अथ प्रणामः ॥
ॐ श्रीगणेशाय नमः ॥
ॐ स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे । अवतारवरिष्ठाय रामकृष्णाय ते नमः ॥
ॐ यथाग्नेर्दाहिका शक्तिः रामकृष्णे स्थिता हि या । सर्वविद्या स्वरूपां तां शारदां प्रणमाम्यहम् ॥
ॐ नमः श्रीयतिराजाय विवेकानन्द सूरये । सच्चित्सुखस्वरूपाय स्वामिने तापहारिणे ॥
ॐ रामकृष्णगतप्राणं हनुमद्भाव भावितम् । नमामि स्वामिनं रामकृष्णानन्देति संज्ञितम् ॥
ॐ ब्रह्मानन्दादि श्रीरामकृष्ण पार्षदेभ्यो नमः ॥
ॐ सर्वेभ्यो गुरुभ्यो नमः ॥ ॐ सर्वेभ्यो देवेभ्यो नमः ॥ ॐ सर्वेभ्यो देवीभ्यो नमः ॥ ॐ सर्वेभ्यो ऽवतारेभ्यो नमः ॥ ॐ सर्वेभ्यो आचार्येभ्यो नमः ॥ ॐ नमः परम ऋषिभ्य ॐ नमः परम ऋषिभ्यः ॥
अथ ध्यानम् ॥
ॐ शान्ताकारं समाधौस्थितं अतुल तनु ज्योतिषा व्याप्त देशम् । सिद्धेपीठे निषण्णं स्मितलसित मुखं हर्षबाष्पाप्लुताक्षम् ॥ चार्वङ्गं स्वर्णवर्णं वरदमभयदं जीवनं सज्जनानाम् । देवाधीशं भजेहं ह्यगणितगुणिनं भक्तितो रामकृष्णम् ॥१॥
ॐ ऐं सर्वदेवदेवी स्वरूपाय सर्वधर्मस्वरूपाय सशक्तिकाय सभक्तवृन्दाय साङ्गोपाङ्गाय श्रीरामकृष्णाय नमो नमः ॥
अथ पूर्वभागः ॥
ॐ यं वैष्णवा विष्णुमुदाहरन्ति शैवाः शिवं बुद्धमथापि बौद्धाः । तीर्थंकरं जैनजना महान्तं तं रामकृष्णं परमं नमामः ॥१॥
अमेयायातिमायाय ज्ञातलोकाय ते नमः । सर्वज्ञाय सुसत्त्वायाविज्ञाताय हि ते नमः ॥२॥
लोकानां कार्यसिद्ध्यर्थम् अजायापि सुजन्मने । निर्गुणायापि देवाय गुणयुक्ताय ते नमः ॥३॥
प्रसन्नाय प्रपन्नानां निरीहाय तपस्यते । अयनाय विरागाणां सच्चित्सुखाय ते नमः ॥४॥
नमः शुद्धाय बुद्धाय नमः शुद्धतराय च । नमो बुद्धतरायाथ नित्यमुक्ताय ते नमः ॥५॥
कर्मादि योग मार्गाणां समन्वय विधायिने । धर्मद्वन्द्व निहन्त्रे वै सर्वेश्वराय ते नमः ॥६॥
विभोर्नामसहस्रं तद् रामकृष्णावतारजम् । रहस्यं हि रहस्यानामुत्तमानां तथोत्तमम् ॥७॥
पवित्राणां पवित्रं वै सर्वसन्ताप हारकम् । भक्तैर्विवेकप्रमुखैर्द्योतितं किल मङ्गलम् ॥८॥
मनः शान्तिकरं पुण्यं मोक्षमार्ग प्रवर्तकम् । प्रोच्यते सर्वलोकानां मोहनाशाय निर्मलम् ॥९॥
गयाधाम प्रभो र्विष्णोरात्त मानुष विग्रहः । मङ्गलध्वनिभिः शङ्खैरावेदित शुभागमः ॥१०॥
अथ श्रीरामकृष्ण सहस्रनाम स्तोत्रम् ॥
ॐ ऐं सर्वदेवदेवी स्वरूपाय श्रीरामकृष्णाय नमः ॥
ॐ गदाधरो गदाइश्च दुलालः स प्रियोत्तमः । रामकृष्ण इति ख्यातो बाल्ये स्वजन बान्धवैः ॥१॥
क्षुदिरामात्मजो बालः कामार पुकुरोद्भवः । सर्वेप्सितो वराकारः कोमलाङ्गो विभूतिमान् ॥२॥
स्मिताधरो ऽखिलप्रेमी अतीव मधुर मोहनः । सद्ब्राह्मण कुलोद्भूतः पीयूषवर्षि नामभाक् ॥३॥
जनचित्त समाकर्षी मातृ चन्द्रमणिप्रियः । धात्रीधनी प्रपूज्योऽसौ बाल्येऽप्यद्भुत कीर्तिमान् ॥४॥
मधुक्षर स्वरालापो विभुलीला सुगायकः । सर्वधर्म सुमर्मज्ञो विद्वज्जल्प विखण्डकः ॥५॥
वेदपाठ विहीनोऽपि परमवेद तत्त्ववित् । सुचारु प्रतिमाकारः चित्राङ्कन विशारदः ॥६॥
अभिनयपटुर् धीमान् गृहीत बहुभूमिकः । रङ्गरसप्रियः श्रीमान् नृत्यगीत परायणः ॥७॥
