शताक्षीपादभक्तस्य राजर्षेधार्मिकस्य च ॥१॥
तत्कारणं वद मुने सार्थकं जन्म मे कुरु ॥२॥
पदे पदेऽश्वमेधस्य फलमक्षय्यमश्नुते ॥३॥
तवावाच्यं न मे किंचिद्देवीभक्तस्य विद्यते ॥४॥
हिरण्याक्षान्वये जातो रुरुपुत्रो महाखलः ॥५॥
नक्ष्यंत्येव न सन्देहो विधेयं तावदेव तत् ॥६॥
ब्रह्माणं मनसा ध्यात्वा वायुभक्षो व्यतिष्ठत ॥७॥
तेजसा तस्य लोकास्तु संतप्ताः ससुरासुराः ॥८॥
ययौ तस्मै वरं दातुं प्रसन्नमुखपङ्कजः ॥९॥
वरं वरय भद्रं ते यस्ते मनसि वर्तते ॥१०॥
श्रुत्वा ब्रह्ममुखाद्वाणीं व्युत्थितः स समाधितः ॥११॥
त्रिषु लोकेषु ये मन्त्रा ब्राह्मणेषु सुरेष्वपि ॥१२॥
बलं च देहि येन स्याद्देवानां च पराजयः ॥१३॥
जगाम सत्यलोकं तु चतुर्वेदेश्वरः परः ॥१४॥
स्नानसंध्यानित्यहोमश्राद्ध्यज्ञजपादयः ॥१५॥
किमिदं किमिदं चेति विप्रा ऊचुः परस्परम् ॥१६॥
इति भूमौ महानर्थे जाते परमदारुणे ॥१७॥
रुरोध स तदा दैत्यो नगरीममरावतीम् ॥१८॥
पलायनं तदा कृत्वा निर्गता निर्जराः क्कचित् ॥१९॥
संस्थिताः परमां शक्तिं ध्यायंतस्ते परांबिकाम् ॥२०॥
वृष्टेरभावे संशुष्कं निर्जलं चापि भूतलम् ॥२१॥
अनावृष्टिरियं राजन्नभूच्च शतवार्षिकी ॥२२॥
गृहे गृहे मनुष्याणामभवच्छवसंग्रह ॥२३॥
त्वा हिमवतः पार्श्वे रिराधयिषवः शिवाम् ॥२४॥
निराहारास्तदासक्तास्तामेव शरणं ययुः ॥२५॥
सर्वापराधयुक्तेषु नैतच्छ्लाघ्यं तवांबिके ॥२६॥
त्वया यथाप्रेर्यतेऽयं करोति स तथा जनः ॥२७॥
यथेच्छसि तथा कर्तुं समर्थाऽसि महेश्वर ि ॥२८॥
जीवनेन विनाऽस्माकं कथं स्यात्स्थितिरंबिके ॥२९॥
अनन्तकोटिब्रह्माण्डनायिके ते नमो नमः ॥३०॥
नमो वेदान्तवेद्यायै भुवनेश्यै नमो नमः ॥३१॥
तां सर्वकारणां देवीं सर्वभावेन सन्नताः ॥३२॥
अनंताक्षिमयं रूपं दर्शयामास पार्वती ॥३३॥
सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनम् ॥३४॥
शाकादीन्फलसंयुक्तननन्तरससंयुतान् ॥३५॥
सर्वसौंदर्यसारं तद्रूपं लावण्यशोभितम् ॥३६॥
दर्शयित्वा जगद्धात्री साऽनंतनयनोद्भवो ॥३७॥
नवरात्रं महावृष्टिरभून्नेत्रोद्भवैर्जलः ॥३८॥
तर्पितास्तेन ते लोका ओषध्यः सकला अपि ॥३९॥
निलीय संस्थिताः पूर्वं सुरास्ते निर्गता बहीः ॥४०॥
नमो वेदान्तवेद्ये ते नमो ब्रह्मस्वरूपिणि ॥४१॥
भक्तकल्पद्रुमे देवि भक्तार्थं देहधारिणी ॥४२॥
