Lord Vishnu

श्री षोडशायुध स्तोत्रम्

(Sri Shodasayudha Stotram)

Vedanta Desika

Also known as shri shodasayudha stotram · shree shodasayudha stotram · shodasayudha stotram

Nineteen verses by Vedanta Desika, who signs the last of them as Venkatanatha, on the sixteen weapons of Vishnu — the form in which the Lord stands attended by his own instruments, each of them treated as a divine person in its own right. The opening verse gives the frame: the lord of weapons, served by sixteen of them, and those sixteen fashioned out of fragments of his own will. Then each takes a verse. The discus is asked for protection as the wheel upon which both the wheel of the world and the unending wheel of time depend; the Panchajanya as the conch whose highness shows itself equally in where it is held and in the sound that it makes. The last verse calls the whole a praise of the king of weapons, made for the lasting good of good men.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

स्वसङ्कल्पकलाकल्पैरायुधैरायुधेश्वरः ।
जुष्टः षोडशभिर्दिव्यैर्जुषतां वः परः पुमान् ॥ १ ॥
यदायत्तं जगच्चक्रं कालचक्रं च शाश्वतम् ।
पातु वस्तत् परं चक्रं चक्ररूपस्य चक्रिणः ॥ २ ॥
यत्प्रसूति शतैरासन् रुद्राः परशुलाञ्छनाः ।
स दिव्यो हेतिराजस्य परशुः परिपातु वः ॥ ३ ॥
हेलया हेतिराजेन यस्मिन् दैत्याः समुद्धृते ।
शकुन्ता इव धावन्ति स कुन्तः पालयेत वः ॥ ४ ॥
दैत्यदानवमुख्यानां दण्ड्यानां येन दण्डनम् ।
हेतिदण्डेशदण्डोऽसौ भवतां दण्डयेद्द्विषः ॥ ५ ॥
अनन्यान्वयभक्तानां रुन्धन्नाशामतङ्गजान् ।
अनङ्कुशविहारो वः पातु हेतीश्वराङ्कुशः ॥ ६ ॥
सम्भूय शलभायन्ते यत्र पापानि देहिनाम् ।
स पातु शतवक्त्राग्निहेतिर्हेतीश्वरस्य वः ॥ ७ ॥
अविद्यां स्वप्रकाशेन विद्यारूपश्छिनत्ति यः ।
स सुदर्शननिस्त्रिंशः सौतु वस्तत्त्वदर्शनम् ॥ ८ ॥
क्रियाशक्तिगुणो विष्णोर्यो भवत्यतिशक्तिमान् ।
अकुण्ठशक्तिः सा शक्तिरशक्तिं वारयेत वः ॥ ९ ॥
तारत्वं यस्य संस्थाने शब्दे च परिदृश्यते ।
प्रभोः प्रहरणेन्द्रस्य पाञ्चजन्यः स पातु वः ॥ १० ॥
यं सात्त्विकमहङ्कारमामनन्त्यक्षसायकम् ।
अव्याद्वश्चक्ररूपस्य तद्धनुः शार्ङ्गधन्वनः ॥ ११ ॥
आयुधेन्द्रेण येनैव विश्वसर्गो विरच्यते ।
स वः सौदर्शनः कुर्यात् पाशः पाशविमोचनम् ॥ १२ ॥
विहारो येन देवस्य विश्वक्षेत्रकृषीवलः ।
व्यज्यते तेन सीरेण नासीरविजयोऽस्तु वः ॥ १३ ॥
आयुधानामहं वज्रं इत्यगीयत यः स वः ।
अव्याद्धेतीशवज्रोऽसावदधीच्यस्थिसम्भवः ॥ १४ ॥
विश्वसंहृतिशक्तिर्या विश्रुता बुद्धिरूपिणी ।
सा वः सौदर्शनी भूयाद्गदप्रशमनी गदा ॥ १५ ॥
यात्यतिक्षोदशालित्वं मुसलो येन तेन वः ।
हेतीशमुसलेनाशु भिद्यतां मोहमौसलम् ॥ १६ ॥
शूलिदृष्टमनोर्वाच्यो येन शूलयति द्विषः ।
भवतां तेन भवतात् त्रिशूलेन विशूलता ॥ १७ ॥
अस्त्रग्रामस्य कृत्स्नस्य प्रसूतिं यं प्रचक्षते ।
सोऽव्यात् सुदर्शनो विश्वं आयुधैः षोडशायुधः ॥ १८ ॥
श्रीमद्वेङ्कटनाथेन श्रेयसे भूयसे सताम् ।
कृतेयमायुधेन्द्रस्य षोडशायुधसंस्तुतिः ॥ १९ ॥
॥ इति श्रीवेदान्तदेशिक विरचितं षोडशायुध स्तोत्रम् सम्पूर्णम् ॥

Explore More