लोचनत्रयसंयुक्तां पूर्णेन्दुसदृशाननाम् ॥ १॥
नवयौवनसम्पन्नां सर्वाभरणभूषिताम् ॥ २॥
त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम् ॥ ३॥
त्रिशूलं दक्षिणे पाणौ खड्गं चक्रं क्रमादधः ॥ ४॥
खेटकं पूर्णचापञ्च पाशमङ्कुशमेव च ॥ ५॥
अधस्तान्महिषं तद्वद्विशिरस्कं प्रदर्शयेत् ॥ ६॥
हृदि शूलेन निर्भिन्नं निर्यदन्त्रविभूषितम् ॥ ७॥
वेष्टितं नागपाशेन भ्रुकुटीभीषणाननम् ॥ ८॥
वमद्रुधिरवक्त्रञ्च देव्याः सिंहं प्रदर्शयेत् ॥ ९॥
किञ्चिदूर्द्ध्वं तथा वाममङ्गुष्ठं महिषोपरि ॥ १०॥
प्रसन्नवदनां देवीं सर्व्वकामफलप्रदाम् ।
स्तूयमानञ्च तद्रूपममरैः सन्निवेशयेत् ॥ ११॥
चण्डा चण्डवती चैव चण्डरूपातिचण्डिका ॥ १२॥
चिन्तयेत् सततं दुर्गां धर्मकामार्थमोक्षदाम् ॥ १३॥