मुखवाद्य प्रवीणोऽसौ शुद्धताल लयाश्रयः । पिकालि मुरली वीणा समुदित स्वरध्वनिः ॥८॥
रामारूप विभावी वै रामाभङ्गि प्रदर्शकः । रामाविकल कण्ठायुक् चारुचन्द्र निभाननः ॥९॥
माधुर्य मण्डिताशेष वाल्यलीला समापकः । श्रुतिधरो महाधीमान् जननी जनकप्रियः ॥१०॥
विशुद्ध ब्राह्मणाचारः सर्वदैव गुणाकरः । नन्दितो वन्दितो देवः पिनाकि भूमिकाधरः ॥११॥
दर्शक हृदयानन्दः साक्षान् मूर्तमहेश्वरः । जात शिवमयावेशः शिवभाव समाधिमान् ॥१२॥
सर्वग्राम जनामोदः चन्द्रमणि तनूद्भवः । कामार पुकुरप्राणः सुवेणी बद्धकुन्तलः ॥१३॥
क्वचित् त्यक्तकुलाचारः सत्यव्रत परायणः । धनीगृहीत भिक्षान्नो धात्रीस्नेह वशंवदः ॥१४॥
देवीगृहीत नैवेद्यः चिनूद्भिन्न स्वरूपकः । चिनुमिष्टान्न संभोक्ता चिनुभक्ति कृतार्चनः ॥१५॥
भक्तार्चित पदाम्भोजः शाखामृग सुपूजितः । स्मृत त्रेतायुगाचारो राघवाभिन्न रूपकः ॥१६॥
धनी भक्त्यर्चनाधारो जातिमान विवर्जितः । शुद्धभक्ति धनग्राही प्रेमानन्द समुज्ज्वलः ॥१७॥
पितृपूजा समाकृष्टः प्रेम पुलकितान्तरः । जात रघुवरावेशो राघवमाल्य भूषितः ॥१८॥
कलाकलाप निष्णातः सरलः सौम्यदर्शनः । परमसुन्दरः प्रेष्ठो दिव्यलक्षण लक्षितः ॥१९॥
तीर्थीकृत निजग्रामो जन्मभू शेवधिः स्वयम् । पूज्याभेद समापन्नः स्वांघ्रि न्यस्तोपचारकः ॥२०॥
अभीष्ट पार्षदव्रातः पार्षदवृन्द पूजितः । नवकलेबर श्रीशः कृष्णलीला प्रकाशकः ॥२१॥
निसर्गालोकनोन्मत्तो भावराशि प्रपूरितः । मेघाम्बर बलाकादृक् बाल्याशेष समाधिमान् ॥२२॥
संसारासारता दर्शी सदा वैराग्यभावनः । न्यासिसङ्गी परप्रीतः परिव्राजक वन्दितः ॥२३॥
गङ्गाम्बु ब्रह्मसम्बोधिः गङ्गाभक्ति परायणः । दृढमुनि व्रताचारी क्षुत्पिपासोर्मि वर्जितः ॥२४॥
सदा शिवशिवालापी शमादि विभवान्वितः । विहित गाङ्गमृच्छम्भुः विश्रुत प्रतिभाधरः ॥२५॥
छोटभट्चाजिति प्रोक्तः कृतमृण्मय चिन्मयः । प्रकट पुलकावेगो दक्षिणेश्वर जीवनम् ॥२६॥
घृष्टसाश्रु मुखाम्भोजः श्रीकाली दर्शनाकुलः । कठिन मृत्तिकाशायी ह्युच्चैर्मामेति रोदकः ॥२७॥
मथुरा मोहनानन्दः श्रीकालिका सुपूजकः । जगन्मातृ गतप्राणः प्राणत्याग समुद्यतः ॥२८॥
स्वमुण्ड विनिपातार्थी सुतीक्ष्ण खड्गधारकः । अखण्ड चेतनास्फूर्तिर् विलुप्त बाह्यचेतनः ॥२९॥
सबाह्याभ्यन्तर ज्योतिः देवीमन्दिर शायितः । आनन्द सागरस्नातो दृष्टचिन्मय कालिकः ॥३०॥
श्यामा नीराजनोन्मत्तः सर्वविषय निस्पृहः । आत्मस्थिति विघातेन ऽपरविद्या पराङ्मुख ॥३१॥
योगशिक्षा परामोदो वियोग शिक्षणारुचिः । भोगनिष्ठीवन त्यागी परविद्या प्रमानदः ॥३२॥
तोतासम्प्राप्त संन्यासो ह्यद्वैत साधनापरः । ब्रह्मबोधि समारूढो निर्विकल्प समाधिमान् ॥३३॥
अनुलोम विलोमज्ञो विज्ञान भूमिसंदृढः । रूपारूप समापत्तौ प्रज्ञाप्रोत्कर्ष संयुतः ॥३४॥
षण्मास निर्निमेषाक्षो हठयोग प्रसाधकः । सदाशिव समाविष्टो भद्रमाल्य प्रभूषितः ॥३५॥
दिव्यज्योतिर् मयाधारो दास्यभक्ति प्रदर्शकः । श्यामाध्यान महावेशी जटाजूट शिवेक्षकः ॥३६॥
आनन्दासन संसिद्धः क्रान्तदर्शी सुमोहनः । अखिल विबुधावेशः प्रतिमा ज्ञातचेतनः ॥३७॥
बुद्धावतार सम्बुद्धः शून्यतत्त्व रहस्यवित् । नानाकृच्छ्र व्रताचारी ज्योतिर्लीन स्वरूपकः ॥३८॥
