भगवन् कत्येव देवाः प्रजां-विँधारयन्ते कतर एतत्प्रकाशयन्ते कः पुनरेषां-वँरिष्ठः इति ॥1॥
ते प्रकाश्याभिवदन्ति वयमेतद्बाणमवष्टभ्य विधारयामः ॥2॥
मा मोहमापद्यथ अहमेवैतत्पञ्चधात्मान-म्प्रविभज्यैतद्बाणमवष्टभ्य विधारयामीति ते-ऽश्रद्दधाना बभूवुः ॥3॥
तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्व एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्त एवं-वाँङ्मनष्चक्षु-श्श्रोत्र-ञ्च ते प्रीताः प्राणं स्तुन्वन्ति ॥4॥
एष पृथिवी रयिर्देव-स्सदसच्चामृत-ञ्च यत् ॥5॥
ऋचो यजूंषि सामानि यज्ञः, क्षत्र-म्ब्रह्म च ॥6॥
तुभ्य-म्प्राण प्रजास्त्विमा बलिं हरन्ति यः प्राणैः प्रतितिष्ठसि ॥7॥
ऋषीणा-ञ्चरितं सत्यमथर्वाङ्गिरसामसि ॥8॥
त्वमन्तरिक्षे चरसि सूर्यस्त्व-ञ्ज्योतिषा-म्पतिः ॥9॥
आनन्दरूपास्तिष्ठन्ति कामायान्न-म्भविष्यतीति ॥10॥
वयमाद्यस्य दातारः पिता त्व-म्मातरिश्व नः ॥11॥
या च मनसि सन्तता शिवा-न्ता-ङ्कुरु मोत्क्रमीः ॥12॥
मातेव पुत्रा-न्रक्षस्व श्रीश्च प्रज्ञा-ञ्च विधेहि न इति ॥13॥
