स यो ह वै त-द्भगव-न्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं-वाँव स तेन लोक-ञ्जयतीति ॥1॥
तस्माद् विद्वानेतेनैवायतनेनैकतरमन्वेति ॥2॥
तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ॥3॥
स सोमलोके विभूतिमनुभूय पुनरावर्तते ॥4॥
यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्त-स्स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्पर-म्पुरिशय-म्पुरुषमीक्षते तदेतौ श्लोकौ भवतः ॥5॥
क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥6॥
तमोङ्कारेणैवायतनेनान्वेति विद्वान् यत्तच्छान्तमजरममृतमभय-म्पर-ञ्चेति ॥7॥