सङ्कीर्तको नृत्यपरो निराशो दरिद्रदेवो जनचित्तहारी । स्त्रीमात्र संवीक्षित मातृरूपो वेश्यानुभूतोत्तम मातृसत्तः ॥३९॥
श्यामार्पित प्राणमनः शरीरः श्यामानिदिध्यास परायणो वै । आहारपान स्वपनादि शून्यः श्यामावलोकाकुल उद्गताश्रु ॥४०॥
ध्यानानुकूलाखिलपाश मोको ध्यानार्थ सन्त्यक्त सुवेशसूत्रः । तृणीकृताशेष धनोपहारो देवी वियोग व्यथितप्रदग्धः ॥४१॥
कर्मेष्टसंहारि महातिथिज्ञः पत्नीसमाराधित षोडशीकः । स्त्रीज्ञात बालत्रिपुरा प्रकाशो देवीविलीनात्म कलत्रभेदः ॥४२॥
साष्टांगपातार्पित साध्यजातः पत्नीपदन्यस्त जपार्थमाल्यः । पत्नीप्रतिष्ठापित मातृभावोऽसामान्य पूजाचरण प्रकाशी ॥४३॥
माधुर्यभावो ऽखिल दिव्यरूपः सर्वोत्तमः साधकचक्रवर्ती । सर्वत्रसंवीक्षित वासुदेवः श्यामाधनः कृष्णमय स्वरूपः ॥४४॥
अखण्ड सच्चित्सुख तत्त्वलीनो अद्वैतप्रबोधो विरजोहुतीश्च । नारीनिरूढ स्थिरमातृभावः पत्नीजगन्मातृ समानबोधः ॥४५॥
महिम्नःस्तोत्र सम्प्रीतो भावसमाधि मज्जितः । अशेषभाव संसिद्धः कालिका श्रेष्ठपूजकः ॥४६॥
नानाधर्म मतप्रेमी नानाधर्म परीक्षकः । सत्यधर्म पथव्रातः सकलधर्म सारदृक् ॥४७॥
शान्तादि भावसंवेत्ता गोपीभाव प्रसाधकः । सुदृष्ट षोडशीमूर्तिः ज्ञानयोग व्यवस्थितः ॥४८॥
तन्मय पूजकश्रेष्ठो मायामोहन मूर्तीदृक् । दिनत्रय तुरीयस्थो निर्विकल्प समाहितः ॥४९॥
सारथिकृष्ण सन्द्रष्टा बालगोपाल वीक्षकः । चपल बालिकावेशि श्रीजगन्मातृ दर्शकः ॥५०॥
श्यामावेशकर श्रेष्ठः स्वीकृत ब्राह्मणीगुरुः । साधककुल मूर्धन्यः कृतधर्म समन्वयः ॥५१॥
प्रकटित महाभावः स्वदेहलीन राधिकः । भवतारिण्यनुध्याता त्वपरोक्षी कृताम्बिकः ॥५२॥
प्रमूर्त रामसौमित्रिः सीतादर्शन मोदितः । परैकाग्र मनोवृत्तिः अनेकतन्त्र साधकः ॥५३॥
श्रीगौराङ्गासनारूढः शिखशासन तत्त्ववित् । प्रेमाश्रु सिक्त तुण्डादिः नेतिनेतीति साधकः ॥५४॥
काल तत्कामिनी द्रष्टा शिवारूढ शिवाप्रियः । ब्रह्मकुण्डलि निद्राघ्नो ऽविगीत तन्त्रपारगः ॥५५।
विविक्त सेवनाकृष्टो दिव्यप्रेम मदाकुलः । जगदम्ब समादिष्टो दृढभावमुख स्थितिः ॥५६॥
चलतीर्थ स्वरूपोऽपि विहित तीर्थसेवनः । बृंहित तीर्थमाहात्म्यः सुतीर्थिकृत जन्मभूः ॥५७॥
जाग्रद् दृष्टामरव्रातः प्रकृष्ट तीर्थपावनः । दरिद्रदुःख सन्तप्तः क्षुधातुर सुभोज्यदः ॥५८॥
स्वाङ्गसल्लीन विश्वेशो दृष्टतारक मन्त्रदः । स्वर्ण काशीक्षणानन्दः स्वयं पूजित दुर्गतः ॥५९॥
दीनार्तशुल्क सम्मोची दृष्ट ज्योतिर्मयेश्वरः । प्रकाशित परप्रेमा प्राप्तकाशी शिवालयः ॥६०॥
वीणा मधुर झङ्कार श्रवण प्राप्त निर्वृतिः । गोपालकृष्ण सुद्रष्टा श्रीवृन्दावन धामगः ॥६१॥
शिबिकारोहण व्रज्यापूर्व भावसमाधिमान् । गोवर्धन शिलारूढो जनगण समादृतः ॥६२॥
सन्देहराक्षस ध्वस्ता स्पर्शमात्र समाधिदः । अखिलधर्म मर्मज्ञो मूर्खपण्डित साम्यदृक् ॥६३॥
स्वाङ्गसल्लीन गौराङ्गः स्मर्तृकलुष नाशनः । अस्पृश्य पतितोद्धर्ता धर्मद्वन्द्व विखण्डनः ॥६४॥
आद्यशक्त्यपृथग्भूतः शाक्तगण सुपूजितः । जीवदुःखामयोच्छेत्ता करुणावरुणालयः ॥६५॥
