वितरय करुणापाङ्गं निजमिह मम देहे॥ध्रु॥
अत्युत्कटसङ्कटनतखेटोत्करपोषे॥
कटितटसङ्घटपिङ्गटपटुसद्द्टुवेषे।
कुटिलालकपटलस्फुटकटकादिकमूषे॥१॥
दाक्षायणि यक्षाधिपलक्ष्मिदिक्कटाक्षे॥
साक्षात्कृतमोक्षोदयभिक्षुकजनरक्षे।
रक्षां कुरु रक्षां कुरु मम पूर्णापेक्षे॥२॥
सन्तापत्रयहरणे मत्सन्ततिशरणे॥
दान्तश्रीमद्रामानदान्तःकरणे।
सन्तोषय सन्तोषय मातः सुखकरणे॥३॥
