प्रजाकामो वै प्रजापति-स्स तपो-ऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते।
रयि-ञ्च प्राणञ्चेति एतौ मे बहुधा प्रजाः करिष्यत इति ॥4॥
यद्दक्षिणां-यँ-त्प्रतीचीं-यँदुदीचीं-यँदधो यदूर्ध्वं-यँदन्तरा दिशो यत्सर्व-म्प्रकाशयति तेन सर्वा-न्प्राणा-न्रश्मिषु सन्निधत्ते ॥6॥
तदेतद् ऋचा-ऽभ्युक्तम् ॥7॥
सहस्ररश्मि-श्शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥8॥
तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते त एव पुनरावर्तन्ते।
तस्मादेत ऋषयः प्रजाकामा दक्षिण-म्प्रतिपद्यन्ते। एष ह वै रयिर्यः पितृयाणः ॥9॥
एतद्वै प्राणानामायतनमेतदमृतमभयमेत-त्परायणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधः। तदेष श्लोकः ॥10॥
अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥11॥
प्राणं-वाँ एते प्रस्कन्दन्ति ये दिवा रत्या संयुँज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुँज्यन्ते ॥13॥
तेषामेवैष ब्रह्मलोको येषा-न्तपो ब्रह्मचर्यं-येँषु सत्य-म्प्रतिष्ठितम् ॥15॥