च्युताच्युतो ज्ञानदाता सर्वजाति विमुक्तिदः । करामलकवत् सिद्धिः मातृपूजा समाधिमान् ॥६६॥
दत्तभक्त जनानन्दः सुधीन्द्र सेविताङ्घ्रिकः । अवतारवरिष्ठो वै पापदूषण मोचकः ॥६७॥
श्रीभगवत्प्रसङ्गोत्थ श्रेष्ठ समाधि भावयुक् । श्रीकृष्ण मधुराख्यान श्रवणप्राप्त निर्वृतिः ॥६८॥
योगदो योगविद्वर्यः शुद्धसत्त्व प्रतिष्ठितः । सर्वद्वन्द्व विनिर्मुक्तो नरेन्द्र यस्त धर्मधीः ॥६९॥
अध्यात्मशक्ति संदाता नरेन्द्र निर्विकल्पदः । स्पर्शमात्र सुविज्ञात श्रीनरेन्द्र स्वरूपकः ॥७०॥
विलोममार्ग निर्ज्ञात ऽखण्ड नरेन्द्र संस्थितिः । सप्तर्षि मण्डलान्तःस्थ प्रेष्ठ र्षिकण्ठधारकः ॥७१॥
भक्तक्लेशासहिष्णुर् वै भवरोग विदूरकः । उररीकृत सद्दासी जगदम्बा ऽखिलाऽऽमयः ॥७२॥
भक्तात्यन्त कृपावर्षी परतत्त्वोपदेशकः । जितकामादि षड्वर्गः त्यक्त सर्वप्रतिग्रहः ॥७३॥
कामिनीकाञ्चन त्यागी अपूर्व मातृपूजकः । स्थावरा स्थावराभोगी सन्त्यक्त मथुराधनः ॥७४॥
ब्रह्मयोनि परिद्रष्टा विशदो विमलान्तरः । भावस्थिति परः साक्षी दृष्टचैतन्य कीर्तनः ॥७५॥
लोकप्रियो लोकनाथो लोकशिक्षा गुरुः प्रभुः । लब्ध योगविभूतिश्च लोकानुग्रह कारकः ॥७६॥
लीलामयो हरिः साक्षात् पूजितो विश्ववन्दितः । भूयिष्ठ साधना निष्ठः प्रथितो देवमानवः ॥७७॥
वेदमूर्तिर् विभुस्त्राता विश्वपाता विशालधीः । वाञ्छाकल्पतरुर् वीरो विचित्रेश्वर दर्शनः ॥७८॥
विश्वेश्वरो विराड्रूपो विश्वाधारो विवेकदः । वरेण्यो वैष्णवो विष्णुः वेत्तेशो वेदवित्तमः ॥७९॥
नानारूपो निराकारो नृदेवो निर्भयोऽव्ययः । नित्यो निर्वासनोऽज्ञेयो निर्विकल्पो निरञ्जनः ॥८०॥
कृपासारः कृपाधारः करुणः करुणेक्षणः । कालीसूनुः स्वयङ्काली कर्णधार स्वरूपकः ॥८१॥
युगधर्म सुसंस्कर्ता युगभाव प्रवर्तकः । युगाचार परिद्रष्टा युगग्लानि विदूरकः ॥८२॥
कृत श्रीकालिका लीलो ललितः प्रेमसुन्दरः । कामकाञ्चन शून्यश्च कलिकलुष नाशनः ॥८३॥
वृद्धश्रवा बृहत्कर्मा भूतात्मा धर्मधारकः । प्रज्ञाधनो महाभावः प्राणरूपो निरन्तरः ॥८४॥
पितृमातृ स्वरूपश्च जनताप निवारकः । पतितपावनः शुद्धः शुद्धिदः सर्वतोमुखः ॥८५॥
सर्वज्ञः सर्वशक्तिश्च वासनाबीज भर्जकः । आत्मारामो रमानाथः परब्रह्म परेश्वरः ॥८६॥
कठोर कर्मकृच्छाक्तो मूर्तकारुण्य विग्रहः । कृपाकटाक्ष सुक्षेपी निर्मोहो लोकपावनः ॥८७॥
शक्त्याधारः शिवः शान्तः शङ्करः शक्तिदायकः । शुक्लाम्बरधरः शुभ्रः शान्तिदः श्रुतिसारवित् ॥८८॥
बुद्धिदो बोधिदः सौम्यः परमानन्द दायकः । विश्ववेत्ता त्रिकालज्ञः त्वद्वितीयो मनोयतिः ॥८९॥
प्रेमात्मा ऽरूपरूपो वै विश्वात्मा हृदयेश्वरः । महाधारो महाशक्तिः ओजोधातात्मतुष्टिमान् ॥९०॥
साधुमित्रं सदानन्दः सत्स्वरूपः सदातनः । सम्प्रदाय विहीनोऽपि प्रतिसङ्घ सुधारकः ॥९१॥
भावातीतो भवस्तुत्यो भक्तिमार्ग प्रदर्शकः । भगवान् भावपाथोधिः भवबन्धन खण्डनः ॥९२॥
भक्तेश्वरो भयोच्छेत्ता भवसागर तारणः । भक्तपालो भवत्राता भक्तहृदय रञ्जनः ॥९३॥
अमितगुण चरित्रो ऽनन्तमूर्तिः प्रशान्तो हृदयकमल संस्थो ज्ञानदानावतीर्णः । प्रकृति विकृति शुन्यः सर्वगः सर्वसाक्षी विमल परमहंसो विश्व धर्मप्रतीकः ॥९४॥
