भगवन्नेतस्मि-न्पुरुषे कानि स्वपन्ति कान्यस्मिञ्जाग्रति कतर एष देव-स्स्वप्ना-न्पश्यति कस्यैतत्सुख-म्भवति कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥1॥
ताः पुनः पुनरुदयतः प्रचरन्त्येवं ह वै त-थ्सर्व-म्परे देवे मनस्येकीभवति।
तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥2॥
गार्हपत्यो ह वा एषो-ऽपानो व्यानो-ऽन्वाहार्यपचनो यद् गार्हपत्या-त्प्रणीयते प्रणयनादाहवनीयः प्राणः ॥3॥
मनो ह वाव यजमानः इष्टफलमेवोदान-स्स एनं-यँजमानमहरहर्ब्रह्म गमयति ॥4॥
यद् दृष्ट-न्दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूत-म्पुनः पुनः प्रत्यनुभवति दृष्ट-ञ्चादृष्ट-ञ्च श्रुत-ञ्चाश्रुत-ञ्चानुभूत-ञ्चाननुभूत-ञ्च सच्चासच्च सर्व-म्पश्यति सर्वः पश्यति ॥5॥
स परे-ऽक्षर आत्मनि सम्प्रतिष्ठते ॥9॥
तदक्षरं-वेँदयते यस्तु सोम्य स सर्वज्ञ-स्सर्वमेवाविवेशेति ॥11॥