अस्मच्छान्त्यर्थमतुलं लोचनानां सहस्रकम् ॥४३॥
क्षुधया पीडिता मातः स्तोतुंशक्तिर्न चास्ति नः ॥४४॥
व्यास उवाचइति तेषां वचः श्रुत्वा शाकान्स्वकरसंस्थितान् ॥४५॥
नानाविधानि चान्नानि पशुभोज्यानि यानि च ॥४६॥
शाकंभरीति नामापि तद्दिनात्समभून्नृप ॥४७॥
ससैन्यः सायुधो योद्धुं दुर्गमाख्योऽसुरो ययौ ॥४८॥
रुरोध देवसैन्यं तद्यद्देव्यग्रे स्थितं पुरा ॥४९॥
ततः किलकिलाशब्दः समभूद्देवमण्डले ॥५०॥
ततस्तेजोमयं चक्रं देवानां परितः शिवा ॥५१॥
ततः समभवद्युद्धं देव्या दैत्यस्थ चोभयोः ॥५२॥
परस्परशरोद्धर्षसमुद्भूताग्रिसुप्रभम् ॥५३॥
ततो देवीशरीरात्तु निर्गतास्तीव्रशक्तयः ॥५४॥
बगला चैव मातंगी तथा त्रिपुरसुन्दरी ॥५५॥
छिन्नमस्ता गुह्यकाली दशसाहस्रबाहुका ॥५६॥
असंख्यातास्ततो देव्यः समुद्भूतास्तु सायुधाः ॥५७॥
शक्तिभिर्दैत्यसैन्ये तु नाशितेऽक्षौहिणीशते ॥५८॥
शक्तिभिः सह युद्धं च चकार प्रथमं रिपुः ॥५९॥
अक्षौहिण्यस्तु ताः सर्वा विनष्टा दशाभिर्दिनैः ॥६०॥
रक्तमाल्यांवरधरो रक्तगन्धानुलेपनः ॥६१॥
सरंभेणैव महता शक्ती सर्वा विजित्य च ॥६२॥
ततोऽभवन्महद्युद्धं देव्या दैत्यस्य चोभयोः ॥६३॥
ततः पञ्चदशात्युग्रबाणान्देवीमुमोच ह ॥६४॥
द्वाभ्यां नेत्रे भुजौ द्वाभ्यां ध्वजमेकेन पत्रिणा ॥६५॥
ततो वमन्स रुधिरं ममार पुर ईशितुः ॥६६॥
हते तस्मिन्महावीर्ये शान्तमासीज्जगत्त्रयम् ॥६७॥
पुरस्कृत्य हरीशानौ भक्त्या गद्गदया गिरा ॥६८॥
नमः शाकंभरि शिवे नमस्ते शतलोचने ॥६९॥
नमो माहेश्वरि शिवे पञ्चकोशान्तरस्थिते ॥७०॥
प्रणवार्थस्वरूपां तां भजामो भुवनेश्वरीम् ॥७१॥
ब्रह्मविष्ण्वादिजननीं सर्वभावैर्नता वयम् ॥७२॥
सदयां परमेशानीं शताक्षीं मातरं विना ॥७३॥
पूजिता विविधैर्द्रव्यैः संतुष्टाऽभूच्च तत्क्षणे ॥७४॥
ब्राह्मणेभ्यो विशेषण प्रोवाच पिकभाषिणी ॥७५॥
यया विनाऽनर्थ एव जातो दृष्टोऽधुनैव हि ॥७६॥
नात परतरं किंचित्कल्याणायोपदिश्यते ॥७७॥
तेन तुष्टा भविष्यामि हरिष्यामि तथाऽऽपद ॥७८॥
गृह्णाति च शताक्षीति मायां भित्त्वा व्रजत्यसौ ॥७९॥
संसेव्याऽहं सदा देवा सर्वैरति सुरासुरैः ॥८०॥
सन्तोषं जनयंत्येवं सच्चिदानन्दरूपिणी ॥८१॥
गोपनीयं प्रयत्नेन सर्वकल्याणकारकम् ॥८२॥
सर्वान्कामानवाप्नोति देवीलोके महियते ॥८३॥