प्रणयगलित चित्तो ऽनादिरूपो ऽतिसूक्ष्मः शिशुमतिर् अविनशी शक्तिपाथस् तरङ्गः । अगतिक गतिदायी शान्ति दानावतीर्णः शमन दमनकारी शान्तिवर्षि स्वरूपः ॥९५॥
रतिपति भयहारी सर्वकल्याण राशी रिपुकुल सुमहारिर् ज्ञानमार्ग प्रकाशी । यति मुनि जन तारी रञ्जको भावमूर्तिर् मतिमल लयकारी मोह मेघापसारी ॥९६॥
कलुषमल विनाशी सच्चिदानन्द मूर्तिर् निखिलमधुर भाव स्वाश्रायः पूर्णरूपः । अभिलषित विधाता अपूर्वशक्ति प्रदातापि अमृत मधुररूपः सर्व विश्वातिशायी ॥९७॥
परम शरणदाता शुद्धबोध प्रदीपो धृत सहज समाधिः सक्रियो निष्क्रियश्च । दुरित दलनशक्तो विश्वभाव प्रवेत्ता त्रिगुण रहित रूपो भास्वरश् चिद्विलासः ॥९८॥
हृत शशधर कान्तिर् ह्युत्तम ज्योतिरेव प्रभव मरण हीनश् चिन्मयो दिव्यरूपः । चिर सहचर इष्टो दीनबन्धुः कृपालुर् निखिल भुवन धाता तारको ऽनाथनाथः ॥९९॥
महासाध्यो महासिद्धो ऽमितवीर्यो दिगम्बरः । महा विपन्निवारी च त्यक्त लज्जाभयादिकः ॥१००॥
अद्भुतो मनुजश्रेष्ठो युगपच्चतुराश्रमी । जगत्स्वामी महाचार्यो त्यागिवर्यो ह्यखण्डधीः ॥१०१॥
अनादिनिधनो ऽनन्तो ऽव्यक्तो ऽखिलहृदीश्वरः । असीम बलशाली वै गुणाढ्यश्च गुणातिगः ॥१०२॥
भूरिदाताखिलप्रेमी विश्वमैत्री प्रसाधकः । मोक्षदो वरदो दिव्यः परमः पुरुषोत्तमः ॥१०३॥
दान्तः स्वल्पाक्षरो ज्ञानी ज्ञानमूर्तिर् उदारधीः । सर्वज्ञो ज्ञानसिन्धुश्च ज्ञेयो ज्ञानरविः सुधीः ॥१०४॥
पूतदेहः पवित्राक्षो ह्यात्मज्ञान प्रजागरः । ज्ञान विज्ञान निष्णातः चाज्ञान मोहमुद्गरः ॥१०५॥
ॐकार बीजरूपो वा ऐं ह्रीं बीजस्वरूपकः । सबीज वाङ्मय द्रष्टा मन्त्र चैतन्य कारकः ॥१०६॥
मोहारिर् हृत्तमोहारी शोक ताप निवारणः । भुक्ति मुक्ति प्रदाता च रामो मानस रञ्जनः ॥१०७॥
सङ्कीर्तनाप्लुतात्मा वै संसृति स्थिति विस्मृतिः । कृष्णदृग् भक्तिमान् धीरः सिद्धकैवल्य निर्वृति ॥१०८॥
ज्ञानोद्भासित तुण्डश्रीः सर्वग्रन्थि विदारणः । कृपाकटाक्ष संवर्षी संशय पुञ्जपाटनः ॥१०९॥
निराकारोऽथ साकारो लीलाविग्रह धारणः । मान मेय स्वरूपः चाद्वयः केवलचेतनः ॥११०॥
निर्मोहो निर्मलो जुष्टो बुद्धो मुक्तो महेश्वरः । प्रेमामृताकरः पूर्णो ऽखिल पातकितारणः ॥१११॥
प्रेमाब्धिः प्रेमवाही च प्रमूर्त प्रेमविग्रहः । प्रेमलीला प्रकाशी च प्रेम रोमाञ्चितान्तरः ॥११२॥
जगत्पिता जगन्माता जगन्नाथो जनार्दनः । जगन्निवास आसीनः सर्वभूत लयस्थितिः ॥११३॥
प्राणेशः प्राणकान्तश्च प्राणारामः परावरः । प्राणदः प्राणगोपालः प्राणश्रीश्च परात्परः ॥११४॥
प्रेमदाता परप्रेमी प्रेम गद्गद भाषणः । परप्रेमा प्रेमघनः प्रेमाकुलित वीक्षणः ॥११५॥
पाशमुक्तो विमानोऽसौ प्रकट क्लेश नाशनः । पुराणपुरुषो ऽनादिः अवतारी कृतार्चनः ॥११६॥
प्राच्य पाश्चात्य देशस्थ प्रकृष्टि सुसमन्वयी । विश्व संस्कृति मालिन्यापसारक जनाग्रणीः ॥११७॥
प्राणसखो महाप्राणो दीननाथो दयाघनः । एषणात्रय निर्मुक्तो नारायणांश सम्भवः ॥११८॥
स्वभूः शम्भुः स्वयम्भूश्च विरूपाक्षो विलोचनः । परमेशो महादेवो देवदेवस्तपोधनः ॥११९॥
कल्याणकृत् सुकर्माथो युगावतार स्व च । रामकृष्णोभयात्मा वै कुलधर्म प्रबोधकः ॥१२०॥
