५ ॥
अन्धः साज्यं समांसं दधियुतमथवा योऽन्वहं यामिनीनां
मध्ये देव्यै ददाति प्रभवति गृहगा श्रीरमुष्यावखण्डा ।
आज्यं मांसं सरक्तं तिलयुतमथवा तण्डुलं पायसं वा
हुत्वा मांसं त्रिसन्ध्यं स भवति मनुजो भूतिभिर्भूतनाथः ॥ १६ ॥
॥ फलश्रुति ॥
इदं देव्याः स्तोत्रम् पठति मनुजो यस्त्रिसमयं
शुचिर्भूत्वा विश्वे भवति धनदो वासवसमः ।
वशा भूपाः कान्ता निखिलरिपुहन्तुः सुरगणा
भवन्त्युच्चैर्वाचो यदिह ननु मासैस्त्रिभिरपि ॥ १७ ॥
॥ इति श्रीशङ्कराचार्यविरचितः प्रचण्डचण्डिकास्तवराजः समाप्तः ॥

Explore More