समस्त शास्त्र तत्त्वज्ञो ब्रह्मा विष्णु हरातिगः । कूटस्थो ब्रह्मरूपस्तु द्विज चण्डाल साम्यदृक् ॥१२१॥
बोधसाक्षी विशुद्धात्मा विश्वज्योतिर् उदारधीः । बाह्य संवेदना शून्यो ब्रह्मशक्त्यैक्य भावनः ॥१२२॥
बोधेच्छा कर्मशक्तिश्च योग भक्ति परायणः । अवतार वरिष्ठोऽपि विक्रान्तो देशिकोत्तमः ॥१२३॥
पूर्णयोग रहस्यज्ञो योगदाता महायमी । युगदेवो युगादर्शो विश्व वर्णाश्रमाश्रयः ॥१२४॥
स्थितप्रज्ञो महाप्राज्ञः सदा प्रज्ञालय स्थितः । वीतराग भयक्रोधः स्थितधीर् मुनि संज्ञितः ॥१२५॥
अनासक्तोऽनिकेतस्तु स्तुति निन्दा विवर्जितः । आत्मतुष्टो ऽनहंवादी त्यक्ताखिल शुभाशुभः ॥१२६॥
ईशार्पित मनोबुद्धि योगमाया समावृतः । शुभनामा शुभागारः शुभारीः शुभदर्शनः ॥१२७॥
निगीर्णाहं ममज्ञानो द्वेषहीनो गतव्यथः । समद्रष्टा क्षमावांश्च अनपेक्षो विश्वनायकः ॥१२८॥
पीयूष रसपाथोधिः कथामृत प्रवर्षणः । अस्पष्ट मधुरालापो ग्राम्यभाव प्रदर्शकः ॥१२९॥
सर्वज्ञाता त्वविज्ञातो विश्वयोनिः स्वयंजनुः । सर्वेश्वरः स्वतन्त्रश्च एकरूपोऽनेकरूपकः ॥१३०॥
अनुद्विग्नो ऽमलप्रज्ञो वीत मानावमानकः । प्रार्थनीयो ऽप्यर्थशून्यो ऽव्यक्तः सुव्यक्ति कारणम् ॥१३१॥
अजेयो जयशीलश्च निःस्पृहोऽपि तपःपरः । अजोऽपि जायमानो वा अपापः पापमोचनः ॥१३२॥
सर्वधर्म सरित्सिन्धुः सद्भक्त हृदयाश्रयः । मुनि योगि यति ध्येयो वीतराग गतिप्रदः ॥१३३॥
ब्रह्मस्तुतो ब्रह्म मुखाधिवासो ब्रह्माण्डगो ब्रह्म मुखार्चनार्हः । ब्रह्मादि बोधातिग शेमुषीको ब्रह्मार्पितो ब्रह्मविगाहि चेताः ॥१३४॥
सत्कर्म लीलाप्रकटः सुदृष्टिः सुदृष्टिदः संसृति पाशनाशी । श्रद्धानिवासः सुमनो विलासः कन्दर्पहृत् कामकला विलोपी ॥१३५॥
भक्तेश्वरो भक्तवरस् तपस्वी भक्तिप्रकाशः प्रिय भक्तिभावः । भक्तप्रियो भक्तवृतस् तमोहा भक्तावतारो भव कर्णधारः ॥१३६॥
भक्तिप्रभो भक्तगणादृतो वै सुग्रन्थदीपो यमभीतिहारी । सुव्यक्त वक्षःस्थित हार तुल्यो भ्रम प्रमादाकलितो मदारिः ॥१३७॥
अनन्तभावो जितशास्त्रसारो दाक्षिण्यदायी कलिदोषनाशी । असीमरूपः समतानिदानं दिव्याकृतिर् दिव्यमुख प्रकाशी ॥१३८॥
सर्वात्मकः सर्वसुलक्षणांगो निष्काम कर्मप्रकटः परेशः । सुधामयः स्निग्ध रसार्द्रभावः सर्वंसहः सर्व घटाधिरूढः ॥१३९॥
सदाप्रफुल्लो ऽशुभनाशि नामा कल्याणवर्षी सुखदायि मुर्तिः । विशुद्ध विज्ञानमयो ऽप्रमेयो विशुद्धसत्त्वः सुविशाल वक्षाः ॥१४०॥
अगाधसत्त्वो ऽमितवीर्य आत्मा तत्त्वप्रकाशी सुतनुर् महात्मा । अखण्डरूपो निखिलावतंसः संसार सारावगतो निरीहः ॥१४१॥
मायाश्रयो मनोऽभीष्टो मायाधीशः सुरेश्वरः । मोदमानो मनोहारी मायातीतस् तुरीयचित् ॥१४२॥
मङ्गलो मोहनो मूर्तो मायागूढ स्वरूपकः । नवदश महाभावो राधिकामय जीवितः ॥१४३॥
ऋत सत्य तपः पूर्णो नित्ययुक्तो ऽखिलेश्वरः । ऋतम्भरो धरादेवो लोकातीतः चिदम्बरः ॥१४४॥
अमरश्चामृताधारो ऽमृतभाषो ऽमृतेक्षणः । अकलः सकलः सूरी रञ्जनश्चाचलश्चलः ॥१४५॥
मातृप्राणः पितृप्राणः सखिप्राणो नृवल्लभः । दरिद्रप्राण आचार्यो दीनेशो दीनवत्सलः ॥१४६॥
अप्राकृतवपुः पूज्यः प्रेमोन्मत्तस् तपोमयः । ध्येयो ऽचलप्रतिष्ठश्च मोहङ्कषः कृपामयः ॥१४७॥
सत्यः सत्याश्रयः शर्वः सत्यात्मा सत्यसम्भवः । परसत्यापरोक्षी चापूर्व सत्यप्रभाषणः ॥१४८॥
महाहृष्टो महादृप्तो महामोह विनाशकः । घनीभूत मनोयोगो माधुर्यघन विग्रहः ॥१४९॥
अहेतुक कृपासिन्धुः अभिमान विमर्दकः । मूर्तिपूजा रहस्यज्ञो ऽशेष संशय वारकः ॥१५०॥
चिदानन्द घनो मानं महाचेताः महाकृतिः । चक्री चिन्तामणिश्चन्द्रः सुधाकारो वराननः ॥१५१॥
रसाधारो रसागारो रसालापी रसस्थितिः । दिव्यरस प्रसूतिश्च दिव्यरस प्रदायकः ॥१५२॥
सुस्पष्ट रसिक श्रेष्ठः सम्पूर्ण रस वर्षकः । रसपूर्णो रसज्ञो वै रसोद्भिन्न स्वरूपकः ॥१५३॥
सर्वदिव्य रसोल्लासो रसाऽऽस्वाद प्रमोदितः । नवदिव्य रसज्ञानो ब्रह्माम्भोधि निमज्जकः ॥१५४॥
दानी धनी सुकान्तिश्च निखिलाभय दायकः । दिव्यानन्द सुधावर्षी स्निग्धो दिव्यरसोज्ज्वलः ॥१५५॥
सर्वव्याप्तः प्रपञ्चेशः सर्वधर्म स्वरूपकः । सर्ववृष्ट कृपासारः सदानन्दः सुखालयः ॥१५६॥
प्रकृष्ट साम्य संवेत्ता मैत्र्यादर्श प्रदर्शकः । स्वाधीनता रहस्यज्ञः प्रोज्ज्वलो मार्गदृग्वरः ॥१५७॥
दिव्यवाणी सुधावर्षी दिव्यगीति सुगायकः । सर्वधर्म सुसंस्कर्ता धर्मग्लानि विदूरकः ॥१५८॥
सत्कार्य तत्परः शूरः सर्वसन्ताप हारकः । श्रुतिसारोपदेष्टा वै सम्प्रदायाधिनायकः ॥१५९॥
स्मरजित् क्रोधजिन्न्यासी स्मर हालाहलान्तकः । सिद्धयोगी महायोगो विक्षेपादि विनाशकृत् ॥१६०॥
समाधिमण्डनो मान्यः समाधिसुख संस्थितः । स्वधाम राजमानश्च मायालेश विवर्जितः ॥१६१॥
विमुग्ध जीव मायाघ्नः शरण्यो मतिवर्धनः । अमानी मानदः स्वामी मनोमद विखण्डनः ॥१६२॥
युगन्धरो युगाचार्यो बोधागम्यो यतीश्वरः । युगप्रवर्तको युक्तः स्वप्रकाशो युगेश्वरः ॥१६३॥
योगासन स्थितो ध्यानी यतिमानस रञ्जकः । योगिगम्य स्वरूपश्च पूर्णयोग प्रकाशकः ॥१६४॥
नितरां शोभित क्षौणिः निवासः शरणं सुहृत् । श्याम श्यामा शिवोद्गाता शिव श्याम शिवामयः ॥१६५॥
यक्षो ज्योतिर्मयो ज्योतिः स्मयहीनो गतकल्मः । पाता धाता पिता बन्धुः विबुधः शममण्डनः ॥१६६॥
मङ्गलश्रवणो हारी कोमलः शोभनः शुभः । सर्वशक्ति प्रदाता वै संश्रुतानाहत ध्वनिः ॥१६७॥
त्रिपुटी लयकारी वै माया विक्षेप नाशकः । दिव्यभाव समासीनो रासमणीष्ट साधकः ॥१६८॥
हृदय प्राप्तसाहाय्यः स्वीकृतानेक सद्गुरुः । विन्यस्त सिद्ध्यभिज्ञानो भावहीनत्व वारकः ॥१६९॥
प्रदीप्तेशपुत्र प्रकृष्टावलोकी प्रभोद्भिन्न विज्ञाल्लदूतापरोक्षी । सुदृष्टात्मदेह प्रलीनावतारः स नूनं महोदार ऐस्लाम खार्ष्टः ॥१७०॥
असारीकृत प्रेष्ठ सिद्ध्यष्टको वै सुधी विप्र गौरि विभूति प्रणाशी । स्वयं शुद्धभक्ति प्रसंविद् विलासी स्वकीयेश भक्तात्मकत्व प्रकाशी ॥१७१॥
शिवाभिन्न जीवस्वरूपत्व घोषी शिवाभिन्न मर्त्यार्चनादर्शवादी । नवीनाखिलोदार धर्माध्वदर्शी नवन्याशि सङ्घ प्रतिष्ठाधिकर्ता ॥१७२॥
प्रणामास्त्र योगाति दक्षोपदेष्टा स्वयं व्यक्त पुं स्त्री सुरोत्कृष्ट रूपः । प्रसूपूत भावाश्रयोत्कर्ष वक्ता भृशं धिक्कृताहं परिस्फीत भावः ॥१७३॥
स्वयं सुव्यक्त गौराङ्गादि पूर्वजावतार भाः । ध्येयाभेद समापन्न कृत स्वविग्रहार्चनः ॥१७४॥
घनीभूत पूर्वावतारादि भावः स्वसन्दर्शिताम्बा महेशस्वरूपः । सुभुक्तातुर व्याधि तापादि कोपः स्वदेह स्फुटान्य प्रहारादि चिह्नः ॥१७५॥
पुङ्खानुपुङ्ख विषयेक्षण तत्परोऽपि ब्रह्मावलोकन सुवृत्ति कलाप युक्तः । नारी नृ जीवकुल मानस तत्त्वदर्शी सम्मोहित प्रथित दृप्त मनस्विसङ्घः ॥१७६॥
नीचाग्रगण्य रसिक प्रकटीकृतात्मा भक्त प्रदर्शित वराभय कालिकाश्रीः । लिङ्गाश्रयागणित चित्त विराज भावः पापित्व बोध परिहार दृढोपदेष्टा ॥१७७॥
स्वेच्छावृतासाध्य कठोर रोगः कल्पद्रु भावाश्रय चेतनाकृत् । नरेन्द्र संक्रान्त सुदिव्य संपन्नरेन्द्र नाथव्य सुघोषकारी ॥१७८॥
सर्वासु विद्यासु निधिस्वरूपः सर्वेषु लोकेषु तमिस्रहैकः । कीटाणु कीटेष्वपवर्गकारी स्वाभिन्न शक्ति प्रकटेष्टबीजः ॥१७९॥
विश्वद्वन्द्व निवारको विश्वमङ्गल कारकः । विश्वातिगो विश्वहर्ता विश्वकीर्तिश्च विश्वराट् ॥१८०॥
विश्ववेदान्त धर्मज्ञो विश्वसत्कार्य दर्शकः । विश्वभ्रातृत्व सन्दीपी विश्वधर्म प्रकाशकः ॥१८१॥ विश्वधर्मप्रकाशक ॐ नम इति ॥
अथ उत्तरभागः ॥
लीला संवार संखिन्न अशेष स्वभक्त पार्षदः । भूभार ग्लानि संहारी श्रीरामकृष्ण एव सः ॥१॥
श्रीरामकृष्ण देवस्य लोककल्याण कारिणः । स्तोत्रं सहस्र नामाख्यं एतन्निगदितं शुभम् ॥२॥
लीलानुक्रमिकं त्वेतन्न सर्वत्रोप वर्णितम् । इति नेति प्रसङ्गेन भक्त्युत्कर्षः समीप्सितः ॥३॥
यो वै पठेन्नरो नित्यं शृणुयाच्छ्रावयेदथ । गायेद्वा भावमाश्रित्य श्रद्धाभक्ति समन्वितः ॥४॥
न तस्य दुष्कृतं किञ्चित् लेशतोऽपि स्थितिं व्रजेत् । जित्वा पुण्यकृतां लोकान् शश्वच्छान्तिं स चाप्नुयात् ॥५॥
त्रेतायां यश्च रामो हि श्रीकृष्णो द्वापरे स्मृतः । तयोरैक्येन जातः स रामकृष्णः कलौ युगे ॥६॥
तस्यैश अपूर्वभासो निखिल नरकुल प्रार्थिताशेष कीर्तिः पुंसो लोकोत्तरस्य ह्यमल शिशुमते राज निप्रौढ कालम् । दिव्याचारादरो वै चरितपरिचयो न्यूनमत्यन्तसारौ सन्दिग्धे क्लिन्नकाले प्रकटमदयुते सर्वलोकामयघ्नौ ॥७॥
परिपूज्यात्मनश्चित्रं प्रपूज्यः स्यां गृहे गृहे । स्वयमघोष यद्देवो यत्तत् सत्यफलं वचः ॥८॥
इत्थं भूताभिधानाय चानुक्ताशेष वाचिने । सर्वथा वाच्य रूपाय रामकृष्णाय ते नमः ॥९॥ हरिः ॐ तत्सत् । इति शम् । अथ समर्पणम् ॥
यस्य वीर्येण कृतिनो वयं च भुवनानि च । रामकृष्णं सदा वन्दे स्वतंत्रं शर्वमीश्वरम् ॥
जय जय करुणाब्धे मोक्षसेतो स्मरारे । जय जय जगदीश ज्ञानसिन्धो स्वयंभो ॥ जय जय परमात्मन् त्राहि मां भक्तिहीनं । जय जय भवहारिन् रामकृष्ण द्विबाहो ॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यत् यत् सकलं परस्मै श्रीरामाकृष्णाय समर्पयामि ॥
मां मदीयं च सकलं श्रीरामकृष्ण चरणे समर्पये ॥
अथ प्रार्थना ॥
ॐ मङ्गलं सर्वलोकाय विवेकानन्द दायिने शारदा प्राणनाथाय रामकृष्णाय मङ्गलम् ॥
ॐ सर्वाणि भूतानि विशन्तु सौख्यम् । सर्वाणि भूतानि भजन्तु शान्तिम् । सर्वाणि भूतानि अयि रामकृष्ण संपूर्णमानन्दम् उपाश्रयन्ताम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ श्रीरामकृष्णार्पणमस्तु ॥